मुकुंदमाला स्तोत्रम्


घुष्यते यस्य नगरे रंगयात्रा दिने दिने ।
तमहं शिरसा वंदे राजानं कुलशेखरम् ॥

श्रीवल्लभेति वरदेति दयापरेति
भक्तप्रियेति भवलुंठनकोविदेति ।
नाथेति नागशयनेति जगन्निवासे-
-त्यालापनं प्रतिपदं कुरु मे मुकुंद ॥ 1 ॥

जयतु जयतु देवो देवकीनंदनोऽयं
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलांगो
जयतु जयतु पृथ्वीभारनाशो मुकुंदः ॥ 2 ॥

मुकुंद मूर्ध्ना प्रणिपत्य याचे
भवंतमेकांतमियंतमर्थम् ।
अविस्मृतिस्त्वच्चरणारविंदे
भवे भवे मेऽस्तु भवत्प्रसादात् ॥ 3 ॥

नाहं वंदे तव चरणयोर्द्वंद्वमद्वंद्वहेतोः
कुंभीपाकं गुरुमपि हरे नारकं नापनेतुम् ।
रम्यारामामृदुतनुलता नंदने नापि रंतुं
भावे भावे हृदयभवने भावयेयं भवंतम् ॥ 4 ॥

नास्था धर्मे न वसुनिचये नैव कामोपभोगे
यद्यद्भव्यं भवतु भगवन् पूर्वकर्मानुरूपम् ।
एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मांतरेऽपि
त्वत्पादांभोरुहयुगगता निश्चला भक्तिरस्तु ॥ 5 ॥

दिवि वा भुवि वा ममास्तु वासो
नरके वा नरकांतक प्रकामम् ।
अवधीरित शारदारविंदौ
चरणौ ते मरणेऽपि चिंतयामि ॥ 6 ॥

कृष्ण त्वदीय पदपंकजपंजरांत-
-मद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः
कंठावरोधनविधौ स्मरणं कुतस्ते ॥ 7 ॥

चिंतयामि हरिमेव संततं
मंदमंद हसिताननांबुजं
नंदगोपतनयं परात्परं
नारदादिमुनिबृंदवंदितम् ॥ 8 ॥

करचरणसरोजे कांतिमन्नेत्रमीने
श्रममुषि भुजवीचिव्याकुलेऽगाधमार्गे ।
हरिसरसि विगाह्यापीय तेजोजलौघं
भवमरुपरिखिन्नः खेदमद्य त्यजामि ॥ 9 ॥

सरसिजनयने सशंखचक्रे
मुरभिदि मा विरम स्वचित्त रंतुम् ।
सुखतरमपरं न जातु जाने
हरिचरणस्मरणामृतेन तुल्यम् ॥ 10 ॥

मा भीर्मंदमनो विचिंत्य बहुधा यामीश्चिरं यातनाः
नामी नः प्रभवंति पापरिपवः स्वामी ननु श्रीधरः ।
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं
लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ 11 ॥

भवजलधिगतानां द्वंद्ववाताहतानां
सुतदुहितृकलत्रत्राणभारार्दितानाम् ।
विषमविषयतोये मज्जतामप्लवानां
भवतु शरणमेको विष्णुपोतो नराणाम् ॥ 12 ॥

भवजलधिमगाधं दुस्तरं निस्तरेयं
कथमहमिति चेतो मा स्म गाः कातरत्वम् ।
सरसिजदृशि देवे तावकी भक्तिरेका
नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ 13 ॥

तृष्णातोये मदनपवनोद्धूत मोहोर्मिमाले
दारावर्ते तनयसहजग्राहसंघाकुले च ।
संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्
पादांभोजे वरद भवतो भक्तिनावं प्रयच्छ ॥ 14 ॥

माद्राक्षं क्षीणपुण्यान् क्षणमपि भवतो भक्तिहीनान्पदाब्जे
माश्रौषं श्राव्यबंधं तव चरितमपास्यान्यदाख्यानजातम् ।
मास्मार्षं माधव त्वामपि भुवनपते चेतसापह्नुवाना-
-न्माभूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मांतरेऽपि ॥ 15 ॥

जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं
पाणिद्वंद्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु ।
कृष्णं लोकय लोचनद्वय हरेर्गच्छांघ्रियुग्मालयं
जिघ्र घ्राण मुकुंदपादतुलसीं मूर्धन्नमाधोक्षजम् ॥ 16 ॥

हे लोकाः शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां
योगज्ञाः समुदाहरंति मुनयो यां याज्ञवल्क्यादयः ।
अंतर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां
तत्पीतं परमौषधं वितनुते निर्वाणमात्यंतिकम् ॥ 17 ।

हे मर्त्याः परमं हितं शृणुत वो वक्ष्यामि संक्षेपतः
संसारार्णवमापदूर्मिबहुलं सम्यक्प्रविश्य स्थिताः ।
नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुं
मंत्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥ 18 ॥

पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुः स्फुलिंगोऽलघु-
-स्तेजो निःश्वसनं मरुत्तनुतरं रंध्रं सुसूक्ष्मं नभः ।
क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुराः
दृष्टे यत्र स तावको विजयते भूमावधूतावधिः ॥ 19 ॥

बद्धेनांजलिना नतेन शिरसा गात्रैः सरोमोद्गमैः
कंठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पांबुना ।
नित्यं त्वच्चरणारविंदयुगल ध्यानामृतास्वादिना-
-मस्माकं सरसीरुहाक्ष सततं संपद्यतां जीवितम् ॥ 20 ॥

