सुदर्शन सहस्र नाम स्तोत्रम्
श्री गणेशाय नमः ॥
श्रीसुदर्शन परब्रह्मणे नमः ॥
अथ श्रीसुदर्शन सहस्रनाम स्तोत्रम् ॥
कैलासशिखरे रम्ये मुक्तामाणिक्य मंडपे ।
रक्तसिंहासनासीनं प्रमथैः परिवारितम् ॥ 1॥
बद्धांजलिपुटा भूत्वा पप्रच्छ विनयान्विता ।
भर्तारं सर्वधर्मज्ञं पार्वती परमेश्वरम् ॥ 2॥
पार्वती —
यत् त्वयोक्तं जगन्नाथ सुभ्रुशं क्षेममिच्छताम् ।
सौदर्शनं रुते शास्त्रं नास्तिचान्यदिति प्रभो ॥ 3॥
तत्र काचित् विवक्षास्थि तमर्थं प्रति मे प्रभो ।
एवमुक्तस्त्वहिर्बुद्ध्न्यः पार्वतीं प्रत्युवाच ताम् ॥ 4॥
अहिर्बुद्ध्न्य —
संशयो यदि ते तत्र तं ब्रूहि त्वं वरानने ।
इत्येवमुक्ता गिरिजा गिरिशेन महात्मना ॥ 5॥
पुनः प्रोवाच सर्वज्ञं ज्ञानमुद्राधरं पतिम् ॥
पार्वत्युवाच —
लोके सौदर्शनं मंत्रं यंत्रंतत्तत् प्रयोगवत् ॥ 6॥
सर्वं विज्ञातुमभ्यत्र यथावत् समनुष्ठितुम् ।
अतिवेलमशक्तानां तं मार्गं भृशमीछ्ताम् ॥ 7॥
को मार्गः का कथिस्तेषां कार्यसिद्धिः कथं भवेत् ।
एतन्मे ब्रूहि लोकेश त्वदन्यः को वदेतमुम् ॥ 8॥
ईश्वर उवाच —
अहं ते कथयिश्यामि सर्व सिद्धिकरं शुभम् ।
अनायासेन यज्जप्त्वा नरस्सिद्धिमवाप्नुयात् ॥ 9॥
तश्च सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् ।
नियमात् पठतां नॄणां चिंतितार्थ प्रदायकम् ॥ 10॥
तस्य नामसहस्रस्य सोऽहमेव ऋषिः स्मृतः ।
छंदोनुष्टुप् देवता तु परमात्मा सुदर्शनः ॥ 11॥
श्रीं बीजं ह्रीं तु शक्तिस्सा क्लीं कीलकमुदाहृतम् ।
समस्ताभीष्ट सिध्यर्थे विनियोग उदाहृतः ॥ 12॥
शंखं चक्रं च चापादि ध्यानमस्य समीरितम् ॥
ध्यानं —
शंखं चक्रं च चापं परशुमसिमिशुं शूल पाशांकुशाब्जम्
बिभ्राणं वज्रखेटौ हल मुसल गदा कुंदमत्युग्र दंष्ट्रम् ।
ज्वाला केशं त्रिनेत्रं ज्वल दलननिभं हार केयूर भूषम्
ध्यायेत् षट्कोण संस्थं सकल रिपुजन प्राण संहारि चक्रम् ॥
॥ हरिः ओम् ॥
श्रीचक्रः श्रीकरः श्रीशः श्रीविष्णुः श्रीविभावनः ।
श्रीमदांत्य हरः श्रीमान् श्रीवत्सकृत लक्षणः ॥ 1॥
श्रीनिधिः श्रीवरः स्रग्वी श्रीलक्ष्मी करपूजितः ।
श्रीरतः श्रीविभुः सिंधुकन्यापतिः अधोक्षजः ॥ 2॥
अच्युतश्चांबुजग्रीवः सहस्रारः सनातनः ।
समर्चितो वेदमूर्तिः समतीत सुराग्रजः ॥ 3॥
षट्कोण मध्यगो वीरः सर्वगोऽष्टभुजः प्रभुः ।
चंडवेगो भीमरवः शिपिविष्टार्चितो हरिः ॥ 4॥
शाश्वतः सकलः श्यामः श्यामलः शकटार्थनः ।
दैत्यारिः शारदस्कंधः सकटाक्षः शिरीषगः ॥ 5॥
शरपारिर्भक्तवश्यः शशांको वामनोव्ययः ।
वरूथीवारिजः कंजलोचनो वसुधादिपः ॥ 6॥
वरेण्यो वाहनोऽनंतः चक्रपाणिर्गदाग्रजः ।
गभीरो गोलकाधीशो गदापणिस्सुलोचनः ॥ 7॥
सहस्राक्षः चतुर्बाहुः शंखचक्र गदाधरः ।
भीषणो भीतिदो भद्रो भीमाभीष्ट फलप्रदः ॥ 8॥
भीमार्चितो भीमसेनो भानुवंश प्रकाशकः ।
प्रह्लादवरदः बाललोचनो लोकपूजितः ॥ 9॥
उत्तरामानदो मानी मानवाभीष्ट सिद्धिदः ।
भक्तपालः पापहारी बलदो दहनध्वजः ॥ 10॥
करीशः कनको दाता कामपाल पुरातनः ।
अक्रूरः क्रूरजनकः क्रूरदंष्ट्रः कुलादिपः ॥ 11॥
क्रूरकर्मा क्रूररूपि क्रूरहारी कुशेशयः ।
मंदरो मानिनीकांतो मधुहा माधवप्रियः ॥ 12॥
सुप्रतप्त स्वर्णरूपी बाणासुर भुजांतकृत् ।
धराधरो दानवारिर्दनुजेंद्रारि पूजितः ॥ 13॥
भाग्यप्रदो महासत्त्वो विश्वात्मा विगतज्वरः ।
सुराचार्यार्चितो वश्यो वासुदेवो वसुप्रदः ॥ 14॥
प्रणतार्तिहरः श्रेष्टः शरण्यः पापनाशनः ।
पावको वारणाद्रीशो वैकुंठो विगतकल्मषः ॥ 15॥
वज्रदंष्ट्रो वज्रनखो वायुरूपी निराश्रयः ।
निरीहो निस्पृहो नित्यो नीतिज्ञो नीतिपावनः ॥ 16॥
नीरूपो नारदनुतो नकुलाचल वासकृत् ।
नित्यानंदो बृहद्भानुः बृहदीशः पुरातनः ॥ 17॥
निधिनामधिपोऽनंदो नरकार्णव तारकः ।
अगाधोऽविरलो मर्त्यो ज्वालाकेशः ककार्च्चितः ॥ 18॥
तरुणस्तनुकृत् भक्तः परमः चित्तसंभवः ।
चिंत्यस्सत्वनिधिः साग्रस्चिदानंदः शिवप्रियः ॥ 19॥
शिन्शुमारश्शतमखः शातकुंभ निभप्रभः ।
भोक्तारुणेशो बलवान् बालग्रह निवारकः ॥ 20॥
सर्वारिष्ट प्रशमनो महाभय निवारकः ।
बंधुः सुबंधुः सुप्रीतस्संतुष्टस्सुरसन्नुतः ॥ 21॥
बीजकेश्यो बको भानुः अमितार्चिर्पांपतिः ।
सुयज्ञो ज्योतिषश्शांतो विरूपाक्षः सुरेश्वरः ॥ 22॥
वह्निप्राकार संवीतो रक्तगर्भः प्रभाकरः ।
सुशीलः सुभगः स्वक्षः सुमुखः सुखदः सुखी ॥ 23॥
महासुरः शिरच्छेता पाकशासन वंदितः ।
शतमूर्ति सहस्रारो हिरण्य ज्योतिरव्ययः ॥ 24॥
मंडली मंडलाकारः चंद्रसूर्याग्नि लोचनः ।
प्रभंजनः तीक्ष्णधारः प्रशांतः शारदप्रियः ॥ 25॥
भक्तप्रियो बलिहरो लावण्योलक्षणप्रियः ।
विमलो दुर्लभस्सोम्यस्सुलभो भीमविक्रमः ॥ 26॥
जितमन्युः जितारातिः महाक्षो भृगुपूजितः ।
तत्त्वरूपः तत्त्ववेदिः सर्वतत्व प्रतिष्ठितः ॥27॥
भावज्ञो बंधुजनको दीनबंधुः पुराणवित् ।
शस्त्रेशो निर्मतो नेता नरो नानासुरप्रियः ॥ 28॥
नाभिचक्रो नतामित्रो नधीश करपूजितः ।
दमनः कालिकः कर्मी कांतः कालार्थनः कविः ॥ 29॥
वसुंधरो वायुवेगो वराहो वरुणालयः ।
कमनीयकृतिः कालः कमलासन सेवितः ।
कृपालुः कपिलः कामी कामितार्थ प्रदायकः ॥ 30॥
धर्मसेतुर्धर्मपालो धर्मी धर्ममयः परः ।
ज्वालाजिम्हः शिखामौलीः सुरकार्य प्रवर्तकः ॥ 31॥
कलाधरः सुरारिघ्नः कोपहा कालरूपदृक् ।
दाताऽऽनंदमयो दिव्यो ब्रह्मरूपी प्रकाशकृत् ॥ 32 ।
सर्वयज्ञमयो यज्ञो यज्ञभुक् यज्ञभावनः ।
वह्निध्वजो वह्निसखो वंजुलद्रुम मूलकः ॥ 33॥
दक्षहा दानकारी च नरो नारायणप्रियः ।
दैत्यदंडधरो दांतः शुभ्रांगः शुभदायकः ॥ 34॥
लोहिताक्षो महारौद्रौ मायारूपधरः खगः ।
उन्नतो भानुजः सांगो महाचक्रः पराक्रमी ॥ 35॥
अग्नीशोऽग्निमयः द्वग्निलोचनोग्नि समप्रभः ।
अग्निमानग्निरसनो युद्धसेवी रविप्रियः ॥ 36॥
आश्रित घौघ विध्वंसी नित्यानंद प्रदायकः ।
असुरघ्नो महाबाहूर्भीमकर्मा शुभप्रदः ॥ 37॥
शशांक प्रणवाधारः समस्थाशी विषापहः ।
तर्को वितर्को विमलो बिलको बादरायणः ॥ 38॥
बदिरग्नस्चक्रवालः षट्कोणांतर्गतस्शिखीः ।
दृतधन्वा शोडषाक्षो दीर्घबाहूर्दरीमुखः ॥ 39॥
प्रसन्नो वामजनको निम्नो नीतिकरः शुचिः ।
नरभेदि सिंहरूपी पुराधीशः पुरंदरः ॥ 40॥
रविस्तुतो यूतपालो युतपारिस्सतांगतिः ।
हृषिकेशो द्वित्रमूर्तिः द्विरष्टायुदभृत् वरः ॥ 41॥
दिवाकरो निशानाथो दिलीपार्चित विग्रहः ।
धन्वंतरिस्श्यामलारिर्भक्तशोक विनाशकः ॥ 42॥
रिपुप्राण हरो जेता शूरस्चातुर्य विग्रहः ।
विधाता सच्चिदानंदस्सर्वदुष्ट निवारकः ॥ 43॥
उल्को महोल्को रक्तोल्कस्सहस्रोल्कस्शतार्चिषः ।
बुद्धो बौद्धहरो बौद्ध जनमोहो बुधाश्रयः ॥ 44 ॥
पूर्णबोधः पूर्णरूपः पूर्णकामो महाद्युतिः ।
पूर्णमंत्रः पूर्णगात्रः पूर्णषाड्गुण्य विग्रहः ॥ 45॥
पूर्णनेमिः पूर्ननाभिः पूर्णाशी पूर्णमानसः ।
पूर्णसारः पूर्णशक्तिः रंगसेवि रणप्रियः ॥ 46॥
पूरिताशोऽरिष्टदाति पूर्णार्थः पूर्णभूषणः ।
पद्मगर्भः पारिजातः परमित्रस्शराकृतिः ॥ 47॥
भूबृत्वपुः पुण्यमूर्ति भूभृतां पतिराशुकः ।
भाग्योदयो भक्तवश्यो गिरिजावल्लभप्रियः ॥ 48॥
गविष्टो गजमानीशो गमनागमन प्रियः ।
ब्रह्मचारि बंधुमानी सुप्रतीकस्सुविक्रमः ॥ 49॥
शंकराभीष्टदो भव्यः साचिव्यस्सव्यलक्षणः ।
महाहंसस्सुखकरो नाभाग तनयार्चितः ॥ 50॥
कोटिसूर्यप्रभो दीप्तो विद्युत्कोटि समप्रभः ।
वज्रकल्पो वज्रसखो वज्रनिर्घात निस्वनः ॥ 51॥
गिरीशो मानदो मान्यो नारायण करालयः ।
अनिरुद्धः परामर्षी उपेंद्रः पूर्णविग्रहः ॥ 52॥
आयुधेशस्शतारिघ्नः शमनः शतसैनिकः ।
सर्वासुर वधोद्युक्तः सूर्य दुर्मान भेदकः ॥ 53॥
राहुविप्लोषकारी च काशीनगर दाहकः ।
पीयुषांशु परंज्योतिः संपूर्ण क्रतुभुक् प्रभुः ॥ 54॥
मांधातृ वरदस्शुद्धो हरसेव्यस्शचीष्टदः ।
सहिष्णुर्बलभुक् वीरो लोकभृल्लोकनायकः ॥55॥
दुर्वासोमुनि दर्पघ्नो जयतो विजयप्रियः ।
पुराधीशोऽसुरारातिः गोविंद करभूषणः ॥ 56॥
रथरूपी रथाधीशः कालचक्र कृपानिधिः ।
चक्ररूपधरो विष्णुः स्थूलसूक्ष्मश्शिखिप्रभः ॥ 57॥
शरणागत संत्राता वेतालारिर्महाबलः ।
ज्ञानदो वाक्पतिर्मानी महावेगो महामणिः ॥ 58॥
विद्युत् केशो विहारेशः पद्मयोनिः चतुर्भुजः ।
कामात्मा कामदः कामी कालनेमि शिरोहरः ॥ 59॥
शुभ्रस्शुचीस्शुनासीरः शुक्रमित्रः शुभाननः ।
वृषकायो वृषारातिः वृषभेंद्र सुपूजितः ॥ 60॥
विश्वंभरो वीतिहोत्रो वीर्यो विश्वजनप्रियः ।
विश्वकृत् विश्वभो विश्वहर्ता साहसकर्मकृत् ॥ 61॥
बाणबाहूहरो ज्योतिः परात्मा शोकनाशनः ।
विमलादिपतिः पुण्यो ज्ञाता ज्ञेयः प्रकाशकः ॥ 62॥
म्लेच्छ प्रहारी दुष्टघ्नः सूर्यमंडलमध्यगः ।
दिगंबरो वृशाद्रीशो विविधायुध रूपकः ॥ 63॥
सत्ववान् सत्यवागीशः सत्यधर्म परायणः ।
रुद्रप्रीतिकरो रुद्र वरदो रुग्विभेदकः ॥ 64॥
नारायणो नक्रभेदी गजेंद्र परिमोक्षकः ।
धर्मप्रियः षडाधारो वेदात्मा गुणसागरः ॥ 65॥
गदामित्रः पृथुभुजो रसातल विभेदकः ।
तमोवैरी महातेजाः महाराजो महातपाः ॥ 66॥
समस्तारिहरः शांत क्रूरो योगेश्वरेश्वरः ।
स्थविरस्स्वर्ण वर्णांगः शत्रुसैन्य विनाशकृत् ॥ 67॥
प्राज्ञो विश्वतनुत्राता शऋतिस्मृतिमयः कृति ।
व्यक्ताव्यक्त स्वरूपांसः कालचक्रः कलानिधिः ॥ 68॥
महाध्युतिरमेयात्मा वज्रनेमिः प्रभानिधिः ।
महास्फुलिंग धारार्चिः महायुद्ध कृतच्युतः ॥ 69॥
कृतज्ञस्सहनो वाग्मी ज्वालामाला विभूषणः ।
चतुर्मुखनुतः श्रीमान् भ्राजिष्णुर्भक्तवत्सलः ॥ 70॥
चातुर्यगमनश्चक्री चातुर्वर्ग प्रदायकः ।
विचित्रमाल्याभरणः तीक्ष्णधारः सुरार्चितः ॥ 71॥
युगकृत् युगपालश्च युगसंधिर्युगांतकृत् ।
सुतीक्ष्णारगणो गम्यो बलिध्वंसी त्रिलोकपः ॥ 72॥
त्रिनेत्रस्त्रिजगद्वंध्यः तृणीकृत महासुरः ।
त्रिकालज्ञस्त्रिलोकज्ञः त्रिनाभिः त्रिजगत्प्रियः ॥ 73॥
सर्वयंत्रमयो मंत्रस्सर्वशत्रु निबर्हणः ।
सर्वगस्सर्ववित् सौम्यस्सर्वलोकहितंकरः ॥74॥
आदिमूलः सद्गुणाढ्यो वरेण्यस्त्रिगुणात्मकः ।
ध्यानगम्यः कल्मषघ्नः कलिगर्व प्रभेदकः ॥ 75॥
कमनीय तनुत्राणः कुंडली मंडिताननः ।
सुकुंठीकृत चंडेशः सुसंत्रस्थ षडाननः ॥ 76॥
विषाधीकृत विघ्नेशो विगतानंद नंदिकः ।
मथित प्रमथव्यूहः प्रणत प्रमदाधिपः ॥ 77॥
प्राणभिक्षा प्रदोऽनंतो लोकसाक्षी महास्वनः ।
मेधावी शाश्वथोऽक्रूरः क्रूरकर्माऽपराजितः ॥ 78॥
अरी दृष्टोऽप्रमेयात्मा सुंदरश्शत्रुतापनः ।
योग योगीश्वराधीशो भक्ताभीष्ट प्रपूरकः ॥ 79॥
सर्वकामप्रदोऽचिंत्यः शुभांगः कुलवर्धनः ।
निर्विकारोऽंतरूपो नरनारायणप्रियः ॥ 80॥
मंत्र यंत्र स्वरूपात्मा परमंत्र प्रभेदकः ।
भूतवेताल विध्वंसी चंड कूष्मांड खंडनः ॥ 81॥
यक्ष रक्षोगण ध्वंसी महाकृत्या प्रदाहकः ।
सकलीकृत मारीचः भैरव ग्रह भेदकः ॥ 82॥
चूर्णिकृत महाभूतः कबलीकृत दुर्ग्रहः ।
सुदुर्ग्रहो जंभभेदी सूचीमुख निषूदनः ॥ 83॥
वृकोदरबलोद्धर्त्ता पुरंदर बलानुगः ।
अप्रमेय बलः स्वामी भक्तप्रीति विवर्धनः ॥ 84॥
महाभूतेश्वरश्शूरो नित्यस्शारदविग्रहः ।
धर्माध्यक्षो विधर्मघ्नः सुधर्मस्थापकश्शिवः ॥ 85॥
विधूमज्वलनो भानुर्भानुमान् भास्वतां पतिः ।
जगन्मोहन पाटीरस्सर्वोपद्रव शोधकः ॥ 86॥
कुलिशाभरणो ज्वालावृतस्सौभाग्य वर्धनः ।
ग्रहप्रध्वंसकः स्वात्मरक्षको धारणात्मकः ॥ 87॥
संतापनो वज्रसारस्सुमेधाऽमृत सागरः ।
संतान पंजरो बाणताटंको वज्रमालिकः ॥ 88॥
मेखालग्निशिखो वज्र पंजरस्ससुरांकुशः ।
सर्वरोग प्रशमनो गांधर्व विशिखाकृतिः ॥ 89॥
प्रमोह मंडलो भूत ग्रह शऋंखल कर्मकृत् ।
कलावृतो महाशंखु धारणस्शल्य चंद्रिकः ॥ 90॥
छेदनो धारकस्शल्य क्षूत्रोन्मूलन तत्परः ।
बंधनावरणस्शल्य कृंतनो वज्रकीलकः ॥ 91॥
प्रतीकबंधनो ज्वाला मंडलस्शस्त्रधारणः ।
इंद्राक्षीमालिकः कृत्या दंडस्चित्तप्रभेदकः ॥ 92॥
ग्रह वागुरिकस्सर्व बंधनो वज्रभेदकः ।
लघुसंतान संकल्पो बद्धग्रह विमोचनः ॥ 93॥
मौलिकांचन संधाता विपक्ष मतभेदकः ।
दिग्बंधन करस्सूची मुखाग्निस्चित्तपातकः ॥ 94॥
चोराग्नि मंडलाकारः परकंकाल मर्दनः ।
तांत्रीकस्शत्रुवंशघ्नो नानानिगल मोचनः ॥ 95॥
समस्थलोक सारंगः सुमहा विषदूषणः ।
सुमहा मेरुकोदंडः सर्व वश्यकरेश्वरः ॥ 96॥
निखिलाकर्षणपटुः सर्व सम्मोह कर्मकृत् ।
संस्थंबन करः सर्व भूतोच्चाटन तत्परः ॥ 97॥
अहितामय कारी च द्विषन्मारण कारकः ।
एकायन गदामित्र विद्वेषण परायणः ॥ 98॥
सर्वार्थ सिद्धिदो दाता विधाता विश्वपालकः ।
विरूपाक्षो महावक्षाः वरिष्टो माधवप्रियः ॥ 99॥
अमित्रकर्शन शांतः प्रशांतः प्रणतार्तिहा ।
रमणीयो रणोत्साहो रक्ताक्षो रणपंडितः ॥ 100॥
रणांतकृत् रताकारः रतांगो रविपूजितः ।
वीरहा विविधाकारः वरुणाराधितो वशीः ।
सर्व शत्रु वधाकांक्षी शक्तिमान् भक्तमानदः ॥ 101॥
सर्वलोकधरः पुण्यः पुरुषः पुरुषोत्तमः ।
पुराणः पुंडरीकाक्षः परमर्म प्रभेदकः ॥ 102॥
वीरासनगतो वर्मी सर्वाधारो निरंकुशः ।
जगत्रक्षो जगन्मूर्तिः जगदानंद वर्धनः ॥ 103॥
शारदः शकटारातिः शंकरस्शकटाकृतिः ।
विरक्तो रक्तवर्णाढ्यो रामसायक रूपदृत् ॥ 104॥
महावराह् दंष्ट्रात्मा नृसिंह नगरात्मकः ।
समदृङ्मोक्षदो वंध्यो विहारी वीतकल्मषः ॥ 105॥
गंभीरो गर्भगो गोप्ता गभस्तिर्गुह्यगोगुरुः ।
श्रीधरः श्रीरतस्श्रांतः शत्रुघ्नस्शऋतिगोचरः ॥ 106॥
पुराणो विततो वीरः पवित्रस्चरणाह्वयः ।
महाधीरो महावीर्यो महाबल पराक्रमः ॥ 107॥
सुविग्रहो विग्रहघ्नः सुमानी मानदायकः ।
मायी मायापहो मंत्री मान्यो मानविवर्धनः ॥ 108॥
शत्रुसंहारकस्शूरः शुक्रारिश्शंकरार्चितः ।
सर्वाधारः परंज्योतिः प्राणः प्राणभृतच्युतः ॥ 109॥
चंद्रधामाऽप्रतिद्वंदः परमात्मा सुदुर्गमः ।
