नारायणीयं दशक 50 – वत्सासुर-बकासुरयोः वधम्


तरलमधुकृत् वृंदे वृंदावनेऽथ मनोहरे
पशुपशिशुभिः साकं वत्सानुपालनलोलुपः ।
हलधरसखो देव श्रीमन् विचेरिथ धारयन्
गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥1॥

विहितजगतीरक्षं लक्ष्मीकरांबुजलालितं
ददति चरणद्वंद्वं वृंदावने त्वयि पावने ।
किमिव न बभौ संपत्संपूरितं तरुवल्लरी-
सलिलधरणीगोत्रक्षेत्रादिकं कमलापते ॥2॥

विलसदुलपे कांतारांते समीरणशीतले
विपुलयमुनातीरे गोवर्धनाचलमूर्धसु ।
ललितमुरलीनादः संचारयन् खलु वात्सकं
क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥3॥

रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन्
किमपि वलितस्कंधं रंध्रप्रतीक्षमुदीक्षितम् ।
तमथ चरणे बिभ्रद्विभ्रामयन् मुहुरुच्चकैः
कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥4॥

निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं
निपतनजवक्षुण्णक्षोणीरुहक्षतकानने ।
दिवि परिमिलत् वृंदा वृंदारकाः कुसुमोत्करैः
शिरसि भवतो हर्षाद्वर्षंति नाम तदा हरे ॥5॥

सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली
निपतति तवेत्युक्तो बालैः सहेलमुदैरयः ।
झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमंडलात्
कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ॥6॥

क्वचन दिवसे भूयो भूयस्तरे परुषातपे
तपनतनयापाथः पातुं गता भवदादयः ।
चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतं
क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥7॥

पिबति सलिलं गोपव्राते भवंतमभिद्रुतः
स किल निगिलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् ।
दलयितुमगात्त्रोट्याः कोट्या तदाऽऽशु भवान् विभो
खलजनभिदाचुंचुश्चंचू प्रगृह्य ददार तम् ॥8॥

सपदि सहजां संद्रष्टुं वा मृतां खलु पूतना-
मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा ।
शमननिलयं याते तस्मिन् बके सुमनोगणे
किरति सुमनोवृंदं वृंदावनात् गृहमैयथाः ॥9॥

ललितमुरलीनादं दूरान्निशम्य वधूजनै-
स्त्वरितमुपगम्यारादारूढमोदमुदीक्षितः ।
जनितजननीनंदानंदः समीरणमंदिर-
प्रथितवसते शौरे दूरीकुरुष्व ममामयान् ॥10॥

सारके विचारिल्ले प्रस्न

What is नारायणीयं दशक 50 - वत्सासुर-बकासुरयोः वधम्?

नारायणीयं दशक 50 - वत्सासुर-बकासुरयोः वधम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Konkani. Use the language selector to view another available edition.

Can I read नारायणीयं दशक 50 - वत्सासुर-बकासुरयोः वधम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नारायणीयं दशक 50 - वत्सासुर-बकासुरयोः वधम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook