हनुमान् नित्य पूजा विधानम्


आवश्यकानि वस्तूनि
– आसनं
– दीपः
– गंधः
– कुंकुमं
– अक्षताः
– पुष्पाणि
– धूपः
– नैवेद्यं
– तांबूलं
– आचमनीयं
– पूजा पात्रं
– कलशः
– शंखः [optional]
– हनुमान् प्रतिमा वा चित्रपटः वा

पूर्वांग पूजा
श्रीमहागणाधिपतये नमः ।
श्री गुरुभ्यो नमः ।
हरिः ओम् ।

शुचिः
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुंडरीकाक्षं स बाह्याभ्यंतरः शुचिः ॥
पुंडरीकाक्ष पुंडरीकाक्ष पुंडरीकाक्षाय नमः ॥

प्रार्थना
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥

अगजानन पद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदंतमुपास्महे ॥

तदेव लग्नं सुदिनं तदेव
ताराबलं चंद्रबलं तदेव ।
विद्याबलं दैवबलं तदेव
लक्ष्मीपते तेऽंघ्रियुगं स्मरामि ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥

सर्वमंगल मांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंबके गौरी नारायणि नमोऽस्तु ते ॥

श्रीलक्ष्मीनारायणाभ्यां नमः ।
उमामहेश्वराभ्यां नमः ।
वाणीहिरण्यगर्भाभ्यां नमः ।
शचीपुरंदराभ्यां नमः ।
अरुंधतीवसिष्ठाभ्यां नमः ।
श्रीसीतारामाभ्यां नमः ।
मातापितृभ्यो नमः ।
सर्वेभ्यो महाजनेभ्यो नमः ।

आचमनं
ॐ केशवाय स्वाहा ।
ॐ नारायणाय स्वाहा ।
ॐ माधवाय स्वाहा ।
ॐ गोविंदाय नमः ।
ॐ विष्णवे नमः ।
ॐ मधुसूदनाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ वामनाय नमः ।
ॐ श्रीधराय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ दामोदराय नमः ।
ॐ संकर्षणाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ अधोक्षजाय नमः ।
ॐ नारसिंहाय नमः ।
ॐ अच्युताय नमः ।
ॐ जनार्दनाय नमः ।
ॐ उपेंद्राय नमः ।
ॐ हरये नमः ।
ॐ श्रीकृष्णाय नमः ।

दीपाराधनम्
दीपस्त्वं ब्रह्मरूपोऽसि ज्योतिषां प्रभुरव्ययः ।
सौभाग्यं देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥
भो दीप देवि रूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् ।
यावत्पूजां करिष्यामि तावत्त्वं सुस्थिरो भव ॥
दीपाराधन मुहूर्तः सुमुहूर्तोऽस्तु ॥

भूतोच्चाटनम्
उत्तिष्ठंतु भूतपिशाचाः य एते भूमिभारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
अपसर्पंतु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारस्ते गच्छंतु शिवाऽज्ञया ॥

प्राणायामः

ॐ भूः । ॐ भुवः॑ । ओग्ं सुवः॑ । ॐ महः॑ । ॐ जनः॑ । ॐ तपः॑ । ओग्ं सत्यम् ।
ॐ तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥
ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥

संकल्पः
मम उपात्त समस्त दुरितक्षय द्वारा श्रीपरमेश्वर प्रीत्यर्थं, मम/अस्माकं सहकुटुंबस्य क्षेम-स्थैर्य-धैर्य-वीर्य-विजय-अभय-आयुः-आरोग्य-ऐश्वर्य-अभिवृद्ध्यर्थं, धैर्य-बल-बुद्धि-भक्ति-सिद्ध्यर्थं, धर्मार्थ-काम-मोक्ष-चतुर्विध-पुरुषार्थ-फल-सिद्ध्यर्थं, श्रीहनुमत्-प्रीत्यर्थं, यावच्छक्ति ध्यान-आवाहनादि-षोडशोपचार-पूजां करिष्ये ॥

तदंग कलशाराधनं करिष्ये ॥

कलशाराधनम्
कलशे गंध पुष्पाक्षतैरभ्यर्च्य ।
कलशे उदकं पूरयित्वा ।
कलशस्योपरि हस्तं निधाय ।

कलशस्य मुखे विष्णुः कंठे रुद्रः समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुंधरा ।
ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ॥
अंगैश्च सहिताः सर्वे कलशांबु समाश्रिताः ॥

गंगे च यमुने चैव गोदावरी सरस्वती ।
नर्मदे सिंधु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥
कावेरी तुंगभद्रा च कृष्णवेणी च गौतमी ।
भागीरथीति विख्याताः पंचगंगाः प्रकीर्तिताः ॥

आयांतु देवपूजार्थं मम दुरितक्षयकारकाः ।
कलशोदकेन पूजा द्रव्याणि संप्रोक्ष्य, देवं संप्रोक्ष्य, आत्मानं च संप्रोक्ष्य ॥

शंखपूजा
शंखं चंद्रार्क दैवतं मध्ये वरुण देवताम् ।
पृष्ठे प्रजापतिं विंद्यादग्रे गंगा सरस्वतीम् ॥
त्रैलोक्ये यानि तीर्थानि वासुदेवस्य आज्ञया ।
शंखे तिष्ठंतु विप्रेंद्राः तस्मात् शंखं प्रपूजयेत् ॥

ॐ शंखाय नमः ।
ॐ धवलाय नमः ।
ॐ पांचजन्याय नमः ।
ॐ शंखदेवताभ्यो नमः ।
सकलपूजार्थे अक्षतान् समर्पयामि ॥

घंटानादः
आगमार्थं तु देवानां गमनार्थं तु राक्षसाम् ।
घंटारवं करोम्यादौ देवताह्वान लांछनम् ॥
ॐ घंटादेवताभ्यो नमः ।
सकलोपचार पूजार्थे अक्षतान् समर्पयामि ॥

श्री महागणपति पूजा

ॐ ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नां उप॒मश्र॑वस्तवम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥

सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लंबोदरश्च विकटो विघ्नराजो गणाधिपः ॥
धूमकेतुर्गणाध्यक्षः फालचंद्रो गजाननः ।
वक्रतुंडः शूर्पकर्णो हेरंबः स्कंदपूर्वजः ॥

ॐ श्रीमहागणपतये नमः ।
ध्यायामि । आवाहयामि । आसनं समर्पयामि ।
पाद्यं समर्पयामि । अर्घ्यं समर्पयामि । आचमनीयं समर्पयामि ।
स्नानं समर्पयामि । वस्त्रं समर्पयामि । यज्ञोपवीतं समर्पयामि ।
गंधं समर्पयामि । पुष्पाणि समर्पयामि ।
धूपमाघ्रापयामि । दीपं दर्शयामि ।
नैवेद्यं समर्पयामि । तांबूलं समर्पयामि ।
नीराजनं समर्पयामि । मंत्रपुष्पं समर्पयामि ।
प्रदक्षिण नमस्कारान् समर्पयामि ॥

षोडशोपचार पूजा
हनुमान् ध्यानम्
अतुलित बलधामं स्वर्ण शैलाभ देहम् ।
दनुजवन कृशानुं ज्ञानिनामग्रगण्यम् ॥
सकलगुणनिधानं वानराणामधीशम् ।
रघुपतिप्रियभक्तं वातजातं नमामि ॥

मनोजवं मारुत तुल्यवेगम् ।
जितेंद्रियं बुद्धिमतां वरिष्ठम् ॥
वातात्मजं वानर यूथमुख्यम् ।
श्रीरामदूतं शिरसा नमामि ॥

गोष्पदीकृतसमुद्रं मशकीकृत राक्षसम् ।
रामायण महामाला रत्नं वंदेऽनिलात्मजम् ॥

ॐ श्रीहनुमते नमः ।
ध्यायामि । ध्यानं समर्पयामि ॥

आवाहनम्
रामचंद्र पदांभोज युगल स्थिरमासनम् ।
आवाहयामि वरदं हनूमंतमभीष्टदम् ॥
ॐ श्रीहनुमते नमः ।
आवाहयामि । स्थापयामि । पूजयामि ॥

आसनम्
नवरत्ननिबद्धाढ्यं चतुरश्रं सुशोभनम् ।
सौवर्णमासनं तुभ्यं दास्यामि कपिनायक ॥
ॐ श्रीहनुमते नमः ।
आसनं समर्पयामि ॥

पाद्यम्
सुवर्णकलशानीतं गंगादि सलिलैर्युतम् ।
पादयोः पाद्यमनघं प्रतिगृह्य प्रसीद मे ॥
ॐ श्रीहनुमते नमः ।
पादयोः पाद्यं समर्पयामि ॥

अर्घ्यम्
लक्ष्मण प्राणसंरक्ष सीताशोकविनाशन ।
गृहाणार्घ्यं मया दत्तं अंजनाप्रियनंदन ॥
ॐ श्रीहनुमते नमः ।
हस्तयोः अर्घ्यं समर्पयामि ॥

आचमनीयम्
वालाग्रसेतुबंधाय शताननवधाय च ।
तुभ्यमाचमनं दत्तं प्रतिगृह्णीष्व मारुते ॥
ॐ श्रीहनुमते नमः ।
मुखे आचमनीयं समर्पयामि ॥

स्नानम्

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ॥
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ॥
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥

ॐ श्रीहनुमते नमः ।
शुद्धोदक स्नानं समर्पयामि ॥
स्नानानंतरं आचमनीयं समर्पयामि ॥

वस्त्रम्
पीतांबरमिदं तुभ्यं तप्तहाटक सन्निभम् ।
दास्यामि वानरश्रेष्ठ संगृहाण नमोऽस्तु ते ॥
उत्तरीयं तु दास्यामि संसारोत्तार कारण ।
गृहाण च मया प्रीत्या दत्तं धत्स्व यथाविधि ॥
ॐ श्रीहनुमते नमः ।
वस्त्रं समर्पयामि ॥

यज्ञोपवीतम्
नवभिस्तंतुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं चोत्तरीयं गृहाण रामकिंकर ॥
ॐ श्रीहनुमते नमः ।
यज्ञोपवीतं समर्पयामि ॥

गंधम्
कस्तूरीकुंकुमामिश्रं कर्पूरागरुवासितम् ।
श्रीचंदनं तु दास्यामि गृह्यतां हनुमत्प्रभो ॥
ॐ श्रीहनुमते नमः ।
गंधं समर्पयामि ॥

अर्चन
अक्षतान् धवलान् दिव्यान् पुष्पाणि च सुगंधीनि ।
भक्त्या दत्तानि गृह्यंतां सर्वदेवाः प्रसीदत ॥

अंग पूजा
ॐ मारुतये नमः – पादौ पूजयामि ।
ॐ सुग्रीवसखाय नमः – गुल्फौ पूजयामि ।
ॐ अंगदमित्राय नमः – जंघे पूजयामि ।
ॐ रामदासाय नमः – ऊरू पूजयामि ।
ॐ अक्षघ्नाय नमः – कटिं पूजयामि ।
ॐ लंकादहनाय नमः – वालं पूजयामि ।
ॐ संजीवननगाहर्ते नमः – स्कंधौ पूजयामि ।
ॐ सौमित्रिप्राणदात्रे नमः – वक्षःस्थलं पूजयामि ।
ॐ कुंठितदशकंठाय नमः – कंठं पूजयामि ।
ॐ रामाभिषेककारिणे नमः – हस्तौ पूजयामि ।
ॐ मंत्ररचितरामायणाय नमः – वक्त्रं पूजयामि ।
ॐ प्रसन्नवदनाय नमः – वदनं पूजयामि ।
ॐ पिंगलनेत्राय नमः – नेत्रे पूजयामि ।
ॐ श्रुतिपरायणाय नमः – श्रोत्रे पूजयामि ।
ॐ ऊर्ध्वपुंड्रधारिणे नमः – ललाटं पूजयामि ।
ॐ मणिकंठमालिकाय नमः – शिरः पूजयामि ।
ॐ सर्वाभीष्टप्रदाय नमः – सर्वाण्यंगानि पूजयामि ॥

[Recite the hanumAn aShTOttara Sata nAmAvaLI, or at least a few known names of Hanuman. Offer flowers or akshatas with each name.]

अथवा हनुमान् नामावली पठनम् ॥

ॐ श्रीहनुमते नमः ।
अष्टोत्तर शत नामावली पूजां समर्पयामि ।
अक्षतान् पुष्पाणि च समर्पयामि ॥

धूपम्
दिव्यं सगुग्गुलं रम्यं दशांगेन समन्वितम् ।
गृहाण मारुते धूपं सुप्रियं घ्राणतत्परम् ॥
ॐ श्रीहनुमते नमः ।
धूपमाघ्रापयामि ॥

दीपम्
साज्यं त्रिवर्ति संयुक्तं वह्निना योजितं मया ।
गृहाण मंगलं दीपं त्रैलोक्य तिमिरापहम् ॥
सुप्रकाशो महादीपः सर्वतस्तिमिरापहः ।
सबाह्याभ्यंतरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥
ॐ श्रीहनुमते नमः ।
दीपं दर्शयामि ॥

नैवेद्यम्
मणिपात्र सहस्राढ्यं दिव्यान्नं घृतपायसम् ।
आपूपलड्डूकोपेतं मधुराम्रफलैर्युतम् ॥
हिंगू जीरक संयुक्तं षड्रसोपेतमुत्तमम् ।
नैवेद्यमर्पयाम्यद्य गृहाणेदं कपीश्वर ॥


ॐ भूर्भुव॒स्सुवः॒ । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धि॒यो यो नः॑ प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिंचामि ।
अमृतमस्तु । अमृतोपस्तरणमसि ।
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।
ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापिधानमसि ।
उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ॥

ॐ श्रीहनुमते नमः ।
नैवेद्यं समर्पयामि ॥

तांबूलम्
नागवल्लीदलोपेतं क्रमुकैर्मधुरैर्युतम् ।
तांबूलमर्पयाम्यद्य कर्पूरादि सुवासितम् ॥
ॐ श्रीहनुमते नमः ।
तांबूलं समर्पयामि ॥

नीराजनम्
आरार्तिकं तमोहारि शतसूर्य समप्रभम् ।
अर्पयामि तव प्रीत्यै अंधकार निषूदनम् ॥
ॐ श्रीहनुमते नमः ।
नीराजनं समर्पयामि ॥

मंत्रपुष्पम्
ॐ आंजनेयाय विद्महे वायुपुत्राय धीमहि ।
तन्नो हनुमत् प्रचोदयात् ॥
ॐ श्रीहनुमते नमः ।
मंत्रपुष्पं समर्पयामि ॥

प्रदक्षिणम्
यानि कानि च पापानि जन्मांतर कृतानि च ।
तानि तानि प्रणश्यंति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसंभव ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष कपीश्वर ॥
ॐ श्रीहनुमते नमः ।
प्रदक्षिण नमस्कारान् समर्पयामि ॥

नमस्कारः
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टांग उच्यते ॥
ॐ श्रीहनुमते नमः ।
नमस्कारान् समर्पयामि ॥

सर्वोपचाराः
ॐ श्रीहनुमते नमः ।
छत्रं समर्पयामि ।
चामरं समर्पयामि ।
गीतं श्रावयामि ।
नृत्यं दर्शयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ॥

स्तोत्र पठनम्

क्षमाप्रार्थना
अपराधसहस्राणि क्रियंतेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व कपिनायक ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व वानरोत्तम ॥
मंत्रहीनं क्रियाहीनं भक्तिहीनं कपीश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥

कायेन वाचा मनसेंद्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ॥

अनया ध्यान-आवाहनादि-षोडशोपचार पूजया श्रीहनुमान् सुप्रीतः सुप्रसन्नः वरदो भवतु ॥

उद्वासनम्
ॐ श्रीहनुमते नमः ।
यथास्थानं उद्वासयामि ।
शोभनार्थे क्षेमाय पुनरागमनाय च ॥

प्रसाद ग्रहणम्
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं देवता पादोदकं शुभम् ॥

श्रीहनुमान् प्रसादं शिरसा गृह्णामि ॥

ॐ शांतिः शांतिः शांतिः ॥

ॐ तत्सत् ब्रह्मार्पणमस्तु ॥

सारके विचारिल्ले प्रस्न

What is हनुमान् नित्य पूजा विधानम्?

हनुमान् नित्य पूजा विधानम् is a Hanuma Stotrams available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Konkani. Use the language selector to view another available edition.

Can I read हनुमान् नित्य पूजा विधानम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download हनुमान् नित्य पूजा विधानम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook