उद्धवगीता – सप्तमोऽध्यायः
अथ सप्तमोऽध्यायः ।
श्री भगवान् उवाच ।
यत् आत्थ मां महाभाग तत् चिकीर्षितं एव मे ।
ब्रह्मा भवः लोकपालाः स्वर्वासं मे अभिकांक्षिणः ॥ 1॥
मया निष्पादितं हि अत्र देवकार्यं अशेषतः ।
यदर्थं अवतीर्णः अहं अंशेन ब्रह्मणार्थितः ॥ 2॥
कुलं वै शापनिर्दग्धं नंक्ष्यति अन्योन्यविग्रहात् ।
समुद्रः सप्तमे अह्न्ह्येतां पुरीं च प्लावयिष्यति ॥ 3॥
यः हि एव अयं मया त्यक्तः लोकः अयं नष्टमंगलः ।
भविष्यति अचिरात् साधो कलिनाऽपि निराकृतः ॥ 4॥
न वस्तव्यं त्वया एव इह मया त्यक्ते महीतले ।
जनः अधर्मरुचिः भद्रः भविष्यति कलौ युगे ॥ 5॥
त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबंधुषु ।
मयि आवेश्य मनः सम्यक् समदृक् विचरस्व गाम् ॥ 6॥
यत् इदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः ।
नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ॥ 7॥
पुंसः अयुक्तस्य नानार्थः भ्रमः सः गुणदोषभाक् ।
कर्माकर्मविकर्म इति गुणदोषधियः भिदा ॥ 8॥
तस्मात् युक्तैंद्रियग्रामः युक्तचित्तः इदं जगत् ।
आत्मनि ईक्षस्व विततं आत्मानं मयि अधीश्वरे ॥ 9॥
ज्ञानविज्ञानसंयुक्तः आत्मभूतः शरीरिणाम् ।
आत्मानुभवतुष्टात्मा न अंतरायैः विहन्यसे ॥ 10॥
दोषबुद्ध्या उभयातीतः निषेधात् न निवर्तते ।
गुणबुद्ध्या च विहितं न करोति यथा अर्भकः ॥ 11॥
सर्वभूतसुहृत् शांतः ज्ञानविज्ञाननिश्चयः ।
पश्यन् मदात्मकं विश्वं न विपद्येत वै पुनः ॥ 12॥
श्री शुकः उवाच ।
इति आदिष्टः भगवता महाभागवतः नृप ।
उद्धवः प्रणिपत्य आह तत्त्वजिज्ञासुः अच्युतम् ॥ 13॥
उद्धवः उवाच ।
योगेश योगविन्न्यास योगात्म योगसंभव ।
निःश्रेयसाय मे प्रोक्तः त्यागः संन्यासलक्षणः ॥ 14॥
त्यागः अयं दुष्करः भूमन् कामानां विषयात्मभिः ।
सुतरां त्वयि सर्वात्मन् न अभक्तैः इति मे मतिः ॥ 15॥
सः अहं मम अहं इति मूढमतिः विगाढः
त्वत् मायया विरचित आत्मनि सानुबंधे ।
तत् तु अंजसा निगदितं भवता यथा अहम्
संसाधयामि भगवन् अनुशाधि भृत्यम् ॥ 16॥
सत्यस्य ते स्वदृशः आत्मनः आत्मनः अन्यम्
वक्तारं ईश विबुधेषु अपि न अनुचक्षे ।
सर्वे विमोहितधियः तव मायया इमे
ब्रह्मादयः तनुभृतः बहिः अर्थभावः ॥ 17॥
तस्मात् भवंतं अनवद्यं अनंतपारम्
सर्वज्ञं ईश्वरं अकुंठविकुंठधिष्णि अयम् ।
निर्विण्णधीः अहं उ ह वृजनाभितप्तः
नारायणं नरसखं शरणं प्रपद्ये ॥ 18॥
श्री भगवान् उवाच ।
प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः ।
समुद्धरंति हि आत्मानं आत्मना एव अशुभाशयात् ॥ 19॥
आत्मनः गुरुः आत्मा एव पुरुषस्य विशेषतः ।
यत् प्रत्यक्ष अनुमानाभ्यां श्रेयः असौ अनुविंदते ॥ 20॥
पुरुषत्वे च मां धीराः सांख्ययोगविशारदाः ।
आविस्तरां प्रपश्यंति सर्वशक्ति उपबृंहितम् ॥ 21॥
एकद्वित्रिचतुष्पादः बहुपादः तथा अपदः ।
बह्व्यः संति पुरः सृष्टाः तासां मे पौरुषी प्रिया ॥ 22॥
अत्र मां मार्गयंत्यद्धाः युक्ताः हेतुभिः ईश्वरम् ।
गृह्यमाणैः गुणैः लिंगैः अग्राह्यं अनुमानतः ॥ 23॥
अत्र अपि उदाहरंति इमं इतिहासं पुरातनम् ।
अवधूतस्य संवादं यदोः अमिततेजसः ॥ 24॥
(अथ अवधूतगीतम् ।)
अवधूतं द्विजं कंचित् चरंतं अकुतोभयम् ।
कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित् ॥ 25॥
यदुः उवाच ।
कुतः बुद्धिः इयं ब्रह्मन् अकर्तुः सुविशारदा ।
यां आसाद्य भवान् लोकं विद्वान् चरति बालवत् ॥ 26॥
प्रायः धर्मार्थकामेषु विवित्सायां च मानवाः ।
हेतुना एव समीहंते आयुषः यशसः श्रियः ॥ 27॥
त्वं तु कल्पः कविः दक्षः सुभगः अमृतभाषणः ।
न कर्ता नेहसे किंचित् जडौन्मत्तपिशाचवत् ॥ 28॥
जनेषु दह्यमानेषु कामलोभदवाग्निना ।
न तप्यसे अग्निना मुक्तः गंगांभस्थः इव द्विपः ॥ 29॥
त्वं हि नः पृच्छतां ब्रह्मन् आत्मनि आनंदकारणम् ।
ब्रूहि स्पर्शविहीनस्य भवतः केवल आत्मनः ॥ 30॥
श्री भगवान् उवाच ।
यदुना एवं महाभागः ब्रह्मण्येन सुमेधसा ।
पृष्टः सभाजितः प्राह प्रश्रय अवनतं द्विजः ॥ 31॥
ब्राह्मणः उवाच ।
संति मे गुरवः राजन् बहवः बुद्ध्या उपाश्रिताः ।
यतः बुद्धिं उपादाय मुक्तः अटामि इह तान् श्रुणु ॥ 32॥
पृथिवी वायुः आकाशं आपः अग्निः चंद्रमा रविः ।
कपोतः अजगरः सिंधुः पतंगः मधुकृद् गजः ॥ 33॥
मधुहा हरिणः मीनः पिंगला कुररः अर्भकः ।
कुमारी शरकृत् सर्पः ऊर्णनाभिः सुपेशकृत् ॥ 34॥
एते मे गुरवः राजन् चतुर्विंशतिः आश्रिताः ।
शिक्षा वृत्तिभिः एतेषां अन्वशिक्षं इह आत्मनः ॥ 35॥
यतः यत् अनुशिक्षामि यथा वा नाहुषात्मज ।
तत् तथा पुरुषव्याघ्र निबोध कथयामि ते ॥ 36॥
भूतैः आक्रमाणः अपि धीरः दैववशानुगैः ।
तत् विद्वान् न चलेत् मार्गात् अन्वशिक्षं क्षितेः व्रतम् ॥ 37॥
शश्वत् परार्थसर्वेहः परार्थ एकांतसंभवः ।
साधुः शिक्षेत भूभृत्तः नगशिष्यः परात्मताम् ॥
38॥
प्राणवृत्त्या एव संतुष्येत् मुनिः न एव इंद्रियप्रियैः ।
ज्ञानं यथा न नश्येत न अवकीर्येत वाङ्मनः ॥ 39॥
विषयेषु आविशन् योगी नानाधर्मेषु सर्वतः ।
गुणदोषव्यपेत आत्मा न विषज्जेत वायुवत् ॥ 40॥
पार्थिवेषु इह देहेषु प्रविष्टः तत् गुणाश्रयः ।
गुणैः न युज्यते योगी गंधैः वायुः इव आत्मदृक् ॥ 41॥
अंतः हितः च स्थिरजंगमेषु
ब्रह्म आत्मभावेन समन्वयेन ।
व्याप्त्य अवच्छेदं असंगं आत्मनः
मुनिः नभः त्वं विततस्य भावयेत् ॥ 42॥
तेजः अबन्नमयैः भावैः मेघ आद्यैः वायुना ईरितैः ।
न स्पृश्यते नभः तद्वत् कालसृष्टैः गुणैः पुमान् ॥
43॥
स्वच्छः प्रकृतितः स्निग्धः माधुर्यः तीर्थभूः नृणाम् ।
मुनिः पुनाति अपां मित्रं ईक्ष उपस्पर्शकीर्तनैः ॥ 44॥
तेजस्वी तपसा दीप्तः दुर्धर्षौदरभाजनः ।
सर्वभक्षः अपि युक्त आत्मा न आदत्ते मलं अग्निवत् ॥ 45॥
क्वचित् शन्नः क्वचित् स्पष्टः उपास्यः श्रेयः इच्छताम् ।
भुंक्ते सर्वत्र दातॄणां दहन् प्राक् उत्तर अशुभम् ॥
46॥
स्वमायया सृष्टं इदं सत् असत् लक्षणं विभुः ।
प्रविष्टः ईयते तत् तत् स्वरूपः अग्निः इव एधसि ॥ 47॥
विसर्गाद्याः श्मशानांताः भावाः देहस्य न आत्मनः ।
कलानां इव चंद्रस्य कालेन अव्यक्तवर्त्मना ॥ 48॥
कालेन हि ओघवेगेन भूतानां प्रभव अपि अयौ ।
नित्यौ अपि न दृश्येते आत्मनः अग्नेः यथा अर्चिषाम् ॥ 49॥
गुणैः गुणान् उपादत्ते यथाकालं विमुंचति ।
न तेषु युज्यते योगी गोभिः गाः इव गोपतिः ॥ 50॥
बुध्यते स्वेन भेदेन व्यक्तिस्थः इव तत् गतः ।
लक्ष्यते स्थूलमतिभिः आत्मा च अवस्थितः अर्कवत् ॥ 51॥
न अतिस्नेहः प्रसंगः वा कर्तव्यः क्व अपि केनचित् ।
कुर्वन् विंदेत संतापं कपोतः इव दीनधीः ॥ 52॥
कपोतः कश्चन अरण्ये कृतनीडः वनस्पतौ ।
कपोत्या भार्यया सार्धं उवास कतिचित् समाः ॥ 53॥
कपोतौ स्नेहगुणितहृदयौ गृहधर्मिणौ ।
दृष्टिं दृष्ट्यांगं अंगेन बुद्धिं बुद्ध्या बबंधतुः ॥
54॥
शय्यासनाटनस्थानवार्ताक्रीडाशनादिकम् ।
मिथुनीभूय विस्रब्धौ चेरतुः वनराजिषु ॥ 55॥
यं यं वांछति सा राजन् तर्पयंति अनुकंपिता ।
तं तं समनयत् कामं कृच्छ्रेण अपि अजितैंद्रियः ॥ 56॥
कपोती प्रथमं गर्भं गृह्णति कालः आगते ।
अंडानि सुषुवे नीडे स्वपत्युः संनिधौ सती ॥ 57॥
तेषू काले व्यजायंत रचितावयवा हरेः ।
शक्तिभिः दुर्विभाव्याभिः कोमलांगतनूरुहाः ॥ 58॥
प्रजाः पुपुषतुः प्रीतौ दंपती पुत्रवत्सलौ ।
शऋण्वंतौ कूजितं तासां निर्वृतौ कलभाषितैः ॥ 59॥
तासां पतत्रैः सुस्पर्शैः कूजितैः मुग्धचेष्टितैः ।
प्रत्युद्गमैः अदीनानां पितरौ मुदं आपतुः ॥ 60॥
स्नेहानुबद्धहृदयौ अन्योन्यं विष्णुमायया ।
विमोहितौ दीनधियौ शिशून् पुपुषतुः प्रजाः ॥ 61॥
एकदा जग्मतुः तासां अन्नार्थं तौ कुटुंबिनौ ।
परितः कानने तस्मिन् अर्थिनौ चेरतुः चिरम् ॥ 62॥
दृष्ट्वा तान् लुब्धकः कश्चित् यदृच्छ अतः वनेचरः ।
जगृहे जालं आतत्य चरतः स्वालयांतिके ॥ 63॥
कपोतः च कपोती च प्रजापोषे सदा उत्सुकौ ।
गतौ पोषणं आदाय स्वनीडं उपजग्मतुः ॥ 64॥
कपोती स्वात्मजान् वीक्ष्य बालकान् जालसंवृतान् ।
तान् अभ्यधावत् क्रोशंती क्रोशतः भृशदुःखिता ॥ 65॥
सा असकृत् स्नेहगुणिता दीनचित्ता अजमायया ।
स्वयं च अबध्यत शिचा बद्धान् पश्यंति अपस्मृतिः ॥ 66॥
कपोतः च आत्मजान् बद्धान् आत्मनः अपि अधिकान् प्रियान् ।
भार्यां च आत्मसमां दीनः विललाप अतिदुःखितः ॥ 67॥
अहो मे पश्यत अपायं अल्पपुण्यस्य दुर्मतेः ।
अतृप्तस्य अकृतार्थस्य गृहः त्रैवर्गिकः हतः ॥ 68॥
अनुरूपा अनुकूला च यस्य मे पतिदेवता ।
शून्ये गृहे मां संत्यज्य पुत्रैः स्वर्याति साधुभिः ॥ 69॥
सः अहं शून्ये गृहे दीनः मृतदारः मृतप्रजः ।
जिजीविषे किमर्थं वा विधुरः दुःखजीवितः ॥ 70॥
तान् तथा एव आवृतान् शिग्भिः मृत्युग्रस्तान् विचेष्टतः ।
स्वयं च कृपणः शिक्षु पश्यन् अपि अबुधः अपतत् ॥ 71॥
तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम् ।
कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् ॥ 72॥
एवं कुटुंबी अशांत आत्मा द्वंद्व आरामः पतत् त्रिवत् ।
पुष्णन् कुटुंबं कृपणः सानुबंधः अवसीदति ॥ 73॥
यः प्राप्य मानुषं लोकं मुक्तिद्वारं अपावृतम् ।
गृहेषु खगवत् सक्तः तं आरूढच्युतं विदुः ॥ 74॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे श्रीकृष्णोद्धवसंवादे
यद्वधूतेतिहासे सप्तमोऽध्यायः ॥
सारके विचारिल्ले प्रस्न
What is उद्धवगीता - सप्तमोऽध्यायः?
उद्धवगीता - सप्तमोऽध्यायः is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read उद्धवगीता - सप्तमोऽध्यायः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download उद्धवगीता - सप्तमोऽध्यायः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.