नारायणीयं दशक 3 – उत्तमभक्तस्य गुणाः
पठंतो नामानि प्रमदभरसिंधौ निपतिताः
स्मरंतो रूपं ते वरद कथयंतो गुणकथाः ।
चरंतो ये भक्तास्त्वयि खलु रमंते परममू-
नहं धन्यान् मन्ये समधिगतसर्वाभिलषितान् ॥1॥
गदक्लिष्टं कष्टं तव चरणसेवारसभरेऽ-
प्यनासक्तं चित्तं भवति बत विष्णो कुरु दयाम् ।
भवत्पादांभोजस्मरणरसिको नामनिवहा-
नहं गायं गायं कुहचन विवत्स्यामि विजने ॥2॥
कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां
मदीयक्लेशौघप्रशमनदशा नाम कियती ।
न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता
भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥3॥
मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो
भवत्पादांभोजस्मरणविरुजो नारदमुखाः ।
चरंतीश स्वैरं सततपरिनिर्भातपरचि –
त्सदानंदाद्वैतप्रसरपरिमग्नाः किमपरम् ॥4॥
भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये-
दशेषक्लेशौघं न खलु हृदि संदेहकणिका ।
न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो
भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥5॥
भवद्भक्तिस्तावत् प्रमुखमधुरा त्वत् गुणरसात्
किमप्यारूढा चेदखिलपरितापप्रशमनी ।
पुनश्चांते स्वांते विमलपरिबोधोदयमिल-
न्महानंदाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥6॥
विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं
भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ ।
भवन्मूर्त्यालोके नयनमथ ते पादतुलसी-
परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥7॥
प्रभूताधिव्याधिप्रसभचलिते मामकहृदि
त्वदीयं तद्रूपं परमसुखचिद्रूपमुदियात् ।
उदंचद्रोमांचो गलितबहुहर्षाश्रुनिवहो
यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥8॥
मरुद्गेहाधीश त्वयि खलु परांचोऽपि सुखिनो
भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् ।
अकीर्तिस्ते मा भूद्वरद गदभारं प्रशमयन्
भवत् भक्तोत्तंसं झटिति कुरु मां कंसदमन ॥9॥
किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया-
दहं तावद्देव प्रहितविविधार्तप्रलपितः ।
पुरः क्लृप्ते पादे वरद तव नेष्यामि दिवसा-
न्यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥10॥
सारके विचारिल्ले प्रस्न
What is नारायणीयं दशक 3 - उत्तमभक्तस्य गुणाः?
नारायणीयं दशक 3 - उत्तमभक्तस्य गुणाः is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read नारायणीयं दशक 3 - उत्तमभक्तस्य गुणाः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नारायणीयं दशक 3 - उत्तमभक्तस्य गुणाः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.