देवी माहात्म्यं दुर्गा सप्तशति पंचमोऽध्यायः
देव्या दूत संवादो नाम पंचमो ध्यायः ॥
अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः । श्री महासरस्वती देवता । अनुष्टुप्छंधः ।भीमा शक्तिः । भ्रामरी बीजम् । सूर्यस्तत्वम् । सामवेदः । स्वरूपम् । श्री महासरस्वतिप्रीत्यर्थे । उत्तरचरित्रपाठे विनियोगः ॥
ध्यानं
घंटाशूलहलानि शंख मुसले चक्रं धनुः सायकं
हस्ताब्जैर्धदतीं घनांतविलसच्छीतांशुतुल्यप्रभां
गौरी देह समुद्भवां त्रिजगतां आधारभूतां महा
पूर्वामत्र सरस्वती मनुभजे शुंभादिदैत्यार्दिनीं॥
॥ऋषिरुवाच॥ ॥ 1 ॥
पुरा शुंभनिशुंभाभ्यामसुराभ्यां शचीपतेः
त्रैलोक्यं यज्ञ्य भागाश्च हृता मदबलाश्रयात् ॥2॥
तावेव सूर्यतां तद्वदधिकारं तथैंदवं
कौबेरमथ याम्यं चक्रांते वरुणस्य च
तावेव पवनर्द्धिऽं च चक्रतुर्वह्नि कर्मच
ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥3॥
हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता।
महासुराभ्यां तां देवीं संस्मरंत्यपराजितां ॥4॥
तयास्माकं वरो दत्तो यधापत्सु स्मृताखिलाः।
भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥5॥
इतिकृत्वा मतिं देवा हिमवंतं नगेश्वरं।
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥6॥
देवा ऊचुः
नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥6॥
रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः
ज्योत्स्नायै चेंदुरूपिण्यै सुखायै सततं नमः ॥8॥
कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।
नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥9॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥10॥
अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥11॥
यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥12
यादेवी सर्वभूतेषू चेतनेत्यभिधीयते।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥13॥
यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥14॥
यादेवी सर्वभूतेषू निद्रारूपेण संस्थिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥15॥
यादेवी सर्वभूतेषू क्षुधारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥16॥
यादेवी सर्वभूतेषू छायारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥17॥
यादेवी सर्वभूतेषू शक्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥18॥
यादेवी सर्वभूतेषू तृष्णारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥19॥
यादेवी सर्वभूतेषू क्षांतिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥20॥
यादेवी सर्वभूतेषू जातिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥21॥
यादेवी सर्वभूतेषू लज्जारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥22॥
यादेवी सर्वभूतेषू शांतिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥23॥
यादेवी सर्वभूतेषू श्रद्धारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥24॥
यादेवी सर्वभूतेषू कांतिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥25॥
यादेवी सर्वभूतेषू लक्ष्मीरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥26॥
यादेवी सर्वभूतेषू वृत्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥27॥
यादेवी सर्वभूतेषू स्मृतिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥28॥
यादेवी सर्वभूतेषू दयारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥29॥
यादेवी सर्वभूतेषू तुष्टिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥30॥
यादेवी सर्वभूतेषू मातृरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥31॥
यादेवी सर्वभूतेषू भ्रांतिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥32॥
इंद्रियाणामधिष्ठात्री भूतानां चाखिलेषु या।
भूतेषु सततं तस्यै व्याप्ति देव्यै नमो नमः ॥33॥
चितिरूपेण या कृत्स्नमेत द्व्याप्य स्थिता जगत्
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥34॥
स्तुतासुरैः पूर्वमभीष्ट संश्रयात्तथा
सुरेंद्रेण दिनेषुसेविता।
करोतुसा नः शुभहेतुरीश्वरी
शुभानि भद्राण्य भिहंतु चापदः ॥35॥
या सांप्रतं चोद्धतदैत्यतापितै
रस्माभिरीशाचसुरैर्नमश्यते।
याच स्मता तत्क्षण मेव हंति नः
सर्वा पदोभक्तिविनम्रमूर्तिभिः ॥36॥
ऋषिरुवाच॥
एवं स्तवाभि युक्तानां देवानां तत्र पार्वती।
स्नातुमभ्याययौ तोये जाह्नव्या नृपनंदन ॥37॥
साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का
शरीरकोशतश्चास्याः समुद्भूताऽ ब्रवीच्छिवा ॥38॥
स्तोत्रं ममैतत्क्रियते शुंभदैत्य निराकृतैः
देवैः समेतैः समरे निशुंभेन पराजितैः ॥39॥
शरीरकोशाद्यत्तस्याः पार्वत्या निःसृतांबिका।
कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥40॥
तस्यांविनिर्गतायां तु कृष्णाभूत्सापि पार्वती।
कालिकेति समाख्याता हिमाचलकृताश्रया ॥41॥
ततोऽंबिकां परं रूपं बिभ्राणां सुमनोहरम् ।
ददर्श चण्दो मुण्दश्च भृत्यौ शुंभनिशुंभयोः ॥42॥
ताभ्यां शुंभाय चाख्याता सातीव सुमनोहरा।
काप्यास्ते स्त्री महाराज भास यंती हिमाचलम् ॥43॥
नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम्।
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ॥44॥
स्त्री रत्न मतिचार्वंज्गी द्योतयंतीदिशस्त्विषा।
सातुतिष्टति दैत्येंद्र तां भवान् द्रष्टु मर्हति ॥45॥
यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो।
त्रै लोक्येतु समस्तानि सांप्रतं भांतिते गृहे ॥46॥
ऐरावतः समानीतो गजरत्नं पुनर्दरात्।
पारिजात तरुश्चायं तथैवोच्चैः श्रवा हयः ॥47॥
विमानं हंससंयुक्तमेतत्तिष्ठति तेऽंगणे।
रत्नभूत मिहानीतं यदासीद्वेधसोऽद्भुतं ॥48॥
निधिरेष महा पद्मः समानीतो धनेश्वरात्।
किंजल्किनीं ददौ चाब्धिर्मालामम्लानपज्कजां ॥49॥
छत्रं तेवारुणं गेहे कांचनस्रावि तिष्ठति।
तथायं स्यंदनवरो यः पुरासीत्प्रजापतेः ॥50॥
मृत्योरुत्क्रांतिदा नाम शक्तिरीश त्वया हृता।
पाशः सलिल राजस्य भ्रातुस्तव परिग्रहे ॥51॥
निशुंभस्याब्धिजाताश्च समस्ता रत्न जातयः।
वह्निश्चापि ददौ तुभ्य मग्निशौचे च वाससी ॥52॥
एवं दैत्येंद्र रत्नानि समस्तान्याहृतानि ते
स्त्र्री रत्न मेषा कल्याणी त्वया कस्मान्न गृह्यते ॥53॥
ऋषिरुवाच।
निशम्येति वचः शुंभः स तदा चंडमुंडयोः।
प्रेषयामास सुग्रीवं दूतं देव्या महासुरं ॥54॥
इति चेति च वक्तव्या सा गत्वा वचनान्मम।
यथा चाभ्येति संप्रीत्या तथा कार्यं त्वया लघु ॥55॥
सतत्र गत्वा यत्रास्ते शैलोद्दोशेऽतिशोभने।
सादेवी तां ततः प्राह श्लक्ष्णं मधुरया गिरा ॥56॥
दूत उवाच॥
देवि दैत्येश्वरः शुंभस्त्रॆलोक्ये परमेश्वरः।
दूतोऽहं प्रेषि तस्तेन त्वत्सकाशमिहागतः ॥57॥
अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु।
निर्जिताखिल दैत्यारिः स यदाह शृणुष्व तत् ॥58॥
ममत्रैलोक्य मखिलं ममदेवा वशानुगाः।
यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ॥59॥
त्रैलोक्येवररत्नानि मम वश्यान्यशेषतः।
तथैव गजरत्नं च हृतं देवेंद्रवाहनं ॥60॥
क्षीरोदमथनोद्भूत मश्वरत्नं ममामरैः।
उच्चैःश्रवससंज्ञं तत्प्रणिपत्य समर्पितं ॥61॥
यानिचान्यानि देवेषु गंधर्वेषूरगेषु च ।
रत्नभूतानि भूतानि तानि मय्येव शोभने ॥62॥
स्त्री रत्नभूतां तां देवीं लोके मन्या महे वयं।
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयं ॥63॥
मांवा ममानुजं वापि निशुंभमुरुविक्रमम्।
भजत्वं चंचलापाज्गि रत्न भूतासि वै यतः ॥64॥
परमैश्वर्य मतुलं प्राप्स्यसे मत्परिग्रहात्।
एतद्भुद्थ्या समालोच्य मत्परिग्रहतां व्रज ॥65॥
ऋषिरुवाच॥
इत्युक्ता सा तदा देवी गंभीरांतःस्मिता जगौ।
दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥66॥
देव्युवाच॥
सत्य मुक्तं त्वया नात्र मिथ्याकिंचित्त्वयोदितम्।
त्रैलोक्याधिपतिः शुंभो निशुंभश्चापि तादृशः ॥67॥
किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम्।
श्रूयतामल्पभुद्धित्वात् त्प्रतिज्ञा या कृता पुरा ॥68॥
योमां जयति सज्ग्रामे यो मे दर्पं व्यपोहति।
योमे प्रतिबलो लोके स मे भर्ता भविष्यति ॥69॥
तदागच्छतु शुंभोऽत्र निशुंभो वा महासुरः।
मां जित्वा किं चिरेणात्र पाणिंगृह्णातुमेलघु ॥70॥
दूत उवाच॥
अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः।
त्रैलोक्येकः पुमांस्तिष्टेद् अग्रे शुंभनिशुंभयोः ॥71॥
अन्येषामपि दैत्यानां सर्वे देवा न वै युधि।
किं तिष्ठंति सुम्मुखे देवि पुनः स्त्री त्वमेकिका ॥72॥
इंद्राद्याः सकला देवास्तस्थुर्येषां न संयुगे।
शुंभादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥73॥
सात्वं गच्छ मयैवोक्ता पार्श्वं शुंभनिशुंभयोः।
केशाकर्षण निर्धूत गौरवा मा गमिष्यसि॥74॥
देव्युवाच।
एवमेतद् बली शुंभो निशुंभश्चातिवीर्यवान्।
किं करोमि प्रतिज्ञा मे यदनालोचितापुरा ॥75॥
सत्वं गच्छ मयोक्तं ते यदेतत्त्सर्व मादृतः।
तदाचक्ष्वा सुरेंद्राय स च युक्तं करोतु यत् ॥76॥
॥ इति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये देव्या दूत संवादो नाम पंचमो ध्यायः समाप्तम् ॥
आहुति
क्लीं जयंती सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै धूम्राक्ष्यै विष्णुमायादि चतुर्विंशद् देवताभ्यो महाहुतिं समर्पयामि नमः स्वाहा ॥
सारके विचारिल्ले प्रस्न
What is देवी माहात्म्यं दुर्गा सप्तशति पंचमोऽध्यायः?
देवी माहात्म्यं दुर्गा सप्तशति पंचमोऽध्यायः is a Devi Stotrams available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read देवी माहात्म्यं दुर्गा सप्तशति पंचमोऽध्यायः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download देवी माहात्म्यं दुर्गा सप्तशति पंचमोऽध्यायः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.