विशुद्धात्मा महातेजाः पुण्यश्लोकः पुराणवित् ॥ 110॥
समस्थ जगदाधारो विजेता विक्रमः क्रमः ।
आदिदेवो ध्रुवो दृश्यः सात्त्विकः प्रीतिवर्धनः ॥ 111॥
सर्वलोकाश्रयस्सेव्यः सर्वात्मा वंशवर्धनः ।
दुराधर्षः प्रकाशात्मा सर्वदृक् सर्ववित्समः ॥ 112॥
सद्गतिस्सत्वसंपन्नः नित्यसंकल्प कल्पकः ।
वर्णी वाचस्पतिर्वाग्मी महाशक्तिः कलानिधिः ॥ 113॥
अंतरिक्षगतिः कल्यः कलिकालुष्य मोचनः ।
सत्यधर्मः प्रसन्नात्मा प्रकृष्टो व्योमवाहनः ॥ 114॥
शितधारस्शिखि रौद्रो भद्रो रुद्रसुपूजितः ।
दरिमुखाग्निजंभघ्नो वीरहा वासवप्रियः ॥ 115॥
दुस्तरस्सुदुरारोहो दुर्ज्ञेयो दुष्टनिग्रहः ।
भूतावासो भूतहंता भूतेशो भूतभावनः ॥ 116॥
भावज्ञो भवरोगघ्नो मनोवेगी महाभुजः ।
सर्वदेवमयः कांतः स्मृतिमान् सर्वपावनः ॥ 117॥
नीतिमन् सर्वजित् सौम्यो महर्षीरपराजितः ।
रुद्रांबरीष वरदो जितमायः पुरातनः ॥ 118॥
अध्यात्म निलयो भोक्ता संपूर्णस्सर्वकामदः ।
सत्योऽक्षरो गभीरात्मा विश्वभर्ता मरीचिमान् ॥ 119॥
निरंजनो जितभ्रांशुः अग्निगर्भोऽग्नि गोचरः ।
सर्वजित् संभवो विष्णुः पूज्यो मंत्रवितक्रियः ॥ 120॥
शतावर्त्तः कलानाथः कालः कालमयो हरिः ।
अरूपो रूपसंपन्नो विश्वरूपो विरूपकृत् ॥ 121॥
स्वाम्यात्मा समरश्लाघी सुव्रतो विजयांवितः ।
चंड्घ्नस्चंडकिरणः चतुरस्चारणप्रियः ॥ 122॥
पुण्यकीर्तिः परामर्षी नृसिंहो नाभिमध्यगः ।
यज्ञात्म यज्ञसंकल्पो यज्ञकेतुर्महेश्वरः ॥ 123॥
जितारिर्यज्ञनिलयश्शरण्यश्शकटाकृतिः ।
उत्त्मोऽनुत्त्मोनंगस्सांगस्सर्वांग शोभनः ॥ 124॥
कालाग्निः कालनेमिघ्नः कामि कारुण्यसागरः ।
रमानंदकरो रामो रजनीशांतरस्थितः ॥ 125॥
संवर्धन समरांवेषी द्विषत्प्राण परिग्रहः ।
महाभिमानी संधाता सर्वाधीशो महागुरुः ॥ 126
सिद्धः सर्वजगद्योनिः सिद्धार्थस्सर्वसिद्धिदः ।
चतुर्वेदमयश्शास्था सर्वशास्त्र विशारदः ॥ 127 ॥
तिरस्कृतार्क तेजस्को भास्कराराधितश्शुभः ।
व्यापी विश्वंभरो व्यग्रः स्वयंज्योतिरनंतकृत् ॥ 128॥
जयशीलो जयाकांक्षी जातवेदो जयप्रदः ।
कविः कल्याणदः काम्यो मोक्षदो मोहनाकृतिः ॥ 129॥
कुंकुमारुण सर्वांग कमलाक्षः कवीश्वरः ।
सुविक्रमो निष्कलंको विश्वक्सेनो विहारकृत् ॥ 130॥
कदंबासुर विध्वंसी केतनग्रह दाहकः ।
जुगुप्साग्नस्तीक्ष्णधारो वैकुंठ भुजवासकृत् ॥ 131॥
सारज्ञः करुणामूर्तिः वैष्णवो विष्णुभक्तिदः ।
सुक्रुतज्ञो महोदारो दुष्कृतघ्नस्सुविग्रहः ॥ 132॥
सर्वाभीष्ट प्रदोऽंतो नित्यानंदो गुणाकरः ।
चक्री कुंदधरः खड्गी परश्वत धरोऽग्निभृत् ॥ 133॥
दृतांकुशो दंडधरः शक्तिहस्थस्सुशंखभ्रुत् ।
धन्वी दृतमहापाशो हलि मुसलभूषणः ॥ 134॥
गदायुधधरो वज्री महाशूल लसत्भुजः ।
समस्तायुध संपूर्णस्सुदर्शन महाप्रभुः ॥ 135॥
॥ फलशऋतिः ॥
इति सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् ।
सर्वसिद्धिकरं सर्व यंत्र मंत्रात्मकं परम् ॥ 136॥
एतन्नाम सहस्रं तु नित्यं यः पठेत् सुधीः ।
शऋणोति वा श्रावयति तस्य सिद्धिः करस्तिता ॥ 137॥
दैत्यानां देवशत्रूणां दुर्जयानां महौजसाम् ।
विनाशार्थमिदं देवि हरो रासाधितं मया ॥ 138॥
शत्रुसंहारकमिदं सर्वदा जयवर्धनम् ।
जल शैल महारण्य दुर्गमेषु महापति ॥ 139॥
भयंकरेषु शापत्सु संप्राप्तेषु महत्सुच ।
यस्सकृत् पठनं कुर्यात् तस्य नैव भवेत् भयम् ॥ 140॥
ब्रह्मघ्नश्च पशुघ्नश्च मातापितॄ विनिंदकः ।
देवानां दूषकश्चापि गुरुतल्पगतोऽपि वा ॥ 141॥
जप्त्वा सकृतिदं स्तोत्रं मुच्यते सर्वकिल्बिषैः ।
तिष्ठन् गच्छन् स्वपन् भुंजन् जाग्रन्नपि हसन्नपि ॥ 142॥
सुदर्शन नृसिंहेति यो वदेत्तु सकृन्नरः ।
स वै न लिप्यते पापैः भुक्तिं मुक्तिं च विंदति ॥ 143॥
आदयो व्यादयस्सर्वे रोगा रोगादिदेवताः ।
शीघ्रं नश्यंति ते सर्वे पठनात्तस्य वै नृणाम् ॥ 144॥
बहूनात्र किमुक्तेन जप्त्वेदं मंत्र पुष्कलम् ।
यत्र मर्त्यश्चरेत् तत्र रक्षति श्रीसुदर्शनः ॥ 145॥
इति श्री विहगेश्वर उत्तरखंडे उमामहेश्वरसंवादे
मंत्रविधाने श्री सुदर्शन सहस्रनाम स्तोत्रं नाम
षोडश प्रकाशः ॥
सारके विचारिल्ले प्रस्न
What is सुदर्शन सहस्र नाम स्तोत्रम्?
सुदर्शन सहस्र नाम स्तोत्रम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read सुदर्शन सहस्र नाम स्तोत्रम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download सुदर्शन सहस्र नाम स्तोत्रम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.