नारायणीयं दशक 98 – निष्कलब्रह्मोपासनम्
यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एत-
द्योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा ।
यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनींद्राः
नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण तस्मै नमस्ते ॥1॥
जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन्
लोकानामूतये यः स्वयमनुभजते तानि मायानुसारी ।
विभ्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्भुतात्मा
तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो नमस्ते ॥2॥
नो तिर्यंचन्न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुंमांसं
न द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहुः ।
शिष्टं यत् स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत्
कृच्छ्रेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥3॥
मायायां बिंबितस्त्वं सृजसि महदहंकारतन्मात्रभेदै-
र्भूतग्रामेंद्रियाद्यैरपि सकलजगत्स्वप्नसंकल्पकल्पम् ।
भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या
गंभीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥4॥
शब्दब्रह्मेति कर्मेत्यणुरिति भगवन् काल इत्यालपंति
त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् ।
वेदांतैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वं
प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण तस्मै नमस्ते ॥5॥
सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा
धत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासम् ।
विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यंदलाभे
संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥6॥
भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकाव-
त्तत्त्वे संचिंत्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते ।
स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्व-
द्विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण तस्मै नमस्ते ॥7॥
यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये
यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरंतेऽनुकालम् ।
येनैवारोपिताः प्राङ्निजपदमपि ते च्यावितारश्च पश्चात्
तस्मै विश्वं नियंत्रे वयमपि भवते कृष्ण कुर्मः प्रणामम् ॥8॥
त्रैलोक्यं भावयंतं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं
त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् ।
तिस्रोवस्था विदंतं त्रियुगजनिजुषं त्रिक्रमाक्रांतविश्वं
त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥9॥
सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं
निर्द्वंद्वं निर्विकारं निखिलगुणगणव्यंजनाधारभूतम् ।
निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमंत-
र्निस्संगानां मुनीनां निरुपमपरमानंदसांद्रप्रकाशम् ॥10॥
दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं
संभ्राम्यत् क्रूरवेगं क्षणमनु जगदाच्छिद्य संधावमानम् ।
चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलंबं
विष्णो कारुण्यसिंधो पवनपुरपते पाहि सर्वामयौघात् ॥11॥
सारके विचारिल्ले प्रस्न
What is नारायणीयं दशक 98 - निष्कलब्रह्मोपासनम्?
नारायणीयं दशक 98 - निष्कलब्रह्मोपासनम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read नारायणीयं दशक 98 - निष्कलब्रह्मोपासनम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नारायणीयं दशक 98 - निष्कलब्रह्मोपासनम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.