चाणक्य नीति – पंचमोऽध्यायः
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥ 01 ॥
यथा चतुर्भिः कनकं परीक्ष्यते
निघर्षणच्छेदनतापताडनैः ।
तथा चतुर्भिः पुरुषः परीक्ष्यते
त्यागेन शीलेन गुणेन कर्मणा ॥ 02 ॥
तावद्भयेषु भेतव्यं यावद्भयमनागतम् ।
आगतं तु भयं वीक्ष्य प्रहर्तव्यमशंकया ॥ 03 ॥
एकोदरसमुद्भूता एकनक्षत्रजातकाः ।
न भवंति समाः शीले यथा बदरकंटकाः ॥ 04 ॥
निःस्पृहो नाधिकारी स्यान् नाकामो मंडनप्रियः ।
नाविदग्धः प्रियं ब्रूयात्स्पष्टवक्ता न वंचकः ॥ 05 ॥
मूर्खाणां पंडिता द्वेष्या अधनानां महाधनाः ।
परांगना कुलस्त्रीणां सुभगानां च दुर्भगाः ॥ 06 ॥
आलस्योपगता विद्या परहस्तगतं धनम् ।
अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥ 07 ॥
अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते ।
गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥ 08 ॥
वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम् ॥ 09 ॥
अन्यथा वेदशास्त्राणि ज्ञानपांडित्यमन्यथा ।
अन्यथा तत्पदं शांतं लोकाः क्लिश्यंति चाह्न्यथा ॥ 10 ॥
दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम् ।
अज्ञाननाशिनी प्रज्ञा भावना भयनाशिनी ॥ 11 ॥
नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः ।
नास्ति कोपसमो वह्निर्नास्ति ज्ञानात्परं सुखम् ॥ 12 ॥
जन्ममृत्यू हि यात्येको भुनक्त्येकः शुभाशुभम् ।
नरकेषु पतत्येक एको याति परां गतिम् ॥ 13 ॥
तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् ।
जिताशस्य तृणं नारी निःस्पृहस्य तृणं जगत् ॥ 14 ॥
विद्या मित्रं प्रवासे च भार्या मित्रं गृहेषु च ।
व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥ 15 ॥
वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् ।
वृथा दानं समर्थस्य वृथा दीपो दिवापि च ॥ 16 ॥
नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम् ।
नास्ति चक्षुःसमं तेजो नास्ति धान्यसमं प्रियम् ॥ 17 ॥
अधना धनमिच्छंति वाचं चैव चतुष्पदाः ।
मानवाः स्वर्गमिच्छंति मोक्षमिच्छंति देवताः ॥ 18 ॥
सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥ 19 ॥
चला लक्ष्मीश्चलाः प्राणाश्चले जीवितमंदिरे ।
चलाचले च संसारे धर्म एको हि निश्चलः ॥ 20 ॥
नराणां नापितो धूर्तः पक्षिणां चैव वायसः ।
चतुष्पादं शृगालस्तु स्त्रीणां धूर्ता च मालिनी ॥ 21 ॥
जनिता चोपनेता च यस्तु विद्यां प्रयच्छति ।
अन्नदाता भयत्राता पंचैते पितरः स्मृताः ॥ 22 ॥
राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च ।
पत्नीमाता स्वमाता च पंचैता मातरः स्मृताः ॥ 23 ॥
वारंवार विचारले जाणारे प्रश्न
What is चाणक्य नीति - पंचमोऽध्यायः?
चाणक्य नीति - पंचमोऽध्यायः is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Marathi. Use the language selector to view another available edition.
Can I read चाणक्य नीति - पंचमोऽध्यायः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download चाणक्य नीति - पंचमोऽध्यायः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.