नारायणीयं दशक 65 – गोपिकानां भगवत्सामीप्यप्राप्तिः


गोपीजनाय कथितं नियमावसाने
मारोत्सवं त्वमथ साधयितुं प्रवृत्तः ।
सांद्रेण चांद्रमहसा शिशिरीकृताशे
प्रापूरयो मुरलिकां यमुनावनांते ॥1॥

सम्मूर्छनाभिरुदितस्वरमंडलाभिः
सम्मूर्छयंतमखिलं भुवनांतरालम् ।
त्वद्वेणुनादमुपकर्ण्य विभो तरुण्य-
स्तत्तादृशं कमपि चित्तविमोहमापुः ॥2॥

ता गेहकृत्यनिरतास्तनयप्रसक्ताः
कांतोपसेवनपराश्च सरोरुहाक्ष्यः ।
सर्वं विसृज्य मुरलीरवमोहितास्ते
कांतारदेशमयि कांततनो समेताः ॥3॥

काश्चिन्निजांगपरिभूषणमादधाना
वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः ।
त्वामागता ननु तथैव विभूषिताभ्य-
स्ता एव संरुरुचिरे तव लोचनाय ॥4॥

हारं नितंबभुवि काचन धारयंती
कांचीं च कंठभुवि देव समागता त्वाम् ।
हारित्वमात्मजघनस्य मुकुंद तुभ्यं
व्यक्तं बभाष इव मुग्धमुखी विशेषात् ॥5॥

काचित् कुचे पुनरसज्जितकंचुलीका
व्यामोहतः परवधूभिरलक्ष्यमाणा ।
त्वामाययौ निरुपमप्रणयातिभार-
राज्याभिषेकविधये कलशीधरेव ॥6॥

काश्चित् गृहात् किल निरेतुमपारयंत्य-
स्त्वामेव देव हृदये सुदृढं विभाव्य ।
देहं विधूय परचित्सुखरूपमेकं
त्वामाविशन् परमिमा ननु धन्यधन्याः ॥7॥

जारात्मना न परमात्मतया स्मरंत्यो
नार्यो गताः परमहंसगतिं क्षणेन ।
तं त्वां प्रकाशपरमात्मतनुं कथंचि-
च्चित्ते वहन्नमृतमश्रममश्नुवीय ॥8॥

अभ्यागताभिरभितो व्रजसुंदरीभि-
र्मुग्धस्मितार्द्रवदनः करुणावलोकी ।
निस्सीमकांतिजलधिस्त्वमवेक्ष्यमाणो
विश्वैकहृद्य हर मे पवनेश रोगान् ॥9॥

सारके विचारिल्ले प्रस्न

What is नारायणीयं दशक 65 - गोपिकानां भगवत्सामीप्यप्राप्तिः?

नारायणीयं दशक 65 - गोपिकानां भगवत्सामीप्यप्राप्तिः is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Konkani. Use the language selector to view another available edition.

Can I read नारायणीयं दशक 65 - गोपिकानां भगवत्सामीप्यप्राप्तिः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नारायणीयं दशक 65 - गोपिकानां भगवत्सामीप्यप्राप्तिः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook