कठोपनिषद् – अध्याय 2, वल्ली 3


अध्याय 2
वल्ली 3

ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः।
तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते।
तस्मिं​ल्लोँकाः श्रिताः सर्वे तदु नात्येति कश्चन। एतद्वै तत् ॥1॥

यदिदं किं च जगत्सर्वं प्राण एजति निःसृतम्।
महद् भयं-वँज्रमुद्यतं-यँ एतद्विदुरमृतास्ते भवंति ॥2॥

भयादस्याग्निस्तपति भयात्तपति सूर्यः।
भयादिंद्रश्च वायुश्च मृत्युर्धावति पंचमः ॥3॥

इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः।
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥4॥

यथाऽऽदर्​शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके।
यथाऽप्सु परीव ददृशे तथा गंधर्वलोके छायातपयोरिव ब्रह्मलोके ॥5॥

इंद्रियाणां पृथग्भावमुदयास्तमयौ च यत्।
पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥6॥

इंद्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम्।
सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥7॥

अव्यक्तात्तु परः पुरुषो व्यापकोऽलिंग एव च।
यं ज्ञात्वा मुच्यते जंतुरमृतत्वं च गच्छति ॥8॥

न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्।
हृदा मनीषा मनसाऽभिक्लृप्तो य एतद्विदुरमृतास्ते भवंति ॥9॥

यदा पंचावतिष्ठंते ज्ञानानि मनसा सह।
बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥10॥

तां-योँगमिति मन्यंते स्थिरामिंद्रियधारणाम्।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥11॥

नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥12॥

अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः।
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥13॥

यदा सर्वे प्रमुच्यंते कामा येऽस्य हृदि श्रिताः।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥14॥

यदा सर्वे प्रभिद्यंते हृदयस्येह ग्रंथयः।
अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥15॥

शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवंति ॥16॥

अंगुष्ठमात्रः पुरुषोऽंतरात्मा सदा जनानां हृदये संनिविष्टः।
तं स्वाच्छरीरात्प्रवृहेन्मुंजादिवेषीकां धैर्येण।
तं-विँद्याच्छुक्रममृतं तं-विँद्याच्छुक्रममृतमिति ॥17॥

मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां-योँगविधिं च कृत्स्नम्।
ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु-रन्योऽप्येवं-योँ विदध्यात्ममेव ॥18॥

सारके विचारिल्ले प्रस्न

What is कठोपनिषद् - अध्याय 2, वल्ली 3?

कठोपनिषद् - अध्याय 2, वल्ली 3 is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Konkani. Use the language selector to view another available edition.

Can I read कठोपनिषद् - अध्याय 2, वल्ली 3 online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download कठोपनिषद् - अध्याय 2, वल्ली 3 as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook