नारायणीयं दशक 80 – स्यमंतकोपाख्यानम्
सत्राजितस्त्वमथ लुब्धवदर्कलब्धं
दिव्यं स्यमंतकमणिं भगवन्नयाचीः ।
तत्कारणं बहुविधं मम भाति नूनं
तस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥1॥
अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा
प्रसेनस्तद्भ्राता गलभुवि वहन् प्राप मृगयाम् ।
अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात्
कपींद्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥2॥
शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं
जनानां पीयूषं भवति गुणिनां दोषकणिका ।
ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः
प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥3॥
भवंतमवितर्कयन्नतिवयाः स्वयं जांबवान्
मुकुंदशरणं हि मां क इह रोद्धुमित्यालपन् ।
विभो रघुपते हरे जय जयेत्यलं मुष्टिभि-
श्चिरं तव समर्चनं व्यधित भक्तचूडामणिः ॥4॥
बुध्वाऽथ तेन दत्तां नवरमणीं वरमणिं च परिगृह्णन् ।
अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः ॥5॥
तदनु स खलु ब्रीलालोलो विलोलविलोचनां
दुहितरमहो धीमान् भामां गिरैव परार्पिताम् ।
अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि
प्रमुदितमनास्तस्यैवादान्मणिं गहनाशयः ॥6॥
व्रीलाकुलां रमयति त्वयि सत्यभामां
कौंतेयदाहकथयाथ कुरून् प्रयाते ।
ही गांदिनेयकृतवर्मगिरा निपात्य
सत्राजितं शतधनुर्मणिमाजहार ॥7॥
शोकात् कुरूनुपगतामवलोक्य कांतां
हत्वा द्रुतं शतधनुं समहर्षयस्ताम् ।
रत्ने सशंक इव मैथिलगेहमेत्य
रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥8॥
अक्रूर एष भगवन् भवदिच्छयैव
सत्राजितः कुचरितस्य युयोज हिंसाम् ।
अक्रूरतो मणिमनाहृतवान् पुनस्त्वं
तस्यैव भूतिमुपधातुमिति ब्रुवंति ॥9॥
भक्तस्त्वयि स्थिरतरः स हि गांदिनेय-
स्तस्यैव कापथमतिः कथमीश जाता ।
विज्ञानवान् प्रशमवानहमित्युदीर्णं
गर्वं ध्रुवं शमयितुं भवता कृतैव ॥10॥
यातं भयेन कृतवर्मयुतं पुनस्त-
माहूय तद्विनिहितं च मणिं प्रकाश्य ।
तत्रैव सुव्रतधरे विनिधाय तुष्यन्
भामाकुचांतशयनः पवनेश पायाः ॥11॥
सारके विचारिल्ले प्रस्न
What is नारायणीयं दशक 80 - स्यमंतकोपाख्यानम्?
नारायणीयं दशक 80 - स्यमंतकोपाख्यानम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read नारायणीयं दशक 80 - स्यमंतकोपाख्यानम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नारायणीयं दशक 80 - स्यमंतकोपाख्यानम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.