श्री बटुक भैरव कवचं
श्रीभैरव उवाच ।
देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ।
म्रियंते साधका येन विना श्मशानभूमिषु ॥
रणेषु चातिघोरेषु महावायुजलेषु च ।
शृंगिमकरवज्रेषु ज्वरादिव्याधिवह्निषु ॥
श्रीदेव्युवाच ।
कथयामि शृणु प्राज्ञ बटोस्तु कवचं शुभम् ।
गोपनीयं प्रयत्नेन मातृजारोपमं यथा ॥
तस्य ध्यानं त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः ।
सात्त्विकं राजसं चैव तामसं देव तत् शृणु ॥
ध्यानम् –
वंदे बालं स्फटिकसदृशं कुंडलोद्भासिवक्त्रं
दिव्याकल्पैर्नवमणिमयैः किंकिणीनूपुराद्यैः ।
दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं
हस्ताब्जाभ्यां बटुकमनिशं शूलखड्गौदधानम् ॥ 1 ॥
उद्यद्भास्करसन्निभं त्रिनयनं रक्तांगरागस्रजं
स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।
नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं
बंधूकारुणवाससं भयहरं देवं सदा भावये ॥ 2 ॥
ध्यायेन्नीलाद्रिकांतं शशिशकलधरं मुंडमालं महेशं
दिग्वस्त्रं पिंगकेशं डमरुमथ सृणिं खड्गशूलाभयानि ।
नागं घंटां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं
सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किंकिणी नूपुराढ्यम् ॥ 3 ॥
अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छंदः श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं मम सर्वाभीष्टसिद्ध्यर्थे विनियोगः ।
कवचम् –
ॐ शिरो मे भैरवः पातु ललाटं भीषणस्तथा ।
नेत्रे च भूतहननः सारमेयानुगो भ्रुवौ ॥ 1
भूतनाथश्च मे कर्णौ कपोलौ प्रेतवाहनः ।
नासापुटौ तथोष्ठौ च भस्मांगः सर्वभूषणः ॥ 2
भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम ।
स्कंधौ दैत्यरिपुः पातु बाहू अतुलविक्रमः ॥ 3
पाणी कपाली मे पातु मुंडमालाधरो हृदम् ।
वक्षःस्थलं तथा शांतः कामचारी स्तनं मम ॥ 4
उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा ।
क्षेत्रपालः पृष्ठदेशं क्षेत्राख्यो नाभितस्तथा ॥ 5
कटिं पापौघनाशश्च बटुको लिंगदेशकम् ।
गुदं रक्षाकरः पातु ऊरू रक्षाकरः सदा ॥ 6
जानू च घुर्घुरारावो जंघे रक्षतु रक्तपः ।
गुल्फौ च पादुकासिद्धः पादपृष्ठं सुरेश्वरः ॥ 7
आपादमस्तकं चैव आपदुद्धारणस्तथा ।
सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥ 8
पातु मां वटुको देवो भैरवः सर्वकर्मसु ।
पूर्व स्यामसितांगो मे दिशि रक्षतु सर्वदा ॥ 9
आग्नेय्यां च रुरुः पातु दक्षिणे चंडभैरवः ।
नैरृत्यां क्रोधनः पातु मामुन्मत्तस्तु पश्चिमे ॥ 10
वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः ।
भीषणो भैरवः पातूत्तरस्यां दिशि सर्वदा ॥ 11
संहारभैरवः पातु दिश्यैशान्यां महेश्वरः ।
ऊर्ध्वे पातु विधाता वै पाताले नंदिको विभुः ॥ 12
सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ।
वामदेवोऽवतु प्रीतो रणे घोरे तथावतु ॥ 13
जले तत्पुरुषः पातु स्थले पातु गुरुः सदा ।
डाकिनीपुत्रकः पातु दारांस्तु लाकिनीसुतः ॥ 14
पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः ।
लाकिनीपुत्रकः पातु पशूनश्वानजांस्तथा ॥ 15
महाकालोऽवतु च्छत्रं सैन्यं वै कालभैरवः ।
राज्यं राज्यश्रियं पायात् भैरवो भीतिहारकः ॥ 16
रक्षाहीनंतु यत् स्थानं वर्जितं कवचेन च ।
तत् सर्वं रक्ष मे देव त्वं यतः सर्वरक्षकः ॥ 17
एतत् कवचमीशान तव स्नेहात् प्रकाशितम् ।
नाख्येयं नरलोकेषु सारभूतं च सुश्रियम् ॥ 18
यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम् ।
न देयं परशिष्येभ्यः कृपणेभ्यश्च शंकर ॥ 19
यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम् ।
अनेन कवचेशेन रक्षां कृत्वा द्विजोत्तमः ॥ 20
विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः ।
मंत्रेण म्रियते योगी कवचं यन्न रक्षितः ॥ 21
तस्मात् सर्वप्रयत्नेन दुर्लभं पापचेतसाम् ।
भूर्जे रंभात्वचे वापि लिखित्वा विधिवत् प्रभो ॥ 22
धारयेत् पाठयेद्वापि संपठेद्वापि नित्यशः ।
संप्राप्नोति प्रभावं वै कवचस्यास्य वर्णितम् ॥ 23
नमो भैरवदेवाय सारभूताय वै नमः ।
नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥ 24
इति विश्वसारोद्धारतंत्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥
सारके विचारिल्ले प्रस्न
What is श्री बटुक भैरव कवचं?
श्री बटुक भैरव कवचं is a Kavachams available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read श्री बटुक भैरव कवचं online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री बटुक भैरव कवचं as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.