श्री देव्यथर्वशीर्षम्


ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति ॥ 1 ॥

साऽब्रवीदहं ब्रह्मस्वरूपिणी ।
मत्तः प्रकृतिपुरुषात्मकं जगत् ।
शून्यं चाशून्यं च ॥ 2 ॥

अहमानंदानानंदौ ।
अहं-विँज्ञानाविज्ञाने ।
अहं ब्रह्माब्रह्मणि वेदितव्ये ।
अहं पंचभूतान्यपंचभूतानि ।
अहमखिलं जगत् ॥ 3 ॥

वेदोऽहमवेदोऽहम् ।
विद्याऽहमविद्याऽहम् ।
अजाऽहमनजाऽहम् ।
अधश्चोर्ध्वं च तिर्यक्चाहम् ॥ 4 ॥

अहं रुद्रेभिर्वसुभिश्चरामि ।
अहमादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणावुभौ बिभर्मि ।
अहमिंद्राग्नी अहमश्विनावुभौ ॥ 5 ॥

अहं सोमं त्वष्टारं पूषणं भगं दधामि ।
अहं-विँष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ॥ 6 ॥

अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒3 यज॑मानाय सुन्व॒ते ।
अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् ।
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्वंतः स॑मु॒द्रे ।
य एवं-वेँद । स देवीं संपदमाप्नोति ॥ 7 ॥

ते देवा अब्रुवन्
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ 8 ॥

ताम॒ग्निव॑र्णां॒ तप॑सा ज्वलं॒तीं-वैँ॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा᳚म् ।
दु॒र्गां दे॒वीं शर॑णं प्रप॑द्यामहेऽसुरान्नाशयित्र्यै ते नमः ॥ 9 ॥

(ऋ.वे.8.100.11)
दे॒वीं-वाँच॑मजनयंत दे॒वास्तां-विँ॒श्वरू॑पाः प॒शवो॑ वदंति ।
सा नो॑ मं॒द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥ 10 ॥

कालरात्रीं ब्रह्मस्तुतां-वैँष्णवीं स्कंदमातरम् ।
सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ 11 ॥

महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि ।
तन्नो देवी प्रचोदयात् ॥ 12 ॥

अदितिर्​ह्यजनिष्ट दक्ष या दुहिता तव ।
तां देवा अन्वजायंत भद्रा अमृतबंधवः ॥ 13 ॥

कामो योनिः कमला वज्रपाणि-
र्गुहा हसा मातरिश्वाभ्रमिंद्रः ।
पुनर्गुहा सकला मायया च
पुरूच्यैषा विश्वमातादिविद्योम् ॥ 14 ॥

एषाऽऽत्मशक्तिः ।
एषा विश्वमोहिनी ।
पाशांकुशधनुर्बाणधरा ।
एषा श्रीमहाविद्या ।
य एवं-वेँद स शोकं तरति ॥ 15 ॥

नमस्ते अस्तु भगवति मातरस्मान्पाहि सर्वतः ॥ 16 ॥

सैषाष्टौ वसवः ।
सैषैकादश रुद्राः ।
सैषा द्वादशादित्याः ।
सैषा विश्वेदेवाः सोमपा असोमपाश्च ।
सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षा सिद्धाः ।
सैषा सत्त्वरजस्तमांसि ।
सैषा ब्रह्मविष्णुरुद्ररूपिणी ।
सैषा प्रजापतींद्रमनवः ।
सैषा ग्रहनक्षत्रज्योतींषि । कलाकाष्ठादिकालरूपिणी ।
तामहं प्रणौमि नित्यम् ।
पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।
अनंतां-विँजयां शुद्धां शरण्यां शिवदां शिवाम् ॥ 17 ॥

वियदीकारसं​युँक्तं-वीँतिहोत्रसमन्वितम् ।
अर्धेंदुलसितं देव्या बीजं सर्वार्थसाधकम् ॥ 18 ॥

एवमेकाक्षरं ब्रह्म यतयः शुद्धचेतसः ।
ध्यायंति परमानंदमया ज्ञानांबुराशयः ॥ 19 ॥

वाङ्माया ब्रह्मसूस्तस्मात् षष्ठं-वँक्त्रसमन्वितम् ।
सूर्योऽवामश्रोत्रबिंदुसं​युँक्तष्टात्तृतीयकः ।
नारायणेन सम्मिश्रो वायुश्चाधरयुक्ततः ।
विच्चे नवार्णकोऽर्णः स्यान्महदानंददायकः ॥ 20 ॥

हृत्पुंडरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् ।
पाशांकुशधरां सौम्यां-वँरदाभयहस्तकाम् ।
त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥ 21 ॥

नमामि त्वां महादेवीं महाभयविनाशिनीम् ।
महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥ 22 ॥

यस्याः स्वरूपं ब्रह्मादयो न जानंति तस्मादुच्यते अज्ञेया ।
यस्या अंतो न लभ्यते तस्मादुच्यते अनंता ।
यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्ष्या ।
यस्या जननं नोपलभ्यते तस्मादुच्यते अजा ।
एकैव सर्वत्र वर्तते तस्मादुच्यते एका ।
एकैव विश्वरूपिणी तस्मादुच्यते नैका ।
अत एवोच्यते अज्ञेयानंतालक्ष्याजैका नैकेति ॥ 23 ॥

मंत्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ।
ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ।
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ॥ 24 ॥

तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् ।
नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ 25 ॥

इदमथर्वशीर्​षं-योँऽधीते स पंचाथर्वशीर्​षजपफलमाप्नोति ।
इदमथर्वशीर्​षमज्ञात्वा योऽर्चां स्थापयति ।
शतलक्षं प्रजप्त्वाऽपि सोऽर्चासिद्धिं न विंदति ।
शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ।
दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते ।
महादुर्गाणि तरति महादेव्याः प्रसादतः । 26 ॥

सायमधीयानो दिवसकृतं पापं नाशयति ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायं प्रातः प्रयुंजानो अपापो भवति ।
निशीथे तुरीयसंध्यायां जप्त्वा वाक्सिद्धिर्भवति ।
नूतनायां प्रतिमायां जप्त्वा देवतासान्निध्यं भवति ।
प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति ।
भौमाश्विन्यां महादेवीसन्निधौ जप्त्वा महामृत्युं तरति ।
स महामृत्युं तरति ।
य एवं-वेँद ।
इत्युपनिषत् ॥ 27 ॥

इति देव्यथर्वशीर्​षम् ।

सारके विचारिल्ले प्रस्न

What is श्री देव्यथर्वशीर्षम्?

श्री देव्यथर्वशीर्षम् is a Devi Stotrams available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Konkani. Use the language selector to view another available edition.

Can I read श्री देव्यथर्वशीर्षम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download श्री देव्यथर्वशीर्षम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook