चर्चा स्तवः


पंचस्तवि – 2 चर्चास्तवः >>

सौंदर्यविभ्रमभुवो भुवनाधिपत्य-
-संकल्पकल्पतरवस्त्रिपुरे जयंति ।
एते कवित्वकुमदप्रकरावबोध-
-पूर्णेंदवस्त्वयि जगज्जननि प्रणामाः ॥ 1 ॥

देवि स्तुतिव्यतिकरे कृतबुद्धयस्ते
वाचस्पति प्रभृतयोऽपि जडी भवंति ।
तस्मान्निसर्गजडिमा कतमोऽहमत्र
स्तोत्रं तव त्रिपुरतापनपत्नि कर्तुम् ॥ 2 ॥

मातस्तथापि भवतीं भवतीव्रताप-
-विच्छित्तये स्तुतिमहार्णव कर्णधारः ।
स्तोतुं भवानि स भवच्चरणारविंद-
-भक्तिग्रहः किमपि मां मुखरी करोति ॥ 3 ॥

सूते जगंति भवती भवती बिभर्ति
जागर्ति तत्क्षयकृते भवती भवानि ।
मोहं भिनत्ति भवती भवती रुणद्धि
लीलायितं जयति चित्रमिदं भवत्याः ॥ 4 ॥

यस्मिन्मनागपि नवांबुजपत्रगौरीं
गौरीं प्रसादमधुरां दृशमादधासि ।
तस्मिन्निरंतरमनंगशरावकीर्ण-
-सीमंतिनीनयनसंततयः पतंति ॥ 5 ॥

पृथ्वीभुजोऽप्युदयनप्रभवस्य तस्य
विद्याधर प्रणति चुंबित पादपीठः ।
तच्चक्रवर्तिपदवीप्रणयः स एषः
त्वत्पादपंकजरजः कणजः प्रसादः ॥ 6 ॥

त्वत्पादपंकजरज प्रणिपातपूर्वैः
पुण्यैरनल्पमतिभिः कृतिभिः कवींद्रैः ।
क्षीरक्षपाकरदुकूलहिमावदाता
कैरप्यवापि भुवनत्रितयेऽपि कीर्तिः ॥ 7 ॥

कल्पद्रुमप्रसवकल्पितचित्रपूजां
उद्दीपित प्रियतमामदरक्तगीतिम् ।
नित्यं भवानि भवतीमुपवीणयंति
विद्याधराः कनकशैलगुहागृहेषु ॥ 8 ॥

लक्ष्मीवशीकरणकर्मणि कामिनीनां
आकर्षणव्यतिकरेषु च सिद्धमंत्रः ।
नीरंध्रमोहतिमिरच्छिदुरप्रदीपो
देवि त्वदंघ्रिजनितो जयति प्रसादः ॥ 9 ॥

देवि त्वदंघ्रिनखरत्नभुवो मयूखाः
प्रत्यग्रमौक्तिकरुचो मुदमुद्वहंति ।
सेवानतिव्यतिकरे सुरसुंदरीणां
सीमंतसीम्नि कुसुमस्तबकायितं यैः ॥ 10 ॥

मूर्ध्नि स्फुरत्तुहिनदीधितिदीप्तिदीप्तं
मध्ये ललाटममरायुधरश्मिचित्रम् ।
हृच्चक्रचुंबि हुतभुक्कणिकानुकारि
ज्योतिर्यदेतदिदमंब तव स्वरूपम् ॥ 11 ॥

रूपं तव स्फुरितचंद्रमरीचिगौरं
आलोकते शिरसि वागधिदैवतं यः ।
निःसीमसूक्तिरचनामृतनिर्झरस्य
तस्य प्रसादमधुराः प्रसरंति वाचः ॥ 12 ॥

सिंदूरपांसुपटलच्छुरितामिव द्यां
त्वत्तेजसा जतुरसस्नपितामिवोर्वीम् ।
यः पश्यति क्षणमपि त्रिपुरे विहाय
व्रीडां मृडानि सुदृशस्तमनुद्रवंति ॥ 13 ॥

मातर्मुहूर्तमपि यः स्मरति स्वरूपं
लाक्षारसप्रसरतंतुनिभं भवत्याः ।
ध्यायंत्यनन्यमनसस्तमनंगतप्ताः
प्रद्युम्नसीम्नि सुभगत्वगुणं तरुण्यः ॥ 14 ॥

योऽयं चकास्ति गगनार्णवरत्नमिंदुः
योऽयं सुरासुरगुरुः पुरुषः पुराणः ।
यद्वाममर्धमिदमंधकसूदनस्य
देवि त्वमेव तदिति प्रतिपादयंति ॥ 15 ॥

इच्छानुरूपमनुरूपगुणप्रकर्ष
संकर्षिणि त्वमभिमृश्य यदा बिभर्षि ।
जायेत स त्रिभुवनैक गुरुस्तदानीं
देवः शिवोऽपि भुवनत्रयसूत्रधारः ॥ 16 ॥

ध्यातासि हैमवति येन हिमांशुरश्मि-
-मालामलद्युतिरकल्मषमानसेन ।
तस्याविलंबमनवद्यमनंतकल्पं
अल्पैर्दिनैः सृजसि सुंदरि वाग्विलासम् ॥ 17 ॥

आधारमारुतनिरोधवशेन येषां
सिंदूररंजितसरोजगुणानुकारि ।
दीप्तं हृदि स्फुरति देवि वपुस्त्वदीयं
ध्यायंति तानिह समीहितसिद्धिसार्थाः ॥ 18 ॥

ये चिंतयंत्यरुणमंडलमध्यवर्ति
रूपं तवांब नवयावकपंकपिंगम् ।
तेषां सदैव कुसुमायुधबाणभिन्न-
-वक्षःस्थला मृगदृशो वशगा भवंति ॥ 19 ॥

त्वामैंदवीमिव कलामनुफालदेशं
उद्भासितांबरतलामवलोकयंतः ।
सद्यो भवानि सुधियः कवयो भवंति
त्वं भावनाहितधियां कुलकामधेनुः ॥ 20 ॥

शर्वाणि सर्वजनवंदितपादपद्मे
पद्मच्छदद्युतिविडंबितनेत्रलक्ष्मि ।
निष्पापमूर्तिजनमानसराजहंसि
हंसि त्वमापदमनेकविधां जनस्य ॥ 21 ॥

उत्तप्तहेमरुचिरे त्रिपुरे पुनीहि
चेतश्चिरंतनमघौघवनं लुनीहि ।
कारागृहे निगलबंधनयंत्रितस्य
त्वत्संस्मृतौ झटिति मे निगलास्त्रुटंति ॥ 22 ॥

त्वां व्यापिनीति सुमना इति कुंडलीति
त्वां कामिनीति कमलेति कलावतीति ।
त्वां मालिनीति ललितेत्यपराजितेति
देवि स्तुवंति विजयेति जयेत्युमेति ॥ 23 ॥

उद्दामकामपरमार्थसरोजखंड-
चंडद्युतिद्युतिमपासितषड्विकाराम् ।
मोहद्विपेंद्रकदनोद्यतबोधसिंह-
-लीलागुहां भगवतीं त्रिपुरां नमामि ॥ 24 ॥

गणेशवटुकस्तुता रतिसहायकामान्विता
स्मरारिवरविष्टरा कुसुमबाणबाणैर्युता ।
अनंगकुसुमादिभिः परिवृता च सिद्धैस्त्रिभिः
कदंबवनमध्यगा त्रिपुरसुंदरी पातु नः ॥ 25 ॥

रुद्राणि विद्रुममयीं प्रतिमामिव त्वां
ये चिंतयंत्यरुणकांतिमनन्यरूपाम् ।
तानेत्य पक्ष्मलदृशः प्रसभं भजंते
कंठावसक्तमृदुबाहुलतास्तरुण्यः ॥ 26 ॥

त्वद्रूपैकनिरूपणप्रणयिताबंधो दृशोस्त्वद्गुण-
-ग्रामाकर्णनरागिता श्रवणयोस्त्वत्संस्मृतिश्चेतसि ।
त्वत्पादार्चनचातुरी करयुगे त्वत्कीर्तितं वाचि मे
कुत्रापि त्वदुपासनव्यसनिता मे देवि मा शाम्यतु ॥ 27 ॥

त्वद्रूपमुल्लसितदाडिमपुष्परक्तं
उद्भावयेन्मदनदैवतमक्षरं यः ।
तं रूपहीनमपि मन्मथनिर्विशेषं
आलोकयंत्युरुनितंबतटास्तरुण्यः ॥ 28 ॥

ब्रह्मेंद्ररुद्रहरिचंद्रसहस्ररश्मि-
-स्कंदद्विपाननहुताशनवंदितायै ।
वागीश्वरि त्रिभुवनेश्वरि विश्वमातः
अंतर्बहिश्च कृतसंस्थितये नमस्ते