मुंडक उपनिषद् – तृतीय मुंडक, प्रथम कांडः


॥ तृतीय मुंडके प्रथमः खंडः ॥

द्वा सुपर्णा सयुजा सखाया समानं-वृँक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ 1॥

समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।
जुष्टं-यँदा पश्यत्यन्यमीशमस्य
महिमानमिति वीतशोकः ॥ 2॥

यदा पश्यः पश्यते रुक्मवर्णं
कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय
निरंजनः परमं साम्यमुपैति ॥ 3॥

प्राणो ह्येष यः सर्वभूतैर्विभाति
विजानन् विद्वान् भवते नातिवादी ।
आत्मक्रीड आत्मरतिः क्रियावा-
नेष ब्रह्मविदां-वँरिष्ठः ॥ 4॥

सत्येन लभ्यस्तपसा ह्येष आत्मा
सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।
अंतःशरीरे ज्योतिर्मयो हि शुभ्रो
यं पश्यंति यतयः क्षीणदोषाः ॥ 5॥

सत्यमेव जयते नानृतं
सत्येन पंथा विततो देवयानः ।
येनाक्रमंत्यृषयो ह्याप्तकामा
यत्र तत् सत्यस्य परमं निधानम् ॥ 6॥

बृहच्च तद् दिव्यमचिंत्यरूपं
सूक्ष्माच्च तत् सूक्ष्मतरं-विँभाति ।
दूरात् सुदूरे तदिहांतिके च
पश्यत्स्विहैव निहितं गुहायाम् ॥ 7॥

न चक्षुषा गृह्यते नापि वाचा
नान्यैर्देवैस्तपसा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्व-
स्ततस्तु तं पश्यते निष्कलं
ध्यायमानः ॥ 8॥

एषोऽणुरात्मा चेतसा वेदितव्यो
यस्मिन् प्राणः पंचधा सं​विँवेश ।
प्राणैश्चित्तं सर्वमोतं प्रजानां
यस्मिन् विशुद्धे विभवत्येष आत्मा ॥ 9॥

यं-यंँ लोकं मनसा सं​विँभाति
विशुद्धसत्त्वः कामयते यांश्च कामान् ।
तं तं-लोँकं जयते तांश्च कामां-
स्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥ 10॥

॥ इति मुंडकोपनिषदि तृतीयमुंडके प्रथमः खंडः ॥

सारके विचारिल्ले प्रस्न

What is मुंडक उपनिषद् - तृतीय मुंडक, प्रथम कांडः?

मुंडक उपनिषद् - तृतीय मुंडक, प्रथम कांडः is a Upanishads available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Konkani. Use the language selector to view another available edition.

Can I read मुंडक उपनिषद् - तृतीय मुंडक, प्रथम कांडः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download मुंडक उपनिषद् - तृतीय मुंडक, प्रथम कांडः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook