श्री रामाष्टोत्तर शत नाम स्तोत्रम्
॥ श्री राम अष्टोत्तर शतनामस्तोत्रम् ॥
श्रीरामो रामभद्रश्च रामचंद्रश्च शाश्वतः ।
राजीवलोचनः श्रीमान् राजेंद्रो रघुपुंगवः ॥ 1 ॥
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ।
विश्वामित्रप्रियो दांतः शरणत्राणतत्परः ॥ 2 ॥
वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः ।
सत्यव्रतो व्रतधरः सदा हनुमदाश्रित: ॥ 3 ॥
कऽउसल्येयः खरध्वंसी विराधवधपंडितः ।
विभीषणपरित्राता हरकोदंडखंडनः ॥ 4 ॥
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः ।
जामदग्व्यमहादर्पदलनस्ताटकांतकः ॥ 5 ॥
वेदांतसारो वेदात्मा भवरोगस्य भेषजम् ।
दूषणत्रिशिरोहंता त्रिमूर्तिस्त्रिगुणात्मकः ॥ 6 ॥
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः ।
त्रिलोकरक्षको धन्वी दंडकारण्यकर्षणः ॥ 7 ॥
अहल्याशापशमनः पितृभक्तो वरप्रदः ।
जितेंद्रियो जितक्रोधो जितावद्यो जगद्गुरुः ॥ 8 ॥
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः ।
जयंतत्राणवरदः सुमित्रापुत्रसेवितः ॥ 9 ॥
सर्वदेवाधिदेवश्चमृतवानरजीवनः ।
मायामारीचहंता च महादेवो महाभुजः ॥ 10 ॥
सर्वदेवस्तुतः सऽउम्यो ब्रह्मण्यो मुनिसंस्तुतः ।
महायोगी महोदारः सुग्रीवेप्सितराज्यदः ॥ 11 ॥
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः ।
आदिपुरुषः परमपुरुषो महापुरुष एव च ॥ 12 ॥
पुण्योदयो दयासारः पुराणपुरुषोत्तमः ।
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ॥ 13 ॥
अनंतगुणगंभीरो धीरोदात्तगुणोत्तमः ।
मायामानुषचारित्रो महादेवादिपूजितः ॥ 14 ॥
सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः ।
श्यामांगः सुंदरः शूरः पीतवासा धनुर्धरः ॥ 15 ॥
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः ।
विभीषणप्रतिष्ठाता सर्वापगुणवर्जितः ॥ 16 ॥
परमात्मा परं ब्रह्म सच्चिदानंदविग्रहः ।
परंज्योतिः परंधाम पराकाशः परात्परः ।
परेशः पारगः पारः सर्वदेवात्मकः परः ॥ 17 ॥
श्रीरामाष्टोत्तरशतं भवतापनिवारकम् ।
संपत्करं त्रिसंध्यासु पठतां भक्तिपूर्वकम् ॥ 18 ॥
रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाःपतये नमः ॥ 19 ॥
॥ इति श्रीस्कंदपुऱाणे श्रीराम अष्टोत्तर शतनामस्तोत्रम् ॥
सारके विचारिल्ले प्रस्न
What is श्री रामाष्टोत्तर शत नाम स्तोत्रम्?
श्री रामाष्टोत्तर शत नाम स्तोत्रम् is a Namavalis & Sahasranamas available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read श्री रामाष्टोत्तर शत नाम स्तोत्रम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री रामाष्टोत्तर शत नाम स्तोत्रम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.