अंबा स्तवः


यामामनंति मुनयः प्रकृतिं पुराणीं
विद्येति यां श्रुतिरहस्यविदो वदंति ।
तामर्धपल्लवितशंकररूपमुद्रां
देवीमनन्यशरणः शरणं प्रपद्ये ॥ 1 ॥

अंब स्तवेषु तव तावदकर्तृकाणि
कुंठीभवंति वचसामपि गुंभनानि ।
डिंभस्य मे स्तुतिरसावसमंजसापि
वात्सल्यनिघ्नहृदयां भवतीं धिनोतु ॥ 2 ॥

व्योमेति बिंदुरिति नाद इतींदुलेखा-
-रूपेति वाग्भवतनूरिति मातृकेति ।
निःस्यंदमानसुखबोधसुधास्वरूपा
विद्योतसे मनसि भाग्यवतां जनानाम् ॥ 3 ॥

आविर्भवत्पुलकसंततिभिः शरीरै-
-र्निःस्यंदमानसलिलैर्नयनैश्च नित्यम् ।
वाग्भिश्च गद्गदपदाभिरुपासते ये
पादौ तवांब भुवनेषु त एव धन्याः ॥ 4 ॥

वक्त्रं यदुद्यतमभिष्टुतये भवत्या-
-स्तुभ्यं नमो यदपि देवि शिरः करोति ।
चेतश्च यत्त्वयि परायणमंब तानि
कस्यापि कैरपि भवंति तपोविशेषैः ॥ 5 ॥

मूलालवालकुहरादुदिता भवानि
निर्भिद्य षट्सरसिजानि तटिल्लतेव ।
भूयोऽपि तत्र विशसि ध्रुवमंडलेंदु-
-निःस्यंदमानपरमामृततोयरूपा ॥ 6 ॥

दग्धं यदा मदनमेकमनेकधा ते
मुग्धः कटाक्षविधिरंकुरयांचकार ।
धत्ते तदाप्रभृति देवि ललाटनेत्रं
सत्यं ह्रियैव मुकुलीकृतमिंदुमौलेः ॥ 7 ॥

अज्ञातसंभवमनाकलितान्ववायं
भिक्षुं कपालिनमवाससमद्वितीयम् ।
पूर्वं करग्रहणमंगलतो भवत्याः
शंभुं क एव बुबुधे गिरिराजकन्ये ॥ 8 ॥

चर्मांबरं च शवभस्मविलेपनं च
भिक्षाटनं च नटनं च परेतभूमौ ।
वेतालसंहतिपरिग्रहता च शंभोः
शोभां बिभर्ति गिरिजे तव साहचर्यात् ॥ 9 ॥

कल्पोपसंहरणकेलिषु पंडितानि
चंडानि खंडपरशोरपि तांडवानि ।
आलोकनेन तव कोमलितानि मात-
-र्लास्यात्मना परिणमंति जगद्विभूत्यै ॥ 10 ॥

जंतोरपश्चिमतनोः सति कर्मसाम्ये
निःशेषपाशपटलच्छिदुरा निमेषात् ।
कल्याणि देशिककटाक्षसमाश्रयेण
कारुण्यतो भवति शांभववेददीक्षा ॥ 11 ॥

मुक्ताविभूषणवती नवविद्रुमाभा
यच्चेतसि स्फुरसि तारकितेव संध्या ।
एकः स एव भुवनत्रयसुंदरीणां
कंदर्पतां व्रजति पंचशरीं विनापि ॥ 12 ॥

ये भावयंत्यमृतवाहिभिरंशुजालै-
-राप्यायमानभुवनाममृतेश्वरीं त्वाम् ।
ते लंघयंति ननु मातरलंघनीयां
ब्रह्मादिभिः सुरवरैरपि कालकक्षाम् ॥ 13 ॥

यः स्फाटिकाक्षगुणपुस्तककुंडिकाढ्यां
व्याख्यासमुद्यतकरां शरदिंदुशुभ्राम् ।
पद्मासनां च हृदये भवतीमुपास्ते
मातः स विश्वकवितार्किकचक्रवर्ती ॥ 14 ॥

बर्हावतंसयुतबर्बरकेशपाशां
गुंजावलीकृतघनस्तनहारशोभाम् ।
श्यामां प्रवालवदनां सुकुमारहस्तां
त्वामेव नौमि शबरीं शबरस्य जायाम् ॥ 15 ॥

अर्धेन किं नवलताललितेन मुग्धे
क्रीतं विभोः परुषमर्धमिदं त्वयेति ।
आलीजनस्य परिहासवचांसि मन्ये
मंदस्मितेन तव देवि जडी भवंति ॥ 16 ॥

ब्रह्मांड बुद्बुदकदंबकसंकुलोऽयं
मायोदधिर्विविधदुःखतरंगमालः ।
आश्चर्यमंब झटिति प्रलयं प्रयाति
त्वद्ध्यानसंततिमहाबडबामुखाग्नौ ॥ 17 ॥

दाक्षायणीति कुटिलेति कुहारिणीति
कात्यायनीति कमलेति कलावतीति ।
एका सती भगवती परमार्थतोऽपि
संदृश्यसे बहुविधा ननु नर्तकीव ॥ 18 ॥

आनंदलक्षणमनाहतनाम्नि देशे
नादात्मना परिणतं तव रूपमीशे ।
प्रत्यङ्मुखेन मनसा परिचीयमानं
शंसंति नेत्रसलिलैः पुलकैश्च धन्याः ॥ 19 ॥

त्वं चंद्रिका शशिनि तिग्मरुचौ रुचिस्त्वं
त्वं चेतनासि पुरुषे पवने बलं त्वम् ।
त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा
निःसारमेव निखिलं त्वदृते यदि स्यात् ॥ 20 ॥

ज्योतींषि यद्दिवि चरंति यदंतरिक्षं
सूते पयांसि यदहिर्धरणीं च धत्ते ।
यद्वाति वायुरनलो यदुदर्चिरास्ते
तत्सर्वमंब तव केवलमाज्ञयैव ॥ 21 ॥

संकोचमिच्छसि यदा गिरिजे तदानीं
वाक्तर्कयोस्त्वमसि भूमिरनामरूपा ।
यद्वा विकासमुपयासि यदा तदानीं
त्वन्नामरूपगणनाः सुकरा भवंति ॥ 22 ॥

भोगाय देवि भवतीं कृतिनः प्रणम्य
भ्रूकिंकरीकृतसरोजगृहाः सहस्रम् ।
चिंतामणिप्रचयकल्पितकेलिशैले
कल्पद्रुमोपवन एव चिरं रमंते ॥ 23 ॥

हर्तुं त्वमेव भवसि त्वदधीनमीशे
संसारतापमखिलं दयया पशूनाम् ।
वैकर्तनी किरणसंहतिरेव शक्ता
धर्मं निजं शमयितुं निजयैव वृष्ट्या ॥ 24 ॥

शक्तिः शरीरमधिदैवतमंतरात्मा
ज्ञानं क्रिया करणमासनजालमिच्छा ।
ऐश्वर्यमायतनमावरणानि च त्वं
किं तन्न यद्भवसि देवि शशांकमौलेः ॥ 25 ॥

भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा
विद्याऽनले मरुति शांतिरतीवकांतिः ।
व्योम्नीति याः किल कलाः कलयंति विश्वं
तासां हि दूरतरमंब पदं त्वदीयम् ॥ 26 ॥

यावत्पदं पदसरोजयुगं त्वदीयं
नांगीकरोति हृदयेषु जगच्छरण्ये ।
तावद्विकल्पजटिलाः कुटिलप्रकारा-
-स्तर्कग्रहाः समयिनां प्रलयं न यांति ॥ 27 ॥

निर्देवयानपितृयानविहारमेके
कृत्वा मनः करणमंडलसार्वभौमम् ।
ध्याने निवेश्य तव कारणपंचकस्य
पर्वाणि पार्वति नयंति निजासनत्वम् ॥ 28 ॥

स्थूलासु मूर्तिषु महीप्रमुखासु मूर्तेः
कस्याश्चनापि तव वैभवमंब यस्याः ।
पत्या गिरामपि न शक्यत एव वक्तुं
सापि स्तुता किल मयेति तितिक्षितव्यम् ॥ 29 ॥

कालाग्निकोटिरुचिमंब षडध्वशुद्धौ
आप्लावनेषु भवतीममृतौघवृष्टिम् ।
श्यामां घनस्तनतटां शकलीकृताघां
ध्यायंत एव जगतां गुरवो भवंति ॥ 30 ॥

विद्यां परां कतिचिदंबरमंब केचि-
-दानंदमेव कतिचित्कतिचिच्च मायाम् ।
त्वां विश्वमाहुरपरे वयमामनामः
साक्षादपारकरुणां गुरुमूर्तिमेव ॥ 31 ॥

कुवलयदलनीलं बर्बरस्निग्धकेशं
पृथुतरकुचभाराक्रांतकांतावलग्नम् ।
किमिह बहुभिरुक्तैस्त्वत्स्वरूपं परं नः
सकलजननि मातः संततं सन्निधत्ताम् ॥ 32 ॥

इति श्रीकालिदास विरचित पंचस्तव्यां चतुर्थः अंबास्तवः ।

वारंवार विचारले जाणारे प्रश्न

What is अंबा स्तवः?

अंबा स्तवः is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Marathi. Use the language selector to view another available edition.

Can I read अंबा स्तवः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download अंबा स्तवः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook