नारायणीयं दशक 72 – अक्रूरगोकुलयात्रा


कंसोऽथ नारदगिरा व्रजवासिनं त्वा-
माकर्ण्य दीर्णहृदयः स हि गांदिनेयम् ।
आहूय कार्मुकमखच्छलतो भवंत-
मानेतुमेनमहिनोदहिनाथशायिन् ॥1॥

अक्रूर एष भवदंघ्रिपरश्चिराय
त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।
तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वा-
मानंदभारमतिभूरितरं बभार ॥2॥

सोऽयं रथेन सुकृती भवतो निवासं
गच्छन् मनोरथगणांस्त्वयि धार्यमाणान् ।
आस्वादयन् मुहुरपायभयेन दैवं
संप्रार्थयन् पथि न किंचिदपि व्यजानात् ॥3॥

द्रक्ष्यामि वेदशतगीतगतिं पुमांसं
स्प्रक्ष्यामि किंस्विदपि नाम परिष्वजेयम् ।
किं वक्ष्यते स खलु मां क्वनु वीक्षितः स्या-
दित्थं निनाय स भवन्मयमेव मार्गम् ॥4॥

भूयः क्रमादभिविशन् भवदंघ्रिपूतं
वृंदावनं हरविरिंचसुराभिवंद्यम् ।
आनंदमग्न इव लग्न इव प्रमोहे
किं किं दशांतरमवाप न पंकजाक्ष ॥5॥

पश्यन्नवंदत भवद्विहृतिस्थलानि
पांसुष्ववेष्टत भवच्चरणांकितेषु ।
किं ब्रूमहे बहुजना हि तदापि जाता
एवं तु भक्तितरला विरलाः परात्मन् ॥6॥

सायं स गोपभवनानि भवच्चरित्र-
गीतामृतप्रसृतकर्णरसायनानि ।
पश्यन् प्रमोदसरितेव किलोह्यमानो
गच्छन् भवद्भवनसन्निधिमन्वयासीत् ॥7॥

तावद्ददर्श पशुदोहविलोकलोलं
भक्तोत्तमागतिमिव प्रतिपालयंतम् ।
भूमन् भवंतमयमग्रजवंतमंत-
र्ब्रह्मानुभूतिरससिंधुमिवोद्वमंतम् ॥8॥

सायंतनाप्लवविशेषविविक्तगात्रौ
द्वौ पीतनीलरुचिरांबरलोभनीयौ ।
नातिप्रपंचधृतभूषणचारुवेषौ
मंदस्मितार्द्रवदनौ स युवां ददर्श ॥9॥

दूराद्रथात्समवरुह्य नमंतमेन-
मुत्थाप्य भक्तकुलमौलिमथोपगूहन् ।
हर्षान्मिताक्षरगिरा कुशलानुयोगी
पाणिं प्रगृह्य सबलोऽथ गृहं निनेथ ॥10॥

नंदेन साकममितादरमर्चयित्वा
तं यादवं तदुदितां निशमय्य वार्ताम् ।
गोपेषु भूपतिनिदेशकथां निवेद्य
नानाकथाभिरिह तेन निशामनैषीः ॥11॥

चंद्रागृहे किमुत चंद्रभगागृहे नु
राधागृहे नु भवने किमु मैत्रविंदे ।
धूर्तो विलंबत इति प्रमदाभिरुच्चै-
राशंकितो निशि मरुत्पुरनाथ पायाः ॥12॥

सारके विचारिल्ले प्रस्न

What is नारायणीयं दशक 72 - अक्रूरगोकुलयात्रा?

नारायणीयं दशक 72 - अक्रूरगोकुलयात्रा is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Konkani. Use the language selector to view another available edition.

Can I read नारायणीयं दशक 72 - अक्रूरगोकुलयात्रा online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नारायणीयं दशक 72 - अक्रूरगोकुलयात्रा as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook