श्री रंगनाथ अष्टोत्तर शत नाम स्तोत्रम्
अस्य श्रीरंगनाथाष्टोत्तरशतनामस्तोत्रमहामंत्रस्य वेदव्यासो भगवानृषिः अनुष्टुप्छंदः भगवान् श्रीमहाविष्णुर्देवता, श्रीरंगशायीति बीजं श्रीकांत इति शक्तिः श्रीप्रद इति कीलकं मम समस्तपापनाशार्थे श्रीरंगराजप्रसाद सिद्ध्यर्थे जपे विनियोगः ।
धौम्य उवाच ।
श्रीरंगशायी श्रीकांतः श्रीप्रदः श्रितवत्सलः ।
अनंतो माधवो जेता जगन्नाथो जगद्गुरुः ॥ 1 ॥
सुरवर्यः सुराराध्यः सुरराजानुजः प्रभुः ।
हरिर्हतारिर्विश्वेशः शाश्वतः शंभुरव्ययः ॥ 2 ॥
भक्तार्तिभंजनो वाग्मी वीरो विख्यातकीर्तिमान् ।
भास्करः शास्त्रतत्त्वज्ञो दैत्यशास्ताऽमरेश्वरः ॥ 3 ॥
नारायणो नरहरिर्नीरजाक्षो नरप्रियः ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्मांगो ब्रह्मपूजितः ॥ 4 ॥
कृष्णः कृतज्ञो गोविंदो हृषीकेशोऽघनाशनः ।
विष्णुर्जिष्णुर्जितारातिः सज्जनप्रिय ईश्वरः ॥ 5 ॥
त्रिविक्रमस्त्रिलोकेशः त्रय्यर्थस्त्रिगुणात्मकः ।
काकुत्स्थः कमलाकांतः कालीयोरगमर्दनः ॥ 6 ॥
कालांबुदश्यामलांगः केशवः क्लेशनाशनः ।
केशिप्रभंजनः कांतो नंदसूनुररिंदमः ॥ 7 ॥
रुक्मिणीवल्लभः शौरिर्बलभद्रो बलानुजः ।
दामोदरो हृषीकेशो वामनो मधुसूदनः ॥ 8 ॥
पूतः पुण्यजनध्वंसी पुण्यश्लोकशिखामणिः ।
आदिमूर्तिर्दयामूर्तिः शांतमूर्तिरमूर्तिमान् ॥ 9 ॥
परंब्रह्म परंधाम पावनः पवनो विभुः ।
चंद्रश्छंदोमयो रामः संसारांबुधितारकः ॥ 10 ॥
आदितेयोऽच्युतो भानुः शंकरश्शिव ऊर्जितः ।
महेश्वरो महायोगी महाशक्तिर्महत्प्रियः ॥ 11 ॥
दुर्जनध्वंसकोऽशेषसज्जनोपास्तसत्फलम् ।
पक्षींद्रवाहनोऽक्षोभ्यः क्षीराब्धिशयनो विधुः ॥ 12 ॥
जनार्दनो जगद्धेतुर्जितमन्मथविग्रहः ।
चक्रपाणिः शंखधारी शारंगी खड्गी गदाधरः ॥ 13 ॥
एवं विष्णोश्शतं नाम्नामष्टोत्तरमिहेरितम् ।
स्तोत्राणामुत्तमं गुह्यं नामरत्नस्तवाभिधम् ॥ 14 ॥
सर्वदा सर्वरोगघ्नं चिंतितार्थफलप्रदम् ।
त्वं तु शीघ्रं महाराज गच्छ रंगस्थलं शुभम् ॥ 15 ॥
स्नात्वा तुलार्के कावेर्यां माहात्म्य श्रवणं कुरु ।
गवाश्ववस्त्रधान्यान्नभूमिकन्याप्रदो भव ॥ 16 ॥
द्वादश्यां पायसान्नेन सहस्रं दश भोजय ।
नामरत्नस्तवाख्येन विष्णोरष्टशतेन च ।
स्तुत्वा श्रीरंगनाथं त्वमभीष्टफलमाप्नुहि ॥ 17 ॥
इति तुलाकावेरीमाहात्म्ये शंतनुं प्रति धौम्योपदिष्ट श्रीरंगनाथाष्टोत्तरशतनाम स्तोत्रम् ।
सारके विचारिल्ले प्रस्न
What is श्री रंगनाथ अष्टोत्तर शत नाम स्तोत्रम्?
श्री रंगनाथ अष्टोत्तर शत नाम स्तोत्रम् is a Namavalis & Sahasranamas available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read श्री रंगनाथ अष्टोत्तर शत नाम स्तोत्रम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री रंगनाथ अष्टोत्तर शत नाम स्तोत्रम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.