गोविंद दामोदर स्तोत्रम्
अग्रे कुरूणामथ पांडवानां
दुःशासनेनाहृतवस्त्रकेशा ।
कृष्णा तदाक्रोशदनन्यनाथा
गोविंद दामोदर माधवेति ॥ 1॥
श्रीकृष्ण विष्णो मधुकैटभारे
भक्तानुकंपिन् भगवन् मुरारे ।
त्रायस्व मां केशव लोकनाथ
गोविंद दामोदर माधवेति ॥ 2॥
विक्रेतुकामा किल गोपकन्या
मुरारिपादार्पितचित्तवृत्तिः ।
दध्यादिकं मोहवशादवोचद्
गोविंद दामोदर माधवेति ॥ 3॥
उलूखले संभृततंडुलांश्च
संघट्टयंत्यो मुसलैः प्रमुग्धाः ।
गायंति गोप्यो जनितानुरागा
गोविंद दामोदर माधवेति ॥ 4॥
काचित्करांभोजपुटे निषण्णं
क्रीडाशुकं किंशुकरक्ततुंडम् ।
अध्यापयामास सरोरुहाक्षी
गोविंद दामोदर माधवेति ॥ 5॥
गृहे गृहे गोपवधूसमूहः
प्रतिक्षणं पिंजरसारिकाणाम् ।
स्खलद्गिरां वाचयितुं प्रवृत्तो
गोविंद दामोदर माधवेति ॥ 6॥
पर्य्यंकिकाभाजमलं कुमारं
प्रस्वापयंत्योऽखिलगोपकन्याः ।
जगुः प्रबंधं स्वरतालबंधं
गोविंद दामोदर माधवेति ॥ 7॥
रामानुजं वीक्षणकेलिलोलं
गोपी गृहीत्वा नवनीतगोलम् ।
आबालकं बालकमाजुहाव
गोविंद दामोदर माधवेति ॥ 8॥
विचित्रवर्णाभरणाभिरामे-
ऽभिधेहि वक्त्रांबुजराजहंसि ।
सदा मदीये रसनेऽग्ररंगे
गोविंद दामोदर माधवेति ॥ 9॥
अंकाधिरूढं शिशुगोपगूढं
स्तनं धयंतं कमलैककांतम् ।
संबोधयामास मुदा यशोदा
गोविंद दामोदर माधवेति ॥ 10॥
क्रीडंतमंतर्व्रजमात्मजं स्वं
समं वयस्यैः पशुपालबालैः ।
प्रेम्णा यशोदा प्रजुहाव कृष्णं
गोविंद दामोदर माधवेति ॥ 11॥
यशोदया गाढमुलूखलेन
गोकंठपाशेन निबध्यमानः ।
रुरोद मंदं नवनीतभोजी
गोविंद दामोदर माधवेति ॥ 12॥
निजांगणे कंकणकेलिलोलं
गोपी गृहीत्वा नवनीतगोलम् ।
आमर्दयत्पाणितलेन नेत्रे
गोविंद दामोदर माधवेति ॥ 13॥
गृहे गृहे गोपवधूकदंबाः
सर्वे मिलित्वा समवाययोगे ।
पुण्यानि नामानि पठंति नित्यं
गोविंद दामोदर माधवेति ॥ 14॥
मंदारमूले वदनाभिरामं
बिंबाधरे पूरितवेणुनादम् ।
गोगोपगोपीजनमध्यसंस्थं
गोविंद दामोदर माधवेति ॥ 15॥
उत्थाय गोप्यो¶रात्रभागे
स्मृत्वा यशोदासुतबालकेलिम् ।
गायंति प्रोच्चैर्दधि मंथयंत्यो
गोविंद दामोदर माधवेति ॥ 16॥
जग्धोऽथ दत्तो नवनीतपिंडो
गृहे यशोदा विचिकित्सयंती ।
उवाच सत्यं वद हे मुरारे
गोविंद दामोदर माधवेति ॥ 17॥
अभ्यर्च्य गेहं युवतिः प्रवृद्ध-
प्रेमप्रवाहा दधि निर्ममंथ ।
गायंति गोप्योऽथ सखीसमेता
गोविंद दामोदर माधवेति ॥ 18॥
क्वचित् प्रभाते दधिपूर्णपात्रे
निक्षिप्य मंथं युवती मुकुंदम् ।
आलोक्य गानं विविधं करोति
गोविंद दामोदर माधवेति ॥ 19॥
क्रीडापरं भोजनमज्जनार्थं
हितैषिणी स्त्री तनुजं यशोदा ।
आजूहवत् प्रेमपरिप्लुताक्षी
गोविंद दामोदर माधवेति ॥ 20॥
सुखं शयानं निलये च विष्णुं
देवर्षिमुख्या मुनयः प्रपन्नाः ।
तेनाच्युते तन्मयतां व्रजंति
गोविंद दामोदर माधवेति ॥ 21॥
विहाय निद्रामरुणोदये च
विधाय कृत्यानि च विप्रमुख्याः ।
वेदावसाने प्रपठंति नित्यं
गोविंद दामोदर माधवेति ॥ 22॥
वृंदावने गोपगणाश्च गोप्यो
विलोक्य गोविंदवियोगखिन्नाम् ।
राधां जगुः साश्रुविलोचनाभ्यां
गोविंद दामोदर माधवेति ॥ 23॥
प्रभातसंचारगता नु गावस्-
तद्रक्षणार्थं तनयं यशोदा ।
प्राबोधयत् पाणितलेन मंदं
गोविंद दामोदर माधवेति ॥ 24॥
प्रवालशोभा इव दीर्घकेशा
वातांबुपर्णाशनपूतदेहाः ।
मूले तरूणां मुनयः पठंति
गोविंद दामोदर माधवेति ॥ 25॥
एवं ब्रुवाणा विरहातुरा भृशं
व्रजस्त्रियः कृष्णविषक्तमानसाः ।
विसृज्य लज्जां रुरुदुः स्म सुस्वरं
गोविंद दामोदर माधवेति ॥ 26॥
गोपी कदाचिन्मणिपंजरस्थं
शुकं वचो वाचयितुं प्रवृत्ता ।
आनंदकंद व्रजचंद्र कृष्ण
गोविंद दामोदर माधवेति ॥ 27॥
गोवत्सबालैः शिशुकाकपक्षं
बध्नंतमंभोजदलायताक्षम् ।
उवाच माता चिबुकं गृहीत्वा
गोविंद दामोदर माधवेति ॥ 28॥
प्रभातकाले वरवल्लवौघा
गोरक्षणार्थं धृतवेत्रदंडाः ।
आकारयामासुरनंतमाद्यं
गोविंद दामोदर माधवेति ॥ 29॥
जलाशये कालियमर्दनाय
यदा कदंबादपतन्मुरारिः ।
गोपांगनाश्चुक्रुशुरेत्य गोपा
गोविंद दामोदर माधवेति ॥ 30॥
अक्रूरमासाद्य यदा मुकुंदश्-
चापोत्सवार्थं मथुरां प्रविष्टः ।
तदा स पौरैर्जयसीत्यभाषि
गोविंद दामोदर माधवेति ॥ 31॥
कंसस्य दूतेन यदैव नीतौ
वृंदावनांताद् वसुदेवसूनू । (सूनौ)
रुरोद गोपी भवनस्य मध्ये
गोविंद दामोदर माधवेति ॥ 32॥
सरोवरे कालियनागबद्धं
शिशुं यशोदातनयं निशम्य ।
चक्रुर्लुठंत्यः पथि गोपबाला
गोविंद दामोदर माधवेति ॥ 33॥
अक्रूरयाने यदुवंशनाथं
संगच्छमानं मथुरां निरीक्ष्य ।
ऊचुर्वियोगत् किल गोपबाला
गोविंद दामोदर माधवेति ॥ 34॥
चक्रंद गोपी नलिनीवनांते
कृष्णेन हीना कुसुमे शयाना ।
प्रफुल्लनीलोत्पललोचनाभ्यां
गोविंद दामोदर माधवेति ॥ 35॥
मातापितृभ्यां परिवार्यमाणा
गेहं प्रविष्टा विललाप गोपी ।
आगत्य मां पालय विश्वनाथ
गोविंद दामोदर माधवेति ॥ 36॥
वृंदावनस्थं हरिमाशु बुद्ध्वा
गोपी गता कापि वनं निशायाम् ।
तत्राप्यदृष्ट्वाऽतिभयादवोचद्
गोविंद दामोदर माधवेति ॥ 37॥
सुखं शयाना निलये निजेऽपि
नामानि विष्णोः प्रवदंति मर्त्याः ।
ते निश्चितं तन्मयतां व्रजंति
गोविंद दामोदर माधवेति ॥ 38॥
सा नीरजाक्षीमवलोक्य राधां
रुरोद गोविंदवियोगखिन्नाम् ।
सखी प्रफुल्लोत्पललोचनाभ्यां
गोविंद दामोदर माधवेति ॥ 39॥
जिह्वे रसज्ञे मधुरप्रिया त्वं
सत्यं हितं त्वां परमं वदामि ।
आवर्णयेथा मधुराक्षराणि
गोविंद दामोदर माधवेति ॥ 40॥
आत्यंतिकव्याधिहरं जनानां
चिकित्सकं वेदविदो वदंति ।
संसारतापत्रयनाशबीजं
गोविंद दामोदर माधवेति ॥ 41॥
ताताज्ञया गच्छति रामचंद्रे
सलक्ष्मणेऽरण्यचये ससीते ।
चक्रंद रामस्य निजा जनित्री
गोविंद दामोदर माधवेति ॥ 42॥
एकाकिनी दंडककाननांतात्
सा नीयमाना दशकंधरेण ।
सीता तदाक्रंददनन्यनाथा
गोविंद दामोदर माधवेति ॥ 43॥
रामाद्वियुक्ता जनकात्मजा सा
विचिंतयंती हृदि रामरूपम् ।
रुरोद सीता रघुनाथ पाहि
गोविंद दामोदर माधवेति ॥ 44॥
प्रसीद विष्णो रघुवंशनाथ
सुरासुराणां सुखदुःखहेतो ।
रुरोद सीता तु समुद्रमध्ये
गोविंद दामोदर माधवेति ॥ 45॥
अंतर्जले ग्राहगृहीतपादो
विसृष्टविक्लिष्टसमस्तबंधुः ।
तदा गजेंद्रो नितरां जगाद
गोविंद दामोदर माधवेति ॥ 46॥
हंसध्वजः शंखयुतो ददर्श
पुत्रं कटाहे प्रतपंतमेनम् ।
पुण्यानि नामानि हरेर्जपंतं
गोविंद दामोदर माधवेति ॥ 47॥
दुर्वाससो वाक्यमुपेत्य कृष्णा
सा चाब्रवीत् काननवासिनीशम् ।
अंतः प्रविष्टं मनसा जुहाव
गोविंद दामोदर माधवेति ॥ 48॥
ध्येयः सदा योगिभिरप्रमेयः
चिंताहरश्चिंतितपारिजातः ।
कस्तूरिकाकल्पितनीलवर्णो
गोविंद दामोदर माधवेति ॥ 49॥
संसारकूपे पतितोऽत्यगाधे
मोहांधपूर्णे विषयाभितप्ते ।
करावलंबं मम देहि विष्णो
गोविंद दामोदर माधवेति ॥ 50॥
भजस्व मंत्रं भवबंधमुक्त्यै
जिह्वे रसज्ञे सुलभं मनोज्ञम् ।
द्वैपायनाद्यैर्मुनिभिः प्रजप्तं
गोविंद दामोदर माधवेति ॥ 51॥
त्वामेव याचे मम देहि जिह्वे
समागते दंडधरे कृतांते ।
वक्तव्यमेवं मधुरं सुभक्त्या
गोविंद दामोदर माधवेति ॥ 52॥
गोपाल वंशीधर रूपसिंधो
लोकेश नारायण दीनबंधो ।
उच्चस्वरैस्त्वं वद सर्वदैव
गोविंद दामोदर माधवेति ॥ 53॥
जिह्वे सदैवं भज सुंदराणि
नामानि कृष्णस्य मनोहराणि ।
समस्तभक्तार्तिविनाशनानि
गोविंद दामोदर माधवेति ॥ 54॥
गोविंद गोविंद हरे मुरारे
गोविंद गोविंद मुकुंद कृष्ण ।
गोविंद गोविंद रथांगपाणे
गोविंद दामोदर माधवेति ॥ 55॥
सुखावसाने त्विदमेव सारं
दुःखावसाने त्विदमेव गेयम् ।
देहावसाने त्विदमेव जाप्यं
गोविंद दामोदर माधवेति ॥ 56॥
दुर्वारवाक्यं परिगृह्य कृष्णा
मृगीव भीता तु कथं कथंचित् ।
सभां प्रविष्टा मनसा जुहाव
गोविंद दामोदर माधवेति ॥ 57॥
श्रीकृष्ण राधावर गोकुलेश
गोपाल गोवर्धन नाथ विष्णो ।
जिह्वे पिबस्वामृतमेतदेव
गोविंद दामोदर माधवेति ॥ 58॥
श्रीनाथ विश्वेश्वर विश्वमूर्ते
श्रीदेवकीनंदन दैत्यशत्रो ।
जिह्वे पिबस्वामृतमेतदेव
गोविंद दामोदर माधवेति ॥ 59॥
गोपीपते कंसरिपो मुकुंद
लक्ष्मीपते केशव वासुदेव ।
जिह्वे पिबस्वामृतमेतदेव
गोविंद दामोदर माधवेति ॥ 60॥
गोपीजनाह्लादकर व्रजेश
गोचारणारण्यकृतप्रवेश ।
जिह्वे पिबस्वामृतमेतदेव
गोविंद दामोदर माधवेति ॥ 61॥
प्राणेश विश्वंभर कैटभारे
वैकुंठ नारायण चक्रपाणे ।
जिह्वे पिबस्वामृतमेतदेव
गोविंद दामोदर माधवेति ॥ 62॥
हरे मुरारे मधुसूदनाद्य
श्रीराम सीतावर रावणारे ।
जिह्वे पिबस्वामृतमेतदेव
गोविंद दामोदर माधवेति ॥ 63॥
श्रीयादवेंद्राद्रिधरांबुजाक्ष
गोगोपगोपीसुखदानदक्ष ।
जिह्वे पिबस्वामृतमेतदेव
गोविंद दामोदर माधवेति ॥ 64॥
धराभरोत्तारणगोपवेष
विहारलीलाकृतबंधुशेष ।
जिह्वे पिबस्वामृतमेतदेव
गोविंद दामोदर माधवेति ॥ 65॥
बकीबकाघासुरधेनुकारे
केशीतृणावर्तविघातदक्ष ।
जिह्वे पिबस्वामृतमेतदेव
गोविंद दामोदर माधवेति ॥ 66॥
श्रीजानकीजीवन रामचंद्र
निशाचरारे भरताग्रजेश ।
जिह्वे पिबस्वामृतमेतदेव
गोविंद दामोदर माधवेति ॥ 67॥
नारायणानंत हरे नृसिंह
प्रह्लादबाधाहर हे कृपालो ।
जिह्वे पिबस्वामृतमेतदेव
गोविंद दामोदर माधवेति ॥ 68॥
लीलामनुष्याकृतिरामरूप
प्रतापदासीकृतसर्वभूप ।
जिह्वे पिबस्वामृतमेतदेव
गोविंद दामोदर माधवेति ॥ 69॥
श्रीकृष्ण गोविंद हरे मुरारे
हे नाथ नारायण वासुदेव ।
जिह्वे पिबस्वामृतमेतदेव
गोविंद दामोदर माधवेति ॥ 70॥
वक्तुं समर्थोऽपि न वक्ति कश्चिद्-
अहो जनानां व्यसनाभिमुख्यम् ।
जिह्वे पिबस्वामृतमेतदेव
गोविंद दामोदर माधवेति ॥ 71॥
इति श्रीबिल्वमंगलाचार्यविरचितं श्रीगोविंददामोदरस्तोत्रं संपूर्णम् ।
सारके विचारिल्ले प्रस्न
What is गोविंद दामोदर स्तोत्रम्?
गोविंद दामोदर स्तोत्रम् is a Sri Krishna Stotrams available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read गोविंद दामोदर स्तोत्रम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download गोविंद दामोदर स्तोत्रम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.