नारायणीयं दशक 9 – ब्रह्मणः तपः तथा लोकसृष्टिः


स्थितस्स कमलोद्भवस्तव हि नाभिपंकेरुहे
कुतः स्विदिदमंबुधावुदितमित्यनालोकयन् ।
तदीक्षणकुतूहलात् प्रतिदिशं विवृत्तानन-
श्चतुर्वदनतामगाद्विकसदष्टदृष्ट्यंबुजाम् ॥1॥

महार्णवविघूर्णितं कमलमेव तत्केवलं
विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् ।
क एष कमलोदरे महति निस्सहायो ह्यहं
कुतः स्विदिदंबुजं समजनीति चिंतामगात् ॥2॥

अमुष्य हि सरोरुहः किमपि कारणं संभ्वे-
दिति स्म कृतनिश्चयस्स खलु नालरंध्राध्वना ।
स्वयोगबलविद्यया समवरूढवान् प्रौढधी –
स्त्वदीयमतिमोहनं न तु कलेवरं दृष्टवान् ॥3॥

ततः सकलनालिकाविवरमार्गगो मार्गयन्
प्रयस्य शतवत्सरं किमपि नैव संदृष्टवान् ।
निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः
समाधिबलमादधे भवदनुग्रहैकाग्रही ॥4॥

शतेन परिवत्सरैर्दृढसमाधिबंधोल्लसत्-
प्रबोधविशदीकृतः स खलु पद्मिनीसंभवः ।
अदृष्टचरमद्भुतं तव हि रूपमंतर्दृशा
व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥5॥

किरीटमुकुटोल्लसत्कटकहारकेयूरयुङ्-
मणिस्फुरितमेखलं सुपरिवीतपीतांबरम् ।
कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं
वपुस्तदयि भावये कमलजन्मे दर्शितम् ॥6॥

श्रुतिप्रकरदर्शितप्रचुरवैभव श्रीपते
हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः ।
कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठा-
मिति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥7॥

लभस्व भुवनत्रयीरचनदक्षतामक्षतां
गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे ।
भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे-
त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥8॥

शतं कृततपास्ततः स खलु दिव्यसंवत्सरा-
नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् ।
उदीक्ष्य किल कंपितं पयसि पंकजं वायुना
भवद्बलविजृंभितः पवनपाथसी पीतवान् ॥9॥

तवैव कृपया पुनस्सरसिजेन तेनैव सः
प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ ।
तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर
त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥10॥

सारके विचारिल्ले प्रस्न

What is नारायणीयं दशक 9 - ब्रह्मणः तपः तथा लोकसृष्टिः?

नारायणीयं दशक 9 - ब्रह्मणः तपः तथा लोकसृष्टिः is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Konkani. Use the language selector to view another available edition.

Can I read नारायणीयं दशक 9 - ब्रह्मणः तपः तथा लोकसृष्टिः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नारायणीयं दशक 9 - ब्रह्मणः तपः तथा लोकसृष्टिः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook