मूक पंच शति 1 – आर्य शतकम्
कारणपरचिद्रूपा कांचीपुरसीम्नि कामपीठगता ।
काचन विहरति करुणा काश्मीरस्तबककोमलांगलता ॥1॥
कंचन कांचीनिलयं करधृतकोदंडबाणसृणिपाशम् ।
कठिनस्तनभरनम्रं कैवल्यानंदकंदमवलंबे ॥2॥
चिंतितफलपरिपोषणचिंतामणिरेव कांचिनिलया मे ।
चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुखाधारा ॥3॥
कुटिलकचं कठिनकुचं कुंदस्मितकांति कुंकुमच्छायम् ।
कुरुते विहृतिं कांच्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥4॥
पंचशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन ।
कांचीसीम्नि कुमारी काचन मोहयति कामजेतारम् ॥5॥
परया कांचीपुरया पर्वतपर्यायपीनकुचभरया ।
परतंत्रा वयमनया पंकजसब्रह्मचारिलोचनया ॥6॥
ऐश्वर्यमिंदुमौलेरैकत्म्यप्रकृति कांचिमध्यगतम् ।
ऐंदवकिशोरशेखरमैदंपर्यं चकास्ति निगमानाम् ॥7॥
श्रितकंपसीमानं शिथिलितपरमशिवधैर्यमहिमानम् ।
कलये पटलिमानं कंचन कंचुकितभुवनभूमानम् ॥8॥
आदृतकांचीनिलयमाद्यामारूढयौवनाटोपाम् ।
आगमवतंसकलिकामानंदाद्वैतकंदलीं वंदे ॥9॥
तुंगाभिरामकुचभरशृंगारितमाश्रयामि कांचिगतम् ।
गंगाधरपरतंत्रं शृंगाराद्वैततंत्रसिद्धांतम् ॥10॥
कांचीरत्नविभूषां कामपि कंदर्पसूतिकापांगीम् ।
परमां कलामुपासे परशिववामांकपीठिकासीनाम् ॥11॥
कंपातीचराणां करुणाकोरकितदृष्टिपातानाम् ।
केलीवनं मनो मे केषांचिद्भवतु चिद्विलासानाम् ॥12॥
आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् ।
आरब्धयौवनोत्सवमाम्नायरहस्यमंतरवलंबे ॥13॥
अधिकांचि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन ।
अनुबद्धं मम मानसमरुणिमसर्वस्वसंप्रदायेन ॥14॥
अंकितशंकरदेहामंकुरितोरोजकंकणाश्लेषैः ।
अधिकांचि नित्यतरुणीमद्राक्षं कांचिदद्भुतां बालाम् ॥15॥
मधुरधनुषा महीधरजनुषा नंदामि सुरभिबाणजुषा ।
चिद्वपुषा कांचिपुरे केलिजुषा बंधुजीवकांतिमुषा ॥16॥
मधुरस्मितेन रमते मांसलकुचभारमंदगमनेन ।
मध्येकांचि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥17॥
धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् ।
अंबुमयीमिंदुमयीमंबामनुकंपमादिमामीक्षे ॥18॥
लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकंपम् ।
पीनस्तनभरमीडे मीनध्वजतंत्रपरमतात्पर्यम् ॥19॥
श्वेता मंथरहसिते शाता मध्ये च वाड्भनोऽतीता ।
शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ॥20॥
पुरतः कदा न करवै पुरवैरिविमर्दपुलकितांगलताम् ।
पुनतीं कांचीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥21॥
पुण्या काऽपि पुरंध्री पुंखितकंदर्पसंपदा वपुषा ।
पुलिनचरी कंपायाः पुरमथनं पुलकनिचुलितं कुरुते ॥22॥
तनिमाद्वैतवलग्नं तरुणारुणसंप्रदायतनुलेखम् ।
तटसीमनि कंपायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥23॥
पौष्टिककर्मविपाकं पौष्पशरं सविधसीम्नि कंपायाः ।
अद्राक्षमात्तयौवनमभ्युदयं कंचिदर्धशशिमौलैः ॥24॥
संश्रितकांचीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे ।
संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ॥25॥
मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदंडम् ।
आदृतकांचीखेलनमादिममारुण्यभेदमाकलये ॥26॥
उररीकृतकांचिपुरीमुपनिषदरविंदकुहरमधुधाराम् ।
उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शंभोः ॥27॥
एणशिशुदीर्घलोचनमेनःपरिपंथि संततं भजताम् ।
एकाम्रनाथजीवितमेवंपददूरमेकमवलंबे ॥28॥
स्मयमानमुखं कांचीभयमानं कमपि देवताभेदम् ।
दयमानं वीक्ष्य मुहुर्वयमानंदामृतांबुधौ मग्नाः ॥29॥
कुतुकजुषि कांचिदेशे कुमुदतपोराशिपाकशेखरिते ।
कुरुते मनोविहारं कुलगिरिपरिबृढकुलैकमणिदीपे ॥30॥
वीक्षेमहि कांचिपुरे विपुलस्तनकलशगरिमपरवशितम् ।
विद्रुमसहचरदेहं विभ्रमसमवायसारसन्नाहम् ॥31॥
कुरुविंदगोत्रगात्रं कूलचरं कमपि नौमि कंपायाः ।
कूलंकषकुचकुंभं कुसुमायुधवीर्यसारसंरंभम् ॥32॥
कुडूमलितकुचकिशोरैः कुर्वाणैः कांचिदेशसौहार्दम् ।
कुंकुमशोणैर्निचितं कुशलपथं शंभुसुकृतसंभारैः ॥33॥
अंकितकचेन केनचिदंधंकरणौषधेन कमलानाम् ।
अंतःपुरेण शंभोरलंक्रिया काऽपि कल्प्यते कांच्याम् ॥34॥
ऊरीकरोमि संततमूष्मलफालेन ललितं पुंसा ।
उपकंपमुचितखेलनमुर्वीधरवंशसंपदुन्मेषम् ॥35॥
अंकुरितस्तनकोरकमंकालंकारमेकचूतपतेः ।
आलोकेमहि कोमलमागमसंलापसारयाथार्थ्यम् ॥36॥
पुंजितकरुणमुदंचितशिंजितमणिकांचि किमपि कांचिपुरे ।
मंजरितमृदुलहासं पिंजरतनुरुचि पिनाकिमूलधनम् ॥37॥
लोलहृदयोऽस्ति शंभोर्लोचनयुगलेन लेह्यमानायाम् ।
ललितपरमशिवायां लावण्यामृततरंगमालायाम् ॥38॥
मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः ।
मंडितकंपातीरैर्मंगलकंदैर्ममास्तु सारूप्यम् ॥39॥
वदनारविंदवक्षोवामांकतटीवशंवदीभूता ।
पूरुषत्रितये त्रेधा पुरंध्रिरूपा त्वमेव कामाक्षि ॥40॥
बाधाकरीं भवाब्धेराधाराद्यंबुजेषु विचरंतीम् ।
आधारीकृतकांची बोधामृतवीचिमेव विमृशामः ॥41॥
कलयाम्यंतः शशधरकलयाऽंकितमौलिममलचिद्वलयाम् ।
अलयामागमपीठीनिलयां वलयांकसुंदरीमंबाम् ॥42॥
शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे ।
सर्वाकृतये शोणिमगर्वायास्मै समर्प्यते हृदयम् ॥43॥
समया सांध्यमयूखैः समया बुद्धया सदैव शीलितया ।
उमया कांचीरतया न मया लभ्यते किं नु तादात्म्यम् ॥44॥
जंतोस्तव पदपूजनसंतोषतरंगितस्य कामाक्षि ।
वंधो यदि भवति पुनः सिंधोरंभस्सु बंभ्रमीति शिला ॥45॥
कुंडलि कुमारि कुटिले चंडि चराचरसवित्रि चामुंडे ।
गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥46॥
अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः ।
अनहंता त्वमहंता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥47॥
शिव शिव पश्यंति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः ।
विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिंबोष्ठम् ॥48॥
कामपरिपंथिकामिनि कामेश्वरि कामपीठमध्यगते ।
कामदुघा भव कमले कामकले कामकोटि कामाक्षि ॥49॥
मध्येहृदयं मध्येनिटिलं मध्येशिरोऽपि वास्तव्याम् ।
चंडकरशक्रकार्मुकचंद्रसमाभां नमामि कामाक्षीम् ॥50॥
अधिकांचि केलिलोलैरखिलागमयंत्रतंत्रमयैः ।
अतिशीतं मम मानसमसमशरद्रोहिजीवनोपायैः ॥51॥
नंदति मम हृदि काचन मंदिरयंती निरंतरं कांचीम् ।
इंदुरविमंडलकुचा बिंदुवियन्नादपरिणता तरुणी ॥52॥
शंपालतासवर्णं संपादयितुं भवज्वरचिकित्साम् ।
लिंपामि मनसि किंचन कंपातटरोहि सिद्धभैषज्यम् ॥53॥
अनुमितकुचकाठिन्यामधिवक्षःपीठमंगजन्मरिपोः ।
आनंददां भजे तामानंगब्रह्मतत्वबोधसिराम् ॥54॥
ऐक्षिषि पाशांकुशधरहस्तांतं विस्मयार्हवृत्तांतम् ।
अधिकांचि निगमवाचां सिद्धांतं शूलपाणिशुद्धांतम् ॥55॥
आहितविलासभंगीमाब्रह्मस्तंबशिल्पकल्पनया ।
आश्रितकांचीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥56॥
मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् ।
एको भवति स जंतुर्लोकोत्तरकीर्तिरेव कामाक्षि ॥57॥
पंचदशवर्णरूपं कंचन कांचीविहारधौरेयम् ।
पंचशरीयं शंभोर्वंचनवैदग्ध्यमूलमवलंबे ॥58॥
परिणतिमतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीम् ।
पंचाशदर्णकल्पितमदशिल्पां त्वां नमामि कामाक्षि ॥59॥
आदिक्षन्मम गुरुराडादिक्षांताक्षरात्मिकां विद्याम् ।
स्वादिष्ठचापदंडां नेदिष्ठामेव कामपीठगताम् ॥60॥
तुष्यामि हर्षितस्मरशासनया कांचिपुरकृतासनया ।
स्वासनया सकलजगद्भासनया कलितशंबरासनया ॥61॥
प्रेमवती कंपायां स्थेमवती यतिमनस्सु भूमवती ।
सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥62॥
कौतुकिना कंपायां कौसुमचापेन कीलितेनांतः ।
कुलदैवतेन महता कुड्मलमुद्रां धुनोतु नःप्रतिभा ॥63॥
यूना केनापि मिलद्देहा स्वाहासहायतिलकेन ।
सहकारमूलदेशे संविद्रूपा कुटुंबिनी रमते ॥64॥
कुसुमशरगर्वसंपत्कोशगृहं भाति कांचिदेशगतम् ।
स्थापितमस्मिन्कथमपि गोपितमंतर्मया मनोरत्नम् ॥65॥
दग्धषडध्वारण्यं दरदलितकुसुंभसंभृतारुण्यम् ।
कलये नवतारुण्यं कंपातटसीम्नि किमपि कारुण्यम् ॥66॥
अधिकांचि वर्धमानामतुलां करवाणि पारणामक्ष्णोः ।
आनंदपाकभेदामरुणिमपरिणामगर्वपल्लविताम् ॥67॥
बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् ।
एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ॥68॥
किं वा फलति ममान्यौर्बिंबाधरचुंबिमंदहासमुखी ।
संबाधकरी तमसामंबा जागर्ति मनसि कामाक्षी ॥69॥
मंचे सदाशिवमये परिशिवमयललितपौष्पपर्यंके ।
अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥70॥
रक्ष्योऽस्मि कामपीठीलासिकया घनकृपांबुराशिकया ।
श्रुतियुवतिकुंतलीमणिमालिकया तुहिनशैलबालिकया ॥71॥
लीये पुरहरजाये माये तव तरुणपल्लवच्छाये ।
चरणे चंद्राभरणे कांचीशरणे नतार्तिसंहरणे ॥72॥
मूर्तिमति मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये ।
मोदितकंपाकूले मुहुर्मुहुर्मनसि मुमुदिषाऽस्माकम् ॥73॥
वेदमयीं नादमयीं बिंदुमयीं परपदोद्यदिंदुमयीम् ।
मंत्रमयीं तंत्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥74॥
पुरमथनपुण्यकोटी पुंजितकविलोकसूक्तिरसधाटी ।
मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥75॥
कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु ।
अवलोकितमवलंबितमधिकंपातटममेयमस्माभिः ॥76॥
प्रत्यङ्मुख्या दृष्टया प्रसाददीपांकुरेण कामाक्ष्याः ।
पश्यामि निस्तुलमहो पचेलिमं कमपि परशिवोल्लासम् ॥77॥
विद्ये विधातृविषये कात्यायनि कालि कामकोटिकले ।
भारति भैरवि भद्रे शाकिनि शांभवि शिवे स्तुवे भवतीम् ॥78॥
मालिनि महेशचालिनि कांचीखेलिनि विपक्षकालिनि ते ।
शूलिनि विद्रुमशालिनि सुरजनपालिनि कपालिनि नमोऽस्तु ॥79॥
देशिक इति किं शंके तत्तादृक्तव नु तरुणिमोन्मेषः ।
कामाक्षि शूलपाणेः कामागमसमयदीक्षायाम् ॥80॥
वेतंडकुंभडंबरवैतंडिककुचभरार्तमध्याय ।
कुंकुमरुचे नमस्यां शंकरनयनामृताय रचयामः ॥81॥
अधिकांचितमणिकांचनकांचीमधिकांचि कांचिदद्राक्षम् ।
अवनतजनानुकंपामनुकंपाकूलमस्मदनुकूलाम् ॥82॥
परिचितकंपातीरं पर्वतराजन्यसुकृतसन्नाहम् ।
परगुरुकृपया वीक्षे परमशिवोत्संगमंगलाभरणम् ॥83॥
दग्धमदनस्य शंभोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् ।
तव देवि तरुणिमश्रीचतुरिमपाको न चक्षमे मातः ॥84॥
मदजलतमालपत्रा वसनितपत्रा करादृतखानित्रा ।
विहरति पुलिंदयोषा गुंजाभूषा फणींद्रकृतवेषा ॥85॥
अंके शुकिनी गीते कौतुकिनी परिसरे च गायकिनी ।
जयसि सविधेऽंब भैरवमंडलिनी श्रवसि शंखकुन्डलिनी ॥86॥
प्रणतजनतापवर्गा कृतबहुसर्गा ससिंहसंसर्गा ।
कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥87॥
श्रवणचलद्वेतंडा समरोद्दंडा धुतासुरशिखंडा ।
देवि कलितांत्रषंडा धृतनरमुंडा त्वमेव चामुंडा ॥88॥
उर्वीधरेंद्रकन्ये दर्वीभरितेन भक्तपूरेण ।
गुर्वीमकिंचनार्ति खर्वीकुरुषे त्वमेव कामाक्षि ॥89॥
ताडितरिपुपरिपीडनभयहरण निपुणहलमुसला ।
क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ॥90॥
स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला ।
कनकरुचिचौर्यशीला त्वमंब बाला कराब्जधृतमाला ॥91॥
विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी ।
कामाक्षि पक्ष्मलाक्षी कलितविपंची विभासि वैरिंची ॥92॥
कुंकुमरुचिपिंगमसृक्पंकिलमुंडालिमंडितं मातः ।
श्रीकामाक्षि तदीयसंगमकलामंदीभवत्कौतुकः
जयति तव रूपधेयं जपपटपुस्तकवराभयकराब्जम् ॥93॥
कनकमणिकलितभूषां कालायसकलहशीलकांतिकलाम् ।
कामाक्षि शीलये त्वां कपालशूलाभिरामकरकमलाम् ॥94॥
लोहितिमपुंजमध्ये मोहितभुवने मुदा निरीक्षंते ।
वदनं तव कुवयुगलं कांचीसीमां च केऽपि कामाक्षि ॥95॥
जलधिद्विगुणितहुतबहदिशादिनेश्वरकलाश्विनेयदलैः ।
नलिनैर्महेशि गच्छसि सर्वोत्तरकरकमलदलममलम् ॥96॥
सत्कृतदेशिकचरणाः सबीजनिर्बीजयोगनिश्रेण्या ।
अपवर्गसौधवलभीमारोहंत्यंब केऽपि तव कृपया ॥97॥
अंतरपि बहिरपि त्वं जंतुततेरंतकांतकृदहंते ।
चिंतितसंतानवतां संततमपि तंतनीषि महिमानम् ॥98॥
कलमंजुलवागनुमितगलपंजरगतशुकग्रहौत्कंठ्यात् ।
अंब रदनांबरं ते बिंबफलं शंबरारिणा न्यस्तम् ॥99॥
जय जय जगदंब शिवे जय जय कामाक्षि जय जयाद्रिसुते ।
जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥100॥
आर्याशतकं भक्त्या पठतामार्याकटाक्षेण ।
निस्सरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥101॥
॥ इति आर्याशतकं संपूर्णम् ॥
सारके विचारिल्ले प्रस्न
What is मूक पंच शति 1 - आर्य शतकम्?
मूक पंच शति 1 - आर्य शतकम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read मूक पंच शति 1 - आर्य शतकम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download मूक पंच शति 1 - आर्य शतकम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.