तत्त्वबोध (आदि शंकराचार्य)
ध्यानं
वासुदेवेंद्रयोगींद्रं नत्वा ज्ञानप्रदं गुरुम् ।
मुमुक्षूणां हितार्थाय तत्त्वबोधोभिधीयते ॥
साधनचतुष्टयसंपन्नाधिकारिणां मोक्षसाधनभूतं
तत्त्वविवेकप्रकारं वक्ष्यामः ।
साधनचतुष्टयम्
साधनचतुष्टयं किम् ?
नित्यानित्यवस्तुविवेकः ।
इहामुत्रार्थफलभोगविरागः ।
शमादिषट्कसंपत्तिः ।
मुमुक्षुत्वं चेति ।
नित्यानित्यवस्तुविवेकः
नित्यानित्यवस्तुविवेकः कः ?
नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् ।
अयमेव नित्यानित्यवस्तुविवेकः ।
विरागः
विरागः कः ?
इहस्वर्गभोगेषु इच्छाराहित्यम् ।
शमादिसाधनसंपत्तिः
शमादिसाधनसंपत्तिः का ?
शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं च इति ।शमः कः ?
मनोनिग्रहः ।
दमः कः ?
चक्षुरादिबाह्येंद्रियनिग्रहः ।
उपरमः कः ?
स्वधर्मानुष्ठानमेव ।
तितिक्षा का ?
शीतोष्णसुखदुःखादिसहिष्णुत्वम् ।
श्रद्धा कीदृशी ?
गुरुवेदांतवाक्यादिषु विश्वासः श्रद्धा ।
समाधानं किम् ?
चित्तैकाग्रता ।
मुमुक्षुत्वं
मुमुक्षुत्वं किम् ?
मोक्षो मे भूयाद् इति इच्छा ।
एतत् साधनचतुष्टयम् ।
ततस्तत्त्वविवेकस्याधिकारिणो भवंति ।
तत्त्वविवेकः
तत्त्वविवेकः कः ?
आत्मा सत्यं तदन्यत् सर्वं मिथ्येति ।आत्मा कः ?
स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पंचकोशातीतः सन्
अवस्थात्रयसाक्षी सच्चिदानंदस्वरूपः सन्
यस्तिष्ठति स आत्मा ।
शरीरत्रयं (स्थूलशरीरम्)
स्थूलशरीरं किम् ?
पंचीकृतपंचमहाभूतैः कृतं सत्कर्मजन्यं
सुखदुःखादिभोगायतनं शरीरम्
अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति
षड्विकारवदेतत्स्थूलशरीरम् ।
शरीरत्रयं (सूक्ष्मशरीरम्)
सूक्ष्मशरीरं किम् ?
अपंचीकृतपंचमहाभूतैः कृतं सत्कर्मजन्यं
सुखदुःखादिभोगसाधनं
पंचज्ञानेंद्रियाणि पंचकर्मेंद्रियाणि पंचप्राणादयः
मनश्चैकं बुद्धिश्चैका
एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् ।
ज्ञानेंद्रियाणि
श्रोत्रं त्वक् चक्षुः रसना घ्राणं इति पंच ज्ञानेंद्रियाणि ।
श्रोत्रस्य दिग्देवता ।
त्वचो वायुः ।
चक्षुषः सूर्यः ।
रसनाया वरुणः ।
घ्राणस्य अश्विनौ ।
इति ज्ञानेंद्रियदेवताः ।
श्रोत्रस्य विषयः शब्दग्रहणम् ।
त्वचो विषयः स्पर्शग्रहणम् ।
चक्षुषो विषयः रूपग्रहणम् ।
रसनाया विषयः रसग्रहणम् ।
घ्राणस्य विषयः गंधग्रहणं इति ।
पंचकर्मेंद्रियाणि
वाक्पाणिपादपायूपस्थानीति पंचकर्मेंद्रियाणि ।
वाचो देवता वह्निः ।
हस्तयोरिंद्रः ।
पादयोर्विष्णुः ।
पायोर्मृत्युः ।
उपस्थस्य प्रजापतिः ।
इति कर्मेंद्रियदेवताः ।
वाचो विषयः भाषणम् ।
पाण्योर्विषयः वस्तुग्रहणम् ।
पादयोर्विषयः गमनम् ।
पायोर्विषयः मलत्यागः ।
उपस्थस्य विषयः आनंद इति ।
कारणशरीरम्
कारणशरीरं किम् ?
अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं
सत्स्वरूपाऽज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् ।
अवस्थात्रयम्
अवस्थात्रयं किम् ?
जाग्रत्स्वप्नसुषुप्त्यवस्थाः ।
जाग्रदवस्था
जाग्रदवस्था का ?
श्रोत्रादिज्ञानेंद्रियैः शब्दादिविषयैश्च ज्ञायते इति यत्
सा जाग्रदावस्था ।
स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते ।
स्वप्नावस्था
स्वप्नावस्था केति चेत् ?
जाग्रदवस्थायां यद्दृष्टं यद् श्रुतम्
तज्जनितवासनया निद्रासमये यः प्रपंचः प्रतीयते सा
स्वप्नावस्था ।
सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते ।
सुषुप्त्यवस्था
अतः सुषुप्त्यवस्था का ?
अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति
सुषुप्त्यवस्था ।
कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते ।
पंच कोशाः
पंच कोशाः के ?
अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनंदमयश्चेति ।
अन्नमयकोशः
अन्नमयः कः ?
अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां
यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् ।
प्राणमयकोशः
प्राणमयः कः ?
प्राणाद्याः पंचवायवः वागादींद्रियपंचकं प्राणमयः कोशः ।
मनोमयकोशः
मनोमयः कोशः कः ?
मनश्च ज्ञानेंद्रियपंचकं मिलित्वा यो भवति स मनोमयः कोशः ।
विज्ञानमयकोशः
विज्ञानमयः कः ?
बुद्धिज्ञानेंद्रियपंचकं मिलित्वा यो भवति स विज्ञानमयः कोशः
आनंदमयकोशः
आनंदमयः कः ?
एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं
प्रियादिवृत्तिसहितं सत् आनंदमयः कोशः ।
एतत्कोशपंचकम् ।
पंचकोशातीत
मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च
मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते
तद्यथा मदीयत्वेन ज्ञातं कटककुंडल गृहादिकं
स्वस्माद्भिन्नं तथा पंचकोशादिकं स्वस्माद्भिन्नम्
मदीयत्वेन ज्ञातमात्मा न भवति ॥
आत्मन्
आत्मा तर्हि कः ?
सच्चिदानंदस्वरूपः ।
सत्किम् ?
कालत्रयेऽपि तिष्ठतीति सत् ।
चित्किम् ?
ज्ञानस्वरूपः ।
आनंदः कः ?
सुखस्वरूपः ।
एवं सच्चिदानंदस्वरूपं स्वात्मानं विजानीयात् ।
जगत्
अथ चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः ।
माया
ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति ।
पंचभूताः
ततः आकाशः संभूतः ।
आकाशाद् वायुः ।
वायोस्तेजः ।
तेजस आपः ।
अभ्धयः पृथिवी ।
सत्त्वगुणः
एतेषां पंचतत्त्वानां मध्ये
आकाशस्य सात्विकांशात् श्रोत्रेंद्रियं संभूतम् ।
वायोः सात्विकांशात् त्वगिंद्रियं संभूतम् ।
अग्नेः सात्विकांशात् चक्षुरिंद्रियं संभूतम् ।
जलस्य सात्विकांशात् रसनेंद्रियं संभूतम् ।
पृथिव्याः सात्विकांशात् घ्राणेंद्रियं संभूतम् ।
अंतःकरण
एतेषां पंचतत्त्वानां समष्टिसात्विकांशात्
मनोबुद्ध्यहंकार चित्तांतःकरणानि संभूतानि ।
संकल्पविकल्पात्मकं मनः ।
निश्चयात्मिका बुद्धिः ।
अहंकर्ता अहंकारः ।
चिंतनकर्तृ चित्तम् ।
मनसो देवता चंद्रमाः ।
बुद्धे ब्रह्मा ।
अहंकारस्य रुद्रः ।
चित्तस्य वासुदेवः ।
रजोगुणः
एतेषां पंचतत्त्वानां मध्ये
आकाशस्य राजसांशात् वागिंद्रियं संभूतम् ।
वायोः राजसांशात् पाणींद्रियं संभूतम् ।
वन्हेः राजसांशात् पादेंद्रियं संभूतम् ।
जलस्य राजसांशात् उपस्थेंद्रियं संभूतम् ।
पृथिव्या राजसांशात् गुदेंद्रियं संभूतम् ।
एतेषां समष्टिराजसांशात् पंचप्राणाः संभूताः ।
तमोगुणः
एतेषां पंचतत्त्वानां तामसांशात्
पंचीकृतपंचतत्त्वानि भवंति ।
पंचीकरणं कथं इति चेत् ।
एतेषां पंचमहाभूतानां तामसांशस्वरूपम्
एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक्
तूष्णीं व्यवस्थाप्य अपरमपरमर्धं चतुर्धां विभज्य
स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं कार्यम् ।
तदा पंचीकरणं भवति ।
एतेभ्यः पंचीकृतपंचमहाभूतेभ्यः स्थूलशरीरं भवति ।
एवं पिंडब्रह्मांडयोरैक्यं संभूतम् ।
जीवः, ईश्वरः च
स्थूलशरीराभिमानि जीवनामकं ब्रह्मप्रतिबिंबं भवति ।
स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति ।
अविद्योपाधिः सन् आत्मा जीव इत्युच्यते ।
मायोपाधिः सन् ईश्वर इत्युच्यते ।
एवं उपाधिभेदात् जीवेश्वरभेददृष्टिः यावत्पर्यंतं तिष्ठति
तावत्पर्यंतं जन्ममरणादिरूपसंसारो न निवर्तते ।
तस्मात्कारणान्न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या ।
तत् त्वं असि
ननु साहंकारस्य किंचिज्ज्ञस्य जीवस्य निरहंकारस्य सर्वज्ञस्य
ईश्वरस्य तत्त्वमसीति महावाक्यात् कथमभेदबुद्धिः स्यादुभयोः
विरुद्धधर्माक्रांतत्वात् ।
इति चेन्न । स्थूलसूक्ष्मशरीराभिमानी त्वंपदवाच्यार्थः ।
उपाधिविनिर्मुक्तं समाधिदशासंपन्नं शुद्धं चैतन्यं
त्वंपदलक्ष्यार्थः ।
एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः ।
उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः ।
एवं च जीवेश्वरयो चैतन्यरूपेणाऽभेदे बाधकाभावः ।
जीवन्मुक्तः
एवं च वेदांतवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि
भूतेषु येषां
ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः इत्यर्थः ।ननु जीवन्मुक्तः कः ?
यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति
दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः
किंतु असंगः सच्चिदानंद स्वरूपः प्रकाशरूपः सर्वांतर्यामी
चिदाकाशरूपोऽस्मीति दृढनिश्चय
रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ॥ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबंधविनिर्मुक्तः
स्यात् ।
कर्माणि
कर्माणि कतिविधानि संतीति चेत्
आगामिसंचितप्रारब्धभेदेन त्रिविधानि संति ।
आगामि कर्म
ज्ञानोत्पत्त्यनंतरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म
यदस्ति तदागामीत्यभिधीयते ।
संचित कर्म
संचितं कर्म किम् ?
अनंतकोटिजन्मनां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं
तिष्ठति तत् संचितं ज्ञेयम् ।
प्रारब्ध कर्म
प्रारब्धं कर्म किमिति चेत् ।
इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं यत्कर्म
तत्प्रारब्धं
भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति ।
कर्म मुक्तः
संचितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति ।आगामि कर्म अपि ज्ञानेन नश्यति किंच आगामि कर्मणां
नलिनीदलगतजलवत् ज्ञानिनां संबंधो नास्ति ।
ज्ञानिः
किंच ये ज्ञानिनं स्तुवंति भजंति अर्चयंति तान्प्रति
ज्ञानिकृतं आगामि पुण्यं गच्छति ।
ये ज्ञानिनं निंदंति द्विषंति दुःखप्रदानं कुर्वंति तान्प्रति
ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म
पापात्मकं तद्गच्छति ।
सुहृदः पुण्यकृतं दुर्हृदः पापकृत्यं गृह्णंति ।
ब्रह्मानंदम्
तथा चात्मवित्संसारं तीर्त्वा ब्रह्मानंदमिहैव प्राप्नोति ।
तरति शोकमात्मवित् इति श्रुतेः ।
तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथ वा ।
ज्ञानसंप्राप्तिसमये मुक्ताऽसौ विगताशयः । इति स्मृतेश्च ।इति श्रीशंकरभगवत्पादाचार्यप्रणीतः तत्त्वबोधप्रकरणं समाप्तम् ।
सारके विचारिल्ले प्रस्न
What is तत्त्वबोध (आदि शंकराचार्य)?
तत्त्वबोध (आदि शंकराचार्य) is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read तत्त्वबोध (आदि शंकराचार्य) online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download तत्त्वबोध (आदि शंकराचार्य) as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.