श्री बगलामुखी स्तोत्रम् – 2
अस्य श्रीबगलामुखीमहामंत्रस्य
नारदो भगवान् ऋषिः
अतिजगतीछंदः
श्री बगलामुखी देवता
लां बीजं इं शक्तिः
लं कीलकं-मम दूरस्थानां समीपस्थानां गति मति वाक्त्संभनार्थे जपे विनियोगः
ॐ ह्रीं अंगुष्ठाभ्यां नमः
बगलामुखी तर्जनीभ्यां नमः
सर्वदुष्टानां मध्यमाभ्यां नमः
वाचं मुखं पदं स्तंभय अनामिकाभ्यां नमः
जिह्वां कीलय बुद्धिं विनाशय कनिष्ठिकाभ्यां नमः
ह्रीं ॐ स्वाहा करतलकरपृष्टाभ्यां नमः
ॐ ह्रीं हृदयाय नमः
बगलामुखी शिरसे स्वाहा
सर्वदुष्टानां शिखायै वषत्
वाचं मुखं पदं स्तंभय कवचा हुं
जिह्वां कीलय बुद्धिं विनाशय नेत्रत्रयाय वौषट्
ह्रीं ॐ स्वाहा अस्त्राय फट्
भूर्भुवस्सुवरोमिति दिग्बंधः ।
ध्यानम् ।
पीतांबरां त्रिणेत्रां च द्विभुजां दहनोज्वलाम् ।
शिलापर्वतहस्तां च रिपुकंपां महोत्कटाम् ॥ 1 ॥
गंभीरां च मदोन्मत्तां स्वर्णकांतिसमप्रभाम् ।
वैरिनिर्दलनार्थाय स्मरेत्तां बगलामुखीम् ॥ 2 ॥
चतुर्भुजां त्रिणयनां कमलासनसंस्थिताम् ।
दक्षिणे मुद्गरं पाशं वामे जिह्वां च वज्रकम् ॥ 3 ॥
पीतांबरधरां सांद्रां दृढपीनयोधराम् ।
वैरिवाक्त्संभिनीं देवीं स्मरामि बगलामुखीम् ॥ 4 ॥
हेमकुंडलभूषांगीं शीतचंद्रार्धशेखरीम् ।
पीतभूषणभूषाढ्यां स्वर्णसिंहासनेस्थिताम् ॥ 5 ॥
त्रिशूलधारिणीमंबां सर्वसौभाग्यदायिनीम् ।
सर्वशृंगारवेषाढ्यां भजेत्तां बगलामुखीम् ॥ 6 ॥
मध्ये सुधाब्धिमणिमंटप रत्न वेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीतांबराभरणमाल्यविभूषितांगीं
देवीं नमामि धृत मुद्गरवैरि जिह्वाम् ॥ 7 ॥
चलत्कनककुंडलोल्लसितचारुगंडस्थलां
लसत्कनकचंपक द्युतिमदर्धेंदु बिंबांचिताम् ।
सदाहितविपक्षकां दलितवैरि जिह्वांचलां
नमामि बगलामुखीं धीमतां वाङ्मनस्स्तंभिनीम् ॥ 8 ॥
पीयूषो दधिमध्यचारु विलसद्रत्नोज्वले मंटपे
यासिंहासन मौलिपातितरिपु प्रेतासनाध्यासिनीम् ।
स्वर्णाभां करपीडितारिरशनां भ्राम्यद्गदां बिभ्रतीं
यस्त्वां पश्यति तस्य यांति विलयं सद्योहि सर्वापदः ॥ 9 ॥
देवि त्वच्चरणांबुजार्चनकृते यः पीतपुष्पांजलिं
मुद्रां वामकरे निधाय च पुनर्मंत्री मनोज्ञाक्षरीम् ।
पीठध्यानपरोपि कुंभकवशाद्बीजं स्मरेत्प्रार्थितं
तस्या मित्रचयस्य संसदि मुख स्तंभो भवेत्तत्क्षणात् ॥ 10 ॥
(ॐ ह्रीं बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तंभय जिह्वां कीलय बुद्धिं विनाशय ह्रीं ॐ स्वाहा)
मंत्रस्तावदयं विपक्षदलने स्तोत्रं पवित्रं च ते
यंत्रंवादिनि यंत्रिणं त्रिजगतां जैत्रं स चित्रं च तत् ।
श्रीमातर्बगलेति नाम ललितं यस्यास्ति जंतोर्मुखे
तन्नामस्मरणेन वाग्भवमुख स्तंभोभवेत्तत्क्षणात् ॥ 11 ॥
दुष्टस्तंभनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं
भूभृत्त्संभनकारणं मृगदृशां चेतस्समाकर्षणम् ।
सौभाग्यैकनिकेतनं मम दृशां कारुण्यपूर्णेक्षणे
मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥ 12 ॥
संख्याग्रे चोरदंड प्रहरणसमये बंधने वैरिमध्ये
विद्यावादे विवादे प्रकटितनृपतौ युद्धकाले निशायाम् ।
वश्ये च स्तंभने वा रिपुवधसमये प्राणबाधे रणे वा
गच्छंतीष्टं त्रिकालं तव पठनमिदं कारयेदाशु धीरः ॥ 13 ॥
मातर्भंजय मद्विपक्षवदनं जिह्वां च संकीलय
ब्राह्मीं मुद्रय मुद्रयाशुधिषणामंघ्र्योर्गतिं स्तंभय ।
शत्रून् चूर्णय चूर्णयाशु गदया गौरांगि पीतांबरे
विघ्नौघं बगले हर प्रतिदिनं कौमारि वामेक्षणे ॥ 14 ॥
मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये
श्रीनित्ये बगले महेशि समये रामे सुरामे रमे ।
मातंगि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे
वंदेहं शरणागतोस्मिकृपया विश्वेश्वरी त्राहि माम् ॥ 15 ॥
त्वं विद्या परमा त्रिलोकजननी व्योषाननं छेदिनी
योषाकर्षणकारिणी च सुमहाबंधैकसंभेदिनी ।
दुष्टोच्चाटनकारिणी रिपुमनस्संदोहसंदायिनी
जिह्वाकीलनभैरवी विजयते ब्रह्मास्त्रसारायणी ॥ 16 ॥
यः कृतं जपसंख्यानां चिंतितं परमेश्वरी ।
शत्रूणां बुद्धिनाशाय गृहाण मदनुग्रहात् ॥ 17 ॥
वैडूर्यहारपरिशोभितहेममालां
मध्येतिपीन कुचयोर्धृतपीतवस्त्राम् ।
व्याघ्राधिरूढ परिपूरित रत्नशोभां
नित्यं स्मरामि बगलां रिपुवक्त्र कीलाम् ॥ 18 ॥
एकाग्र मानसो भूत्वा स्तोष्यत्यंबां सुशोभनाम् ।
रजन्या रचितां मालां करे धृत्वा जपेच्छुचिः ॥ 19 ॥
वामे पाणौ तु पाशं च तस्याधस्ताद्धृढं शुभम् ।
दक्षे करेऽक्षसूत्रं च अधःपद्मं च धारिणीम् ॥ 20 ॥
चामुंडे चंडिकोष्ट्रे हुतवहदयिते श्यामले श्रीभुजंगी
दुर्गे प्रत्यंगिराद्ये मुररिपुभगिनी भार्गवीवामनेत्रे ।
नानारूपप्रभेदे स्थितिलयजननं पालयद्भर्गहृद्ये
विश्वाद्ये विश्वजैत्री त्रिपुरः बगले विश्ववंद्ये त्वमेका ॥ 21 ॥
चक्रं खड्गं मुसलमभयं दक्षिणाभिश्च दोर्भिः
शंखं खेटं हलमपि च गदां बिभ्रतीं वामदोर्भिः ।
सिंहारूढामयुगनयनां श्यामलां कंजवक्त्रां
वंदे देवीं सकलवरदां पंचमीं मातृमध्याम् ॥ 22 ॥
द्वात्रिंशदायुतयुतैश्चतुरष्टहस्तै-
रष्टोत्तरैश्शतकरैश्च सहस्रहस्तैः ।
सर्वायुधैरयुत बाहुभिरन्वितां तां
देवीं भजामि बगलां रसनाग्रहस्ताम् ॥ 23 ॥
सर्वतश्शुभकरां द्विभुजां तां
कंबुहेम नवकुंडल कर्णाम् ।
शत्रुनिर्दलनकारणकोपां
चिंतयामि बगलां हृदयाब्जे ॥ 24 ॥
जिह्वाग्रमादाय करेण देवीं
वामेन शत्रून् परिपीडयंतीम् ।
गदाभिघातेन च दक्षिणेन
पीतांबराढ्यां द्विभुजां नमामि ॥ 25 ॥
वंदे वारिजलोचनां वसुकरां पीतांबराडंबरां
पीतांभोरुहसंस्थितां त्रिनयनां पीतांगरागोज्ज्वलाम् ।
शब्दब्रह्ममयीं महाकविजयीं त्रैलोक्यसम्मोहनीं
विद्युत्कोटि निभां प्रसन्न बगलां प्रत्यर्थिवाक्त्संभिनीम् ॥ 26 ॥
दुःखेन वा यदि सुखेन च वा त्वदीयं
स्तुत्वाऽथ नामबगले समुपैति वश्यम् ।
निश्चित्य शत्रुमबलं विजयं त्वदंघ्रि
पद्मार्चकस्य भवतीति किमत्र चित्रम् ॥ 27 ॥
विमोहितजगत्त्रयां वशगतावनवल्लभां
भजामि बगलामुखीं भवसुखैकसंधायिनीम् ।
गेहं नातति गर्वितः प्रणमति स्त्रीसंगमो मोक्षति
द्वेषी मित्रति पापकृत्सुकृतति क्ष्मावल्लभोधावति ॥ 28 ॥
मृत्युर्वैधृतिदूषणं सुगुणति त्वत्पादसंसेवनात्
त्वां वंदे भवभीतिभंजनकरीं गौरीं गिरीशप्रियाम् ।
नित्यं यस्तु मनोहरं स्तवमिदं दिव्यं पठेत्सादरं
धृत्वा यंत्रमिदं तथैव समरे बाह्वोः करे वा गले ॥ 29 ॥
राजानो वरयोषितोथकरिणस्सर्वामृगेंद्रा वशाः
स्तोत्रैर्यांति विमोहिता रिपुगणा लक्ष्मीः स्थिरा सिद्धयः ।
निर्निद्रे बगले समुद्रनिलये रौद्र्यादि वाङ्मुद्रिके
भद्रे रुद्रमनोहरे त्रिभुवनत्राणे दरिद्रापहे ॥ 30 ॥
सद्रत्नाकर भूमिगोज्वल करी निस्तंद्रि चांद्रानने
नीहाराद्रिसुते निसर्गसरले विद्ये सुराद्ये नमः ।
देवी तस्य निरामयात्मजमुखान्यायूंषि दद्यादिदं
ये नित्यं प्रजपंति भक्ति भरितास्तेभ्यस्स्तवं निश्चितम् ॥ 31 ॥
नूनं श्रेयो वश्यमारोग्यतां च प्राप्तस्सर्वं भूतले साधकस्तु ।
भक्त्या नित्यं स्तोत्रमेतत्पठन्वै विद्यां कीर्तिं वंशवृद्धिं च विंदेत् ॥ 32 ॥
इति श्रीरुद्रयामले श्रीबगलामुखीस्तोत्रम् ॥
सारके विचारिल्ले प्रस्न
What is श्री बगलामुखी स्तोत्रम् - 2?
श्री बगलामुखी स्तोत्रम् - 2 is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read श्री बगलामुखी स्तोत्रम् - 2 online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री बगलामुखी स्तोत्रम् - 2 as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.