हे गोपालक हे कृपाजलनिधे हे सिंधुकन्यापते
हे कंसांतक हे गजेंद्रकरुणापारीण हे माधव ।
हे रामानुज हे जगत्त्रयगुरो हे पुंडरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ 21 ॥

भक्तापायभुजंगगारुडमणिस्त्रैलोक्यरक्षामणिः
गोपीलोचनचातकांबुदमणिः सौंदर्यमुद्रामणिः ।
यः कांतामणि रुक्मिणी घनकुचद्वंद्वैकभूषामणिः
श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः ॥ 22 ॥

शत्रुच्छेदैकमंत्रं सकलमुपनिषद्वाक्यसंपूज्यमंत्रं
संसारोत्तारमंत्रं समुपचिततमः संघनिर्याणमंत्रम् ।
सर्वैश्वर्यैकमंत्रं व्यसनभुजगसंदष्टसंत्राणमंत्रं
जिह्वे श्रीकृष्णमंत्रं जप जप सततं जन्मसाफल्यमंत्रम् ॥ 23 ॥

व्यामोह प्रशमौषधं मुनिमनोवृत्ति प्रवृत्त्यौषधं
दैत्येंद्रार्तिकरौषधं त्रिभुवनी संजीवनैकौषधम् ।
भक्तात्यंतहितौषधं भवभयप्रध्वंसनैकौषधं
श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥ 24 ॥

आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं
मेदश्छेदफलानि पूर्तविधयः सर्वे हुतं भस्मनि ।
तीर्थानामवगाहनानि च गजस्नानं विना यत्पद-
-द्वंद्वांभोरुहसंस्मृतिर्विजयते देवः स नारायणः ॥ 25 ॥

श्रीमन्नाम प्रोच्य नारायणाख्यं
के न प्रापुर्वांछितं पापिनोऽपि ।
हा नः पूर्वं वाक्प्रवृत्ता न तस्मिन्
तेन प्राप्तं गर्भवासादिदुःखम् ॥ 26 ॥

मज्जन्मनः फलमिदं मधुकैटभारे
मत्प्रार्थनीय मदनुग्रह एष एव ।
त्वद्भृत्यभृत्य परिचारक भृत्यभृत्य
भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ 27 ॥

नाथे नः पुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा
सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति ।
यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं
सेवायै मृगयामहे नरमहो मूका वराका वयम् ॥ 28 ॥

मदन परिहर स्थितिं मदीये
मनसि मुकुंदपदारविंदधाम्नि ।
हरनयनकृशानुना कृशोऽसि
स्मरसि न चक्रपराक्रमं मुरारेः ॥ 29 ॥

तत्त्वं ब्रुवाणानि परं परस्मा-
-न्मधु क्षरंतीव सतां फलानि ।
प्रावर्तय प्रांजलिरस्मि जिह्वे
नामानि नारायण गोचराणि ॥ 30 ॥

इदं शरीरं परिणामपेशलं
पतत्यवश्यं श्लथसंधिजर्जरम् ।
किमौषधैः क्लिश्यसि मूढ दुर्मते
निरामयं कृष्णरसायनं पिब ॥ 31 ॥

दारा वाराकरवरसुता ते तनूजो विरिंचिः
स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः ।
मुक्तिर्माया जगदविकलं तावकी देवकी ते
माता मित्रं बलरिपुसुतस्त्वय्यतोऽन्यन्न जाने ॥ 32 ॥

कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमस्याम्यहं
कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः ।
कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं
कृष्णे तिष्ठति सर्वमेतदखिलं हे कृष्ण रक्षस्व माम् ॥ 33 ॥

तत्त्वं प्रसीद भगवन् कुरु मय्यनाथे
विष्णो कृपां परमकारुणिकः किल त्वम् ।
संसारसागरनिमग्नमनंतदीन-
-मुद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥ 34 ॥

नमामि नारायणपादपंकजं
करोमि नारायणपूजनं सदा ।
वदामि नारायणनाम निर्मलं
स्मरामि नारायणतत्त्वमव्ययम् ॥ 35 ॥

श्रीनाथ नारायण वासुदेव
श्रीकृष्ण भक्तप्रिय चक्रपाणे ।
श्रीपद्मनाभाच्युत कैटभारे
श्रीराम पद्माक्ष हरे मुरारे ॥ 36 ॥

अनंत वैकुंठ मुकुंद कृष्ण
गोविंद दामोदर माधवेति ।
वक्तुं समर्थोऽपि न वक्ति कश्चि-
-दहो जनानां व्यसनाभिमुख्यम् ॥ 37 ॥

ध्यायंति ये विष्णुमनंतमव्ययं
हृत्पद्ममध्ये सततं व्यवस्थितम् ।
समाहितानां सतताभयप्रदं
ते यांति सिद्धिं परमां च वैष्णवीम् ॥ 38 ॥

क्षीरसागरतरंगशीकरा-
-ऽऽसारतारकितचारुमूर्तये ।
भोगिभोगशयनीयशायिने
माधवाय मधुविद्विषे नमः ॥ 39 ॥

यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ
मित्रे द्विजन्मवरपद्मशरावभूताम् ।
तेनांबुजाक्षचरणांबुजषट्पदेन
राज्ञा कृता कृतिरियं कुलशेखरेण ॥ 40 ॥

इति कुलशेखर प्रणीतं मुकुंदमाला ।

सारके विचारिल्ले प्रस्न

What is मुकुंदमाला स्तोत्रम्?

मुकुंदमाला स्तोत्रम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Konkani. Use the language selector to view another available edition.

Can I read मुकुंदमाला स्तोत्रम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download मुकुंदमाला स्तोत्रम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook