गीतगोविंदं चतुर्थः सर्गः – स्निग्ध मधुसूदनः
॥ चतुर्थः सर्गः ॥
॥ स्निग्धमधुसूदनः ॥
यमुनातीरवानीरनिकुंजे मंदमास्थितम् ।
प्राह प्रेमभरोद्भ्रांतं माधवं राधिकासखी ॥ 25 ॥
॥ गीतं 8 ॥
निंदति चंदनमिंदुकिरणमनु विंदति खेदमधीरम् ।
व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥
सा विरहे तव दीना माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ॥ 1 ॥
अविरलनिपतितमदनशरादिव भवदवनाय विशालम् ।
स्वहृदयर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ 2 ॥
कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् ।
व्रतमिव तव परिरंभसुखाय करोति कुसुमशयनीयम् ॥ 3 ॥
वहति च गलितविलोचनजलभरमाननकमलमुदारम् ।
विधुमिव विकटविधुंतुददंतदलनगलितामृतधारम् ॥ 4 ॥
विलिखति रहसि कुरंगमदेन भवंतमसमशरभूतम् ।
प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ 5 ॥
प्रतिपदमिदमपि निगतति माधव तव चरणे पतिताहम् ।
त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ 6 ॥
ध्यानलयेन पुरः परिकल्प्य भवंतमतीव दुरापम् ।
विलपति हसति विषीदति रोदिति चंचति मुंचति तापम् ॥ 7 ॥
श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् ।
हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ 8 ॥
आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।
सापि त्वद्विरहेण हंत हरिणीरूपायते हा कथं कंदर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ 26 ॥
॥ गीतं 9 ॥
स्तनविनिहितमपि हारमुदारम् ।
सा मनुते कृशतनुरतिभारम् ॥
राधिका विरहे तव केशव ॥ 1 ॥
सरसमसृणमपि मलयजपंकम् ।
पश्यति विषमिव वपुषि सशंकम् ॥ 2 ॥
श्वसितपवनमनुपमपरिणाहम् ।
मदनदहनमिव वहति सदाहम् ॥ 3 ॥
दिशि दिशि किरति सजलकणजालम् ।
नयननलिनमिव विगलितनालम् ॥ 4 ॥
नयनविषयमपि किसलयतल्पम् ।
कलयति विहितहुताशविकल्पम् ॥ 5 ॥
त्यजति न पाणितलेन कपोलम् ।
बालशशिनमिव सायमलोलम् ॥ 6 ॥
हरिरिति हरिरिति जपति सकामम् ।
विरहविहितमरणेन निकामम् ॥ 7 ॥
श्रीजयदेवभणितमिति गीतम् ।
सुखयतु केशवपदमुपुनीतम् ॥ 8 ॥
सा रोमांचति सीत्करोति विलपत्युत्कंपते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि ।
एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नांतकः ॥ 27 ॥
स्मरातुरां दैवतवैद्यहृद्य त्वदंगसंगामृतमात्रसाध्याम् ।
विमुक्तबाधां कुरुषे न राधा-मुपेंद्र वज्रादपि दारुणोऽसि ॥ 28 ॥
कंदर्पज्वरसंज्वरस्तुरतनोराश्चर्यमस्याश्चिरं चेतश्चंदनचंद्रमःकमलिनीचिंतासु संताम्यति ।
किंतु क्लांतिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायंती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ 29 ॥
क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते ।
श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ 30 ॥
॥ इति गीतगोविंदे स्निग्धमाधवो नाम चतुर्थः सर्गः ॥
सारके विचारिल्ले प्रस्न
What is गीतगोविंदं चतुर्थः सर्गः - स्निग्ध मधुसूदनः?
गीतगोविंदं चतुर्थः सर्गः - स्निग्ध मधुसूदनः is a Bhagavad Gita available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read गीतगोविंदं चतुर्थः सर्गः - स्निग्ध मधुसूदनः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download गीतगोविंदं चतुर्थः सर्गः - स्निग्ध मधुसूदनः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.