श्री दक्षिणामूर्ति कवचं (रुद्रयामल)
पार्वत्युवाच
नमस्तेऽस्तु त्रयीनाथ परमानंदकारक ।
कवचं दक्षिणामूर्तेः कृपया वद मे प्रभो ॥ 1 ॥
ईश्वर उवाच
वक्ष्येऽहं देवदेवेशि दक्षिणामूर्तिरव्ययम् ।
कवचं सर्वपापघ्नं वेदांतज्ञानगोचरम् ॥ 2 ॥
अणिमादि महासिद्धिविधानचतुरं शुभम् ।
वेदशास्त्रपुराणानि कविता तर्क एव च ॥ 3 ॥
बहुधा देवि जायंते कवचस्य प्रभावतः ।
ऋषिर्ब्रह्मा समुद्दिष्टश्छंदोऽनुष्टुबुदाहृतम् ॥ 4 ॥
देवता दक्षिणामूर्तिः परमात्मा सदाशिवः ।
बीजं वेदादिकं चैव स्वाहा शक्तिरुदाहृता ।
सर्वज्ञत्वेऽपि देवेशि विनियोगं प्रचक्षते ॥ 5 ॥
ध्यानम्
अद्वंद्वनेत्रममलेंदुकलावतंसं
हंसावलंबित समान जटाकलापम् ।
आनीलकंठमुपकंठमुनिप्रवीरान्
अध्यापयंतमवलोकय लोकनाथम् ॥
कवचम्
ओम् । शिरो मे दक्षिणामूर्तिरव्यात् फालं महेश्वरः ।
दृशौ पातु महादेवः श्रवणे चंद्रशेखरः ॥ 1 ॥
कपोलौ पातु मे रुद्रो नासां पातु जगद्गुरुः ।
मुखं गौरीपतिः पातु रसनां वेदरूपधृत् ॥ 2 ॥
दशनां त्रिपुरध्वंसी चोष्ठं पन्नगभूषणः ।
अधरं पातु विश्वात्मा हनू पातु जगन्मयः ॥ 3 ॥
चुबुकं देवदेवस्तु पातु कंठं जटाधरः ।
स्कंधौ मे पातु शुद्धात्मा करौ पातु यमांतकः ॥ 4 ॥
कुचाग्रं करमध्यं च नखरान् शंकरः स्वयम् ।
हृन्मे पशुपतिः पातु पार्श्वे परमपूरुषः ॥ 5 ॥
मध्यमं पातु शर्वो मे नाभिं नारायणप्रियः ।
कटिं पातु जगद्भर्ता सक्थिनी च मृडः स्वयम् ॥ 6 ॥
कृत्तिवासाः स्वयं गुह्यामूरू पातु पिनाकधृत् ।
जानुनी त्र्यंबकः पातु जंघे पातु सदाशिवः ॥ 7 ॥
स्मरारिः पातु मे पादौ पातु सर्वांगमीश्वरः ।
इतीदं कवचं देवि परमानंददायकम् ॥ 8 ॥
ज्ञानवागर्थदं वीर्यमणिमादिविभूतिदम् ।
आयुरारोग्यमैश्वर्यमपमृत्युभयापहम् ॥ 9 ॥
प्रातः काले शुचिर्भूत्वा त्रिवारं सर्वदा जपेत् ।
नित्यं पूजासमायुक्तः संवत्सरमतंद्रितः ॥ 10 ॥
जपेत् त्रिसंध्यं यो विद्वान् वेदशास्त्रार्थपारगः ।
गद्यपद्यैस्तथा चापि नाटकाः स्वयमेव हि ।
निर्गच्छंति मुखांभोजात्सत्यमेतन्न संशयः ॥ 11 ॥
इति रुद्रयामले उमामहेश्वरसंवादे श्री दक्षिणामूर्ति कवचम् ॥
सारके विचारिल्ले प्रस्न
What is श्री दक्षिणामूर्ति कवचं (रुद्रयामल)?
श्री दक्षिणामूर्ति कवचं (रुद्रयामल) is a Kavachams available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read श्री दक्षिणामूर्ति कवचं (रुद्रयामल) online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री दक्षिणामूर्ति कवचं (रुद्रयामल) as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.