भज गोविंदम् (मोह मुद्गरम्)


भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते ।

संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृंकरणे ॥ 1 ॥
भज गोविंदं भज गोविंदं …

मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥ 2 ॥
भज गोविंदं भज गोविंदं …

नारीस्तनभर-नाभीदेशं
दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांसवसादिविकारं
मनसि विचिंतय वारं वारम् ॥ 3 ॥
भज गोविंदं भज गोविंदं …

नलिनीदल-गतजलमतितरलं
तद्वज्जीवितमतिशय-चपलम् ।
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम् ॥ 4 ॥
भज गोविंदं भज गोविंदं …

यावद्वित्तोपार्जनसक्तः
तावन्निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे ॥ 5 ॥
भज गोविंदं भज गोविंदं …

यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये ॥ 6 ॥
भज गोविंदं भज गोविंदं …

बालस्तावत्क्रीडासक्तः
तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावच्चिंतासक्तः
परमे ब्रह्मणि कोऽपि न सक्तः ॥ 7 ॥
भज गोविंदं भज गोविंदं …

का ते कांता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं कः कुत आयातः
तत्त्वं चिंतय तदिह भ्रातः ॥ 8 ॥
भज गोविंदं भज गोविंदं …

सत्संगत्वे निस्संगत्वं
निस्संगत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ॥ 9 ॥
भज गोविंदं भज गोविंदं …

वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः ॥ 10 ॥
भज गोविंदं भज गोविंदं …

मा कुरु धन-जन-यौवन-गर्वं
हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ 11 ॥
भज गोविंदं भज गोविंदं …

दिनयामिन्यौ सायं प्रातः
शिशिरवसंतौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः
तदपि न मुंचत्याशावायुः ॥ 12 ॥
भज गोविंदं भज गोविंदं …

का ते कांता धनगतचिंता
वातुल किं तव नास्ति नियंता ।
त्रिजगति सज्जनसंगतिरेका
भवति भवार्णवतरणे नौका ॥ 13 ॥
भज गोविंदं भज गोविंदं …

द्वादश-मंजरिकाभिरशेषः
कथितो वैयाकरणस्यैषः ।
उपदेशोऽभूद्विद्या-निपुणैः
श्रीमच्छंकर-भगवच्छरणैः ॥ 14 ॥
भज गोविंदं भज गोविंदं …

जटिलो मुंडी लुंछितकेशः
काषायांबर-बहुकृतवेषः ।
पश्यन्नपि च न पश्यति मूढः
उदरनिमित्तं बहुकृतवेषः ॥ 15 ॥
भज गोविंदं भज गोविंदं …

अंगं गलितं पलितं मुंडं
दशनविहीनं जातं तुंडम् ।
वृद्धो याति गृहीत्वा दंडं
तदपि न मुंचत्याशापिंडम् ॥ 16 ॥
भज गोविंदं भज गोविंदं …

अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुक-समर्पित-जानुः ।
करतल-भिक्षस्तरुतलवासः
तदपि न मुंचत्याशापाशः ॥ 17 ॥
भज गोविंदं भज गोविंदं …

कुरुते गंगासागरगमनं
व्रत-परिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन
भजति न मुक्तिं जन्मशतेन ॥ 18 ॥
भज गोविंदं भज गोविंदं …

सुरमंदिर-तरु-मूल-निवासः
शय्या भूतलमजिनं वासः ।
सर्व-परिग्रह-भोगत्यागः
कस्य सुखं न करोति विरागः ॥ 19 ॥
भज गोविंदं भज गोविंदं …

योगरतो वा भोगरतो वा
संगरतो वा संगविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नंदति नंदति नंदत्येव ॥ 20 ॥
भज गोविंदं भज गोविंदं …

भगवद्गीता किंचिदधीता
गंगाजल-लवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन न चर्चा ॥ 21 ॥
भज गोविंदं भज गोविंदं …

पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम् ।
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे ॥ 22 ॥
भज गोविंदं भज गोविंदं …

रथ्याचर्पट-विरचित-कंथः
पुण्यापुण्य-विवर्जित-पंथः ।
योगी योगनियोजित-चित्तः
रमते बालोन्मत्तवदेव ॥ 23 ॥
भज गोविंदं भज गोविंदं …

कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय सर्वमसारं
विश्वं त्यक्त्वा स्वप्नविचारम् ॥ 24 ॥
भज गोविंदं भज गोविंदं …

त्वयि मयि चान्यत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वांछस्यचिराद्यदि विष्णुत्वम् ॥ 25 ॥
भज गोविंदं भज गोविंदं …

शत्रौ मित्रे पुत्रे बंधौ
मा कुरु यत्नं विग्रहसंधौ ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम् ॥ 26 ॥
भज गोविंदं भज गोविंदं …

कामं क्रोधं लोभं मोहं
त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् ।
आत्मज्ञानविहीना मूढाः
ते पच्यंते नरकनिगूढाः ॥ 27 ॥
भज गोविंदं भज गोविंदं …

गेयं गीता-नामसहस्रं
ध्येयं श्रीपति-रूपमजस्रम् ।
नेयं सज्जन-संगे चित्तं
देयं दीनजनाय च वित्तम् ॥ 28 ॥
भज गोविंदं भज गोविंदं …

सुखतः क्रियते कामाभोगः
पश्चाद्धंत शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
तदपि न मुंचति पापाचरणम् ॥ 29 ॥
भज गोविंदं भज गोविंदं …

अर्थमनर्थं भावय नित्यं
नास्तिततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥ 30 ॥
भज गोविंदं भज गोविंदं …

प्राणायामं प्रत्याहारं
नित्यानित्य विवेकविचारम् ।
जाप्यसमेतसमाधिविधानं
कुर्ववधानं महदवधानम् ॥ 31 ॥
भज गोविंदं भज गोविंदं …

गुरुचरणांबुज-निर्भरभक्तः
संसारादचिराद्भव मुक्तः ।
सेंद्रियमानस-नियमादेवं
द्रक्ष्यसि निजहृदयस्थं देवम् ॥ 32 ॥
भज गोविंदं भज गोविंदं …

मूढः कश्चन वैयाकरणो
डुःकृंकरणाध्ययनधुरीणः ।
श्रीमच्छंकर-भगवच्छिष्यैः
बोधित आसीच्छोधित-करणः ॥ 33 ॥
भज गोविंदं भज गोविंदं …

भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते ।
नामस्मरणादन्यमुपायं
नहि पश्यामो भवतरणे ॥ 34 ॥
भज गोविंदं भज गोविंदं …

वारंवार विचारले जाणारे प्रश्न

What is भज गोविंदम् (मोह मुद्गरम्)?

भज गोविंदम् (मोह मुद्गरम्) is a Sri Krishna Stotrams available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read भज गोविंदम् (मोह मुद्गरम्) online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download भज गोविंदम् (मोह मुद्गरम्) as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook