श्री सुब्रह्मण्य सहस्र नाम स्तोत्रम्
ऋषय ऊचुः ।
सर्वशास्त्रार्थतत्त्वज्ञ सर्वलोकोपकारक ।
वयं चातिथयः प्राप्ता आतिथेयोऽसि सुव्रत ॥ 1 ॥
ज्ञानदानेन संसारसागरात्तारयस्व नः ।
कलौ कलुषचित्ता ये नराः पापरताः सदा ॥ 2 ॥
केन स्तोत्रेण मुच्यंते सर्वपातकबंधनात् ।
इष्टसिद्धिकरं पुण्यं दुःखदारिद्र्यनाशनम् ॥ 3 ॥
सर्वरोगहरं स्तोत्रं सूत नो वक्तुमर्हसि ।
श्रीसूत उवाच ।
शृणुध्वं ऋषयः सर्वे नैमिशारण्यवासिनः ॥ 4 ॥
तत्त्वज्ञानतपोनिष्ठाः सर्वशास्त्रविशारदाः ।
स्वयंभुवा पुरा प्रोक्तं नारदाय महात्मने ॥ 5 ॥
तदहं संप्रवक्ष्यामि श्रोतुं कौतूहलं यदि ।
ऋषय ऊचुः ।
किमाह भगवान्ब्रह्मा नारदाय महात्मने ॥ 6 ॥
सूतपुत्र महाभाग वक्तुमर्हसि सांप्रतम् ।
श्रीसूत उवाच ।
दिव्यसिंहासनासीनं सर्वदेवैरभिष्टुतम् ॥ 7 ॥
साष्टांगं प्रणिपत्यैनं ब्रह्माणं भुवनेश्वरम् ।
नारदः परिपप्रच्छ कृतांजलिरुपस्थितः ॥ 8 ॥
नारद उवाच ।
लोकनाथ सुरश्रेष्ठ सर्वज्ञ करुणाकर ।
षण्मुखस्य परं स्तोत्रं पावनं पापनाशनम् ॥ 9 ॥
हे धातः पुत्रवात्सल्यात्तद्वद प्रणताय मे ।
उपदिश्य तु मामेवं रक्ष रक्ष कृपानिधे ॥ 10 ॥
ब्रह्मोवाच ।
शृणु वक्ष्यामि देवर्षे स्तवराजमिदं परम् ।
मातृकामालिकायुक्तं ज्ञानमोक्षसुखप्रदम् ॥ 11 ॥
सहस्राणि च नामानि षण्मुखस्य महात्मनः ।
यानि नामानि दिव्यानि दुःखरोगहराणि च ॥ 12 ॥
तानि नामानि वक्ष्यामि कृपया त्वयि नारद ।
जपमात्रेण सिद्ध्यंति मनसा चिंतितान्यपि ॥ 13 ॥
इहामुत्र परं भोगं लभते नात्र संशयः ।
इदं स्तोत्रं परं पुण्यं कोटियज्ञफलप्रदम् ।
संदेहो नात्र कर्तव्यः शृणु मे निश्चितं वचः ॥ 14 ॥
ॐ अस्य श्रीसुब्रह्मण्यसहस्रनामस्तोत्र महामंत्रस्य ब्रह्मा ऋषिः अनुष्टुप्छंदः सुब्रह्मण्यो देवता शरजन्माक्षय इति बीजं शक्तिधरोऽक्षय कार्तिकेय इति शक्तिः क्रौंचधर इति कीलकं शिखिवाहन इति कवचं षण्मुखाय इति ध्यानं श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः –
ॐ शं ॐकारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय अंगुष्ठाभ्यां नमः ।
ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय तर्जनीभ्यां नमः ।
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय मध्यमाभ्यां नमः ।
ॐ णं कृशानुसंभवाय कवचिने कुक्कुटध्वजाय अनामिकाभ्यां नमः ।
ॐ भं कंदर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय कनिष्ठिकाभ्यां नमः ।
ॐ वं खेटधराय खड्गिने शक्तिहस्ताय करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ॐ शं ॐकारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय हृदयाय नमः ।
ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय शिरसे स्वाहा ।
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय शिखायै वषट् ।
ॐ णं कृशानुसंभवाय कवचिने कुक्कुटध्वजाय कवचाय हुम् ।
ॐ भं कंदर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय नेत्रत्रयाय वौषट् ।
ॐ वं खेटधराय खड्गिने शक्तिहस्ताय अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बंधः ।
ध्यानम् ।
ध्यायेत्षण्मुखमिंदुकोटिसदृशं रत्नप्रभाशोभितं
बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् ।
कर्णालंबितकुंडलप्रविलसद्गंडस्थलाशोभितं
कांचीकंकणकिंकिणीरवयुतं शृंगारसारोदयम् ॥ 1 ॥
ध्यायेदीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहं
खेटं कुक्कुटमंकुशं च वरदं पाशं धनुश्चक्रकम् ।
वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखं
देवं चित्रमयूरवाहनगतं चित्रांबरालंकृतम् ॥ 2 ॥
स्तोत्रम् ।
अचिंत्यशक्तिरनघस्त्वक्षोभ्यस्त्वपराजितः ।
अनाथवत्सलोऽमोघस्त्वशोकोऽप्यजरोऽभयः ॥ 1 ॥
अत्युदारो ह्यघहरस्त्वग्रगण्योऽद्रिजासुतः ।
अनंतमहिमाऽपारोऽनंतसौख्यप्रदोऽव्ययः ॥ 2 ॥
अनंतमोक्षदोऽनादिरप्रमेयोऽक्षरोऽच्युतः ।
अकल्मषोऽभिरामोऽग्रधुर्यश्चामितविक्रमः ॥ 3 ॥
[ अतुलश्चामृतोऽघोरो ह्यनंतोऽनंतविक्रमः ]
अनाथनाथो ह्यमलो ह्यप्रमत्तोऽमरप्रभुः ।
अरिंदमोऽखिलाधारस्त्वणिमादिगुणोऽग्रणीः ॥ 4 ॥
अचंचलोऽमरस्तुत्यो ह्यकलंकोऽमिताशनः ।
अग्निभूरनवद्यांगो ह्यद्भुतोऽभीष्टदायकः ॥ 5 ॥
अतींद्रियोऽप्रमेयात्मा ह्यदृश्योऽव्यक्तलक्षणः ।
आपद्विनाशकस्त्वार्य आढ्य आगमसंस्तुतः ॥ 6 ॥
आर्तसंरक्षणस्त्वाद्य आनंदस्त्वार्यसेवितः ।
आश्रितेष्टार्थवरद आनंद्यार्तफलप्रदः ॥ 7 ॥
आश्चर्यरूप आनंद आपन्नार्तिविनाशनः ।
इभवक्त्रानुजस्त्विष्ट इभासुरहरात्मजः ॥ 8 ॥
इतिहासश्रुतिस्तुत्य इंद्रभोगफलप्रदः ।
इष्टापूर्तफलप्राप्तिरिष्टेष्टवरदायकः ॥ 9 ॥
इहामुत्रेष्टफलद इष्टदस्त्विंद्रवंदितः ।
ईडनीयस्त्वीशपुत्र ईप्सितार्थप्रदायकः ॥ 10 ॥
ईतिभीतिहरश्चेड्य ईषणात्रयवर्जितः ।
उदारकीर्तिरुद्योगी चोत्कृष्टोरुपराक्रमः ॥ 11 ॥
उत्कृष्टशक्तिरुत्साह उदारश्चोत्सवप्रियः ।
उज्जृंभ उद्भवश्चोग्र उदग्रश्चोग्रलोचनः ॥ 12 ॥
उन्मत्त उग्रशमन उद्वेगघ्नोरगेश्वरः ।
उरुप्रभावश्चोदीर्ण उमापुत्र उदारधीः ॥ 13 ॥
ऊर्ध्वरेतःसुतस्तूर्ध्वगतिदस्तूर्जपालकः ।
ऊर्जितस्तूर्ध्वगस्तूर्ध्व ऊर्ध्वलोकैकनायकः ॥ 14 ॥
ऊर्जावानूर्जितोदार ऊर्जितोर्जितशासनः ।
ऋषिदेवगणस्तुत्य ऋणत्रयविमोचनः ॥ 15 ॥
ऋजुरूपो ह्यृजुकर ऋजुमार्गप्रदर्शनः ।
ऋतंभरो ह्यृजुप्रीत ऋषभस्त्वृद्धिदस्त्वृतः ॥ 16 ॥
लुलितोद्धारको लूतभवपाशप्रभंजनः ।
एणांकधरसत्पुत्र एक एनोविनाशनः ॥ 17 ॥
ऐश्वर्यदश्चैंद्रभोगी चैतिह्यश्चैंद्रवंदितः ।
ओजस्वी चौषधिस्थानमोजोदश्चौदनप्रदः ॥ 18 ॥
औदार्यशील औमेय औग्र औन्नत्यदायकः ।
औदार्य औषधकर औषधं चौषधाकरः ॥ 19 ॥
अंशुमानंशुमालीड्य अंबिकातनयोऽन्नदः ।
अंधकारिसुतोऽंधत्वहारी चांबुजलोचनः ॥ 20 ॥
अस्तमायोऽमराधीशो ह्यस्पष्टोऽस्तोकपुण्यदः ।
अस्तामित्रोऽस्तरूपश्चास्खलत्सुगतिदायकः ॥ 21 ॥
कार्तिकेयः कामरूपः कुमारः क्रौंचदारणः ।
कामदः कारणं काम्यः कमनीयः कृपाकरः ॥ 22 ॥
कांचनाभः कांतियुक्तः कामी कामप्रदः कविः ।
कीर्तिकृत्कुक्कुटधरः कूटस्थः कुवलेक्षणः ॥ 23 ॥
कुंकुमांगः क्लमहरः कुशलः कुक्कुटध्वजः ।
कुशानुसंभवः क्रूरः क्रूरघ्नः कलितापहृत् ॥ 24 ॥
कामरूपः कल्पतरुः कांतः कामितदायकः ।
कल्याणकृत्क्लेशनाशः कृपालुः करुणाकरः ॥ 25 ॥
कलुषघ्नः क्रियाशक्तिः कठोरः कवची कृती ।
कोमलांगः कुशप्रीतः कुत्सितघ्नः कलाधरः ॥ 26 ॥
ख्यातः खेटधरः खड्गी खट्वांगी खलनिग्रहः ।
ख्यातिप्रदः खेचरेशः ख्यातेहः खेचरस्तुतः ॥ 27 ॥
खरतापहरः स्वस्थः खेचरः खेचराश्रयः ।
खंडेंदुमौलितनयः खेलः खेचरपालकः ॥ 28 ॥
खस्थलः खंडितार्कश्च खेचरीजनपूजितः ।
गांगेयो गिरिजापुत्रो गणनाथानुजो गुहः ॥ 29 ॥
गोप्ता गीर्वाणसंसेव्यो गुणातीतो गुहाश्रयः ।
गतिप्रदो गुणनिधिः गंभीरो गिरिजात्मजः ॥ 30 ॥
गूढरूपो गदहरो गुणाधीशो गुणाग्रणीः ।
गोधरो गहनो गुप्तो गर्वघ्नो गुणवर्धनः ॥ 31 ॥
गुह्यो गुणज्ञो गीतिज्ञो गतातंको गुणाश्रयः ।
गद्यपद्यप्रियो गुण्यो गोस्तुतो गगनेचरः ॥ 32 ॥
गणनीयचरित्रश्च गतक्लेशो गुणार्णवः ।
घूर्णिताक्षो घृणिनिधिः घनगंभीरघोषणः ॥ 33 ॥
घंटानादप्रियो घोषो घोराघौघविनाशनः ।
घनानंदो घर्महंता घृणावान् घृष्टिपातकः ॥ 34 ॥
घृणी घृणाकरो घोरो घोरदैत्यप्रहारकः ।
घटितैश्वर्यसंदोहो घनार्थो घनसंक्रमः ॥ 35 ॥
चित्रकृच्चित्रवर्णश्च चंचलश्चपलद्युतिः ।
चिन्मयश्चित्स्वरूपश्च चिरानंदश्चिरंतनः ॥ 36 ॥
चित्रकेलिश्चित्रतरश्चिंतनीयश्चमत्कृतिः ।
चोरघ्नश्चतुरश्चारुश्चामीकरविभूषणः ॥ 37 ॥
चंद्रार्ककोटिसदृशश्चंद्रमौलितनूभवः ।
छादितांगश्छद्महंता छेदिताखिलपातकः ॥ 38 ॥
छेदीकृततमःक्लेशश्छत्रीकृतमहायशाः ।
छादिताशेषसंतापश्छुरितामृतसागरः ॥ 39 ॥
छन्नत्रैगुण्यरूपश्च छातेहश्छिन्नसंशयः ।
छंदोमयश्छंदगामी छिन्नपाशश्छविश्छदः ॥ 40 ॥
जगद्धितो जगत्पूज्यो जगज्ज्येष्ठो जगन्मयः ।
जनको जाह्नवीसूनुर्जितामित्रो जगद्गुरुः ॥ 41 ॥
जयी जितेंद्रियो जैत्रो जरामरणवर्जितः ।
ज्योतिर्मयो जगन्नाथो जगज्जीवो जनाश्रयः ॥ 42 ॥
जगत्सेव्यो जगत्कर्ता जगत्साक्षी जगत्प्रियः ।
जंभारिवंद्यो जयदो जगज्जनमनोहरः ॥ 43 ॥
जगदानंदजनको जनजाड्यापहारकः ।
जपाकुसुमसंकाशो जनलोचनशोभनः ॥ 44 ॥
जनेश्वरो जितक्रोधो जनजन्मनिबर्हणः ।
जयदो जंतुतापघ्नो जितदैत्यमहाव्रजः ॥ 45 ॥
जितमायो जितक्रोधो जितसंगो जनप्रियः ।
झंझानिलमहावेगो झरिताशेषपातकः ॥ 46 ॥
झर्झरीकृतदैत्यौघो झल्लरीवाद्यसंप्रियः ।
ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः ॥ 47 ॥
टंकारनृत्तविभवः टंकवज्रध्वजांकितः ।
टंकिताखिललोकश्च टंकितैनस्तमोरविः ॥ 48 ॥
डंबरप्रभवो डंभो डंबो डमरुकप्रियः । [डमड्ड]
डमरोत्कटसन्नादो डिंभरूपस्वरूपकः ॥ 49 ॥
ढक्कानादप्रीतिकरो ढालितासुरसंकुलः ।
ढौकितामरसंदोहो ढुंढिविघ्नेश्वरानुजः ॥ 50 ॥
तत्त्वज्ञस्तत्वगस्तीव्रस्तपोरूपस्तपोमयः ।
त्रयीमयस्त्रिकालज्ञस्त्रिमूर्तिस्त्रिगुणात्मकः ॥ 51 ॥
त्रिदशेशस्तारकारिस्तापघ्नस्तापसप्रियः ।
तुष्टिदस्तुष्टिकृत्तीक्ष्णस्तपोरूपस्त्रिकालवित् ॥ 52 ॥
स्तोता स्तव्यः स्तवप्रीतः स्तुतिः स्तोत्रं स्तुतिप्रियः ।
स्थितः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः ॥ 53 ॥
स्थविष्ठः स्थविरः स्थूलः स्थानदः स्थैर्यदः स्थिरः ।
दांतो दयापरो दाता दुरितघ्नो दुरासदः ॥ 54 ॥
दर्शनीयो दयासारो देवदेवो दयानिधिः ।
दुराधर्षो दुर्विगाह्यो दक्षो दर्पणशोभितः ॥ 55 ॥
दुर्धरो दानशीलश्च द्वादशाक्षो द्विषड्भुजः ।
द्विषट्कर्णो द्विषड्बाहुर्दीनसंतापनाशनः ॥ 56 ॥
दंदशूकेश्वरो देवो दिव्यो दिव्याकृतिर्दमः ।
दीर्घवृत्तो दीर्घबाहुर्दीर्घदृष्टिर्दिवस्पतिः ॥ 57 ॥
दंडो दमयिता दर्पो देवसिंहो दृढव्रतः ।
दुर्लभो दुर्गमो दीप्तो दुष्प्रेक्ष्यो दिव्यमंडनः ॥ 58 ॥
दुरोदरघ्नो दुःखघ्नो दुरारिघ्नो दिशां पतिः ।
दुर्जयो देवसेनेशो दुर्ज्ञेयो दुरतिक्रमः ॥ 59 ॥
दंभो दृप्तश्च देवर्षिर्दैवज्ञो दैवचिंतकः ।
धुरंधरो धर्मपरो धनदो धृतिवर्धनः ॥ 60 ॥
धर्मेशो धर्मशास्त्रज्ञो धन्वी धर्मपरायणः ।
धनाध्यक्षो धनपतिर्धृतिमांधूतकिल्बिषः ॥ 61 ॥
धर्महेतुर्धर्मशूरो धर्मकृद्धर्मविद्ध्रुवः ।
धाता धीमांधर्मचारी धन्यो धुर्यो धृतव्रतः ॥ 62 ॥
नित्योत्सवो नित्यतृप्तो निर्लेपो निश्चलात्मकः ।
निरवद्यो निराधारो निष्कलंको निरंजनः ॥ 63 ॥
निर्ममो निरहंकारो निर्मोहो निरुपद्रवः ।
नित्यानंदो निरातंको निष्प्रपंचो निरामयः ॥ 64 ॥
निरवद्यो निरीहश्च निर्दर्शो निर्मलात्मकः ।
नित्यानंदो निर्जरेशो निःसंगो निगमस्तुतः ॥ 65 ॥
निष्कंटको निरालंबो निष्प्रत्यूहो निरुद्भवः ।
नित्यो नियतकल्याणो निर्विकल्पो निराश्रयः ॥ 66 ॥
नेता निधिर्नैकरूपो निराकारो नदीसुतः ।
पुलिंदकन्यारमणः पुरुजित्परमप्रियः ॥ 67 ॥
प्रत्यक्षमूर्तिः प्रत्यक्षः परेशः पूर्णपुण्यदः ।
पुण्याकरः पुण्यरूपः पुण्यः पुण्यपरायणः ॥ 68 ॥
पुण्योदयः परं ज्योतिः पुण्यकृत्पुण्यवर्धनः ।
परानंदः परतरः पुण्यकीर्तिः पुरातनः ॥ 69 ॥
प्रसन्नरूपः प्राणेशः पन्नगः पापनाशनः ।
प्रणतार्तिहरः पूर्णः पार्वतीनंदनः प्रभुः ॥ 70 ॥
पूतात्मा पुरुषः प्राणः प्रभवः पुरुषोत्तमः ।
प्रसन्नः परमस्पष्टः परः परिबृढः परः ॥ 71 ॥
परमात्मा परब्रह्म परार्थः प्रियदर्शनः ।
पवित्रः पुष्टिदः पूर्तिः पिंगलः पुष्टिवर्धनः ॥ 72 ॥
पापहारी पाशधरः प्रमत्तासुरशिक्षकः ।
पावनः पावकः पूज्यः पूर्णानंदः परात्परः ॥ 73 ॥
पुष्कलः प्रवरः पूर्वः पितृभक्तः पुरोगमः ।
प्राणदः प्राणिजनकः प्रदिष्टः पावकोद्भवः ॥ 74 ॥
परब्रह्मस्वरूपश्च परमैश्वर्यकारणम् ।
परर्धिदः पुष्टिकरः प्रकाशात्मा प्रतापवान् ॥ 75 ॥
प्रज्ञापरः प्रकृष्टार्थः पृथुः पृथुपराक्रमः ।
फणीश्वरः फणिवरः फणामणिविभूषणः ॥ 76 ॥
फलदः फलहस्तश्च फुल्लांबुजविलोचनः ।
फडुच्चाटितपापौघः फणिलोकविभूषणः ॥ 77 ॥
बाहुलेयो बृहद्रूपो बलिष्ठो बलवान् बली ।
ब्रह्मेशविष्णुरूपश्च बुद्धो बुद्धिमतां वरः ॥ 78 ॥
बालरूपो ब्रह्मगर्भो ब्रह्मचारी बुधप्रियः ।
बहुश्रुतो बहुमतो ब्रह्मण्यो ब्राह्मणप्रियः ॥ 79 ॥
बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः ।
बृहद्भानुतनूद्भूतो बृहत्सेनो बिलेशयः ॥ 80 ॥
बहुबाहुर्बलश्रीमान् बहुदैत्यविनाशकः ।
बिलद्वारांतरालस्थो बृहच्छक्तिधनुर्धरः ॥ 81 ॥
बालार्कद्युतिमान् बालो बृहद्वक्षा बृहद्धनुः ।
भव्यो भोगीश्वरो भाव्यो भवनाशो भवप्रियः ॥ 82 ॥
भक्तिगम्यो भयहरो भावज्ञो भक्तसुप्रियः ।
भुक्तिमुक्तिप्रदो भोगी भगवान् भाग्यवर्धनः ॥ 83 ॥
भ्राजिष्णुर्भावनो भर्ता भीमो भीमपराक्रमः ।
भूतिदो भूतिकृद्भोक्ता भूतात्मा भुवनेश्वरः ॥ 84 ॥
भावको भीकरो भीष्मो भावकेष्टो भवोद्भवः ।
भवतापप्रशमनो भोगवान् भूतभावनः ॥ 85 ॥
भोज्यप्रदो भ्रांतिनाशो भानुमान् भुवनाश्रयः ।
भूरिभोगप्रदो भद्रो भजनीयो भिषग्वरः ॥ 86 ॥
महासेनो महोदारो महाशक्तिर्महाद्युतिः ।
महाबुद्धिर्महावीर्यो महोत्साहो महाबलः ॥ 87 ॥
महाभोगी महामायी मेधावी मेखली महान् ।
मुनिस्तुतो महामान्यो महानंदो महायशाः ॥ 88 ॥
महोर्जितो माननिधिर्मनोरथफलप्रदः ।
महोदयो महापुण्यो महाबलपराक्रमः ॥ 89 ॥
मानदो मतिदो माली मुक्तामालाविभूषणः ।
मनोहरो महामुख्यो महर्धिर्मूर्तिमान्मुनिः ॥ 90 ॥
महोत्तमो महोपायो मोक्षदो मंगलप्रदः ।
मुदाकरो मुक्तिदाता महाभोगो महोरगः ॥ 91 ॥
यशस्करो योगयोनिर्योगिष्ठो यमिनां वरः ।
यशस्वी योगपुरुषो योग्यो योगनिधिर्यमी ॥ 92 ॥
यतिसेव्यो योगयुक्तो योगविद्योगसिद्धिदः ।
यंत्रो यंत्री च यंत्रज्ञो यंत्रवान्यंत्रवाहकः ॥ 93 ॥
यातनारहितो योगी योगीशो योगिनां वरः ।
रमणीयो रम्यरूपो रसज्ञो रसभावनः ॥ 94 ॥
रंजनो रंजितो रागी रुचिरो रुद्रसंभवः ।
रणप्रियो रणोदारो रागद्वेषविनाशनः ॥ 95 ॥
रत्नार्ची रुचिरो रम्यो रूपलावण्यविग्रहः ।
रत्नांगदधरो रत्नभूषणो रमणीयकः ॥ 96 ॥
रुचिकृद्रोचमानश्च रंजितो रोगनाशनः ।
राजीवाक्षो राजराजो रक्तमाल्यानुलेपनः ॥ 97 ॥
राजद्वेदागमस्तुत्यो रजःसत्त्वगुणान्वितः ।
रजनीशकलारम्यो रत्नकुंडलमंडितः ॥ 98 ॥
रत्नसन्मौलिशोभाढ्यो रणन्मंजीरभूषणः ।
लोकैकनाथो लोकेशो ललितो लोकनायकः ॥ 99 ॥
लोकरक्षो लोकशिक्षो लोकलोचनरंजितः ।
लोकबंधुर्लोकधाता लोकत्रयमहाहितः ॥ 100 ॥
लोकचूडामणिर्लोकवंद्यो लावण्यविग्रहः ।
लोकाध्यक्षस्तु लीलावान्लोकोत्तरगुणान्वितः ॥ 101 ॥
वरिष्ठो वरदो वैद्यो विशिष्टो विक्रमो विभुः ।
विबुधाग्रचरो वश्यो विकल्पपरिवर्जितः ॥ 102 ॥
विपाशो विगतातंको विचित्रांगो विरोचनः ।
विद्याधरो विशुद्धात्मा वेदांगो विबुधप्रियः ॥ 103 ॥
वचस्करो व्यापकश्च विज्ञानी विनयान्वितः ।
विद्वत्तमो विरोधिघ्नो वीरो विगतरागवान् ॥ 104 ॥
वीतभावो विनीतात्मा वेदगर्भो वसुप्रदः ।
विश्वदीप्तिर्विशालाक्षो विजितात्मा विभावनः ॥ 105 ॥
वेदवेद्यो विधेयात्मा वीतदोषश्च वेदवित् ।
विश्वकर्मा वीतभयो वागीशो वासवार्चितः ॥ 106 ॥
वीरध्वंसो विश्वमूर्तिर्विश्वरूपो वरासनः ।
विशाखो विमलो वाग्मी विद्वान्वेदधरो वटुः ॥ 107 ॥
वीरचूडामणिर्वीरो विद्येशो विबुधाश्रयः ।
विजयी विनयी वेत्ता वरीयान्विरजा वसुः ॥ 108 ॥
वीरघ्नो विज्वरो वेद्यो वेगवान्वीर्यवान्वशी ।
वरशीलो वरगुणो विशोको वज्रधारकः ॥ 109 ॥
शरजन्मा शक्तिधरः शत्रुघ्नः शिखिवाहनः ।
श्रीमान् शिष्टः शुचिः शुद्धः शाश्वतः श्रुतिसागरः ॥ 110 ॥
शरण्यः शुभदः शर्म शिष्टेष्टः शुभलक्षणः ।
शांतः शूलधरः श्रेष्ठः शुद्धात्मा शंकरः शिवः ॥ 111 ॥
शितिकंठात्मजः शूरः शांतिदः शोकनाशनः ।
षाण्मातुरः षण्मुखश्च षड्गुणैश्वर्यसंयुतः ॥ 112 ॥
षट्चक्रस्थः षडूर्मिघ्नः षडंगश्रुतिपारगः ।
षड्भावरहितः षट्कः षट्छास्त्रस्मृतिपारगः ॥ 113 ॥
षड्वर्गदाता षड्ग्रीवः षडरिघ्नः षडाश्रयः ।
षट्किरीटधरः श्रीमान् षडाधारश्च षट्क्रमः ॥ 114 ॥
षट्कोणमध्यनिलयः षंडत्वपरिहारकः ।
सेनानीः सुभगः स्कंदः सुरानंदः सतां गतिः ॥ 115 ॥
सुब्रह्मण्यः सुराध्यक्षः सर्वज्ञः सर्वदः सुखी ।
सुलभः सिद्धिदः सौम्यः सिद्धेशः सिद्धिसाधनः ॥ 116 ॥
सिद्धार्थः सिद्धसंकल्पः सिद्धसाधुः सुरेश्वरः ।
सुभुजः सर्वदृक्साक्षी सुप्रसादः सनातनः ॥ 117 ॥
सुधापतिः स्वयंज्योतिः स्वयंभूः सर्वतोमुखः ।
समर्थः सत्कृतिः सूक्ष्मः सुघोषः सुखदः सुहृत् ॥ 118 ॥
सुप्रसन्नः सुरश्रेष्ठः सुशीलः सत्यसाधकः ।
संभाव्यः सुमनाः सेव्यः सकलागमपारगः ॥ 119 ॥
सुव्यक्तः सच्चिदानंदः सुवीरः सुजनाश्रयः ।
सर्वलक्षणसंपन्नः सत्यधर्मपरायणः ॥ 120 ॥
सर्वदेवमयः सत्यः सदा मृष्टान्नदायकः ।
सुधापी सुमतिः सत्यः सर्वविघ्नविनाशनः ॥ 121 ॥
सर्वदुःखप्रशमनः सुकुमारः सुलोचनः ।
सुग्रीवः सुधृतिः सारः सुराराध्यः सुविक्रमः ॥ 122 ॥
सुरारिघ्नः स्वर्णवर्णः सर्पराजः सदा शुचिः ।
सप्तार्चिर्भूः सुरवरः सर्वायुधविशारदः ॥ 123 ॥
हस्तिचर्मांबरसुतो हस्तिवाहनसेवितः ।
हस्तचित्रायुधधरो हृताघो हसिताननः ॥ 124 ॥
हेमभूषो हरिद्वर्णो हृष्टिदो हृष्टिवर्धनः ।
हेमाद्रिभिद्धंसरूपो हुंकारहतकिल्बिषः ॥ 125 ॥
हिमाद्रिजातातनुजो हरिकेशो हिरण्मयः ।
हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥ 126 ॥
हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः ।
हरप्रियो हितकरो हतपापो हरोद्भवः ॥ 127 ॥
क्षेमदः क्षेमकृत्क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः ।
क्षेत्रपालः क्षमाधारः क्षेमक्षेत्रः क्षमाकरः ॥ 128 ॥
क्षुद्रघ्नः क्षांतिदः क्षेमः क्षितिभूषः क्षमाश्रयः ।
क्षालिताघः क्षितिधरः क्षीणसंरक्षणक्षमः ॥ 129 ॥
क्षणभंगुरसन्नद्धघनशोभिकपर्दकः ।
क्षितिभृन्नाथतनयामुखपंकजभास्करः ॥ 130 ॥
क्षताहितः क्षरः क्षंता क्षतदोषः क्षमानिधिः ।
क्षपिताखिलसंतापः क्षपानाथसमाननः ॥ 131 ॥
उत्तर न्यासः ।
करन्यासः –
ॐ शं ॐकारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय अंगुष्ठाभ्यां नमः ।
ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय तर्जनीभ्यां नमः ।
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय मध्यमाभ्यां नमः ।
ॐ णं कृशानुसंभवाय कवचिने कुक्कुटध्वजाय अनामिकाभ्यां नमः ।
ॐ भं कंदर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय कनिष्ठिकाभ्यां नमः ।
ॐ वं खेटधराय खड्गिने शक्तिहस्ताय करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ॐ शं ॐकारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय हृदयाय नमः ।
ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय शिरसे स्वाहा ।
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय शिखायै वषट् ।
ॐ णं कृशानुसंभवाय कवचिने कुक्कुटध्वजाय कवचाय हुम् ।
ॐ भं कंदर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय नेत्रत्रयाय वौषट् ।
ॐ वं खेटधराय खड्गिने शक्तिहस्ताय अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्विमोकः ।
फलश्रुति ।
इति नाम्नां सहस्राणि षण्मुखस्य च नारद ।
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥ 1 ॥
स सद्यो मुच्यते पापैर्मनोवाक्कायसंभवैः ।
आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् ॥ 2 ॥
वाक्येनैकेन वक्ष्यामि वांछितार्थं प्रयच्छति ।
तस्मात्सर्वात्मना ब्रह्मन्नियमेन जपेत्सुधीः ॥ 3 ॥
इति स्कंदपुराणे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे श्री सुब्रह्मण्य सहस्रनाम स्तोत्रम् ।
सारके विचारिल्ले प्रस्न
What is श्री सुब्रह्मण्य सहस्र नाम स्तोत्रम्?
श्री सुब्रह्मण्य सहस्र नाम स्तोत्रम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read श्री सुब्रह्मण्य सहस्र नाम स्तोत्रम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री सुब्रह्मण्य सहस्र नाम स्तोत्रम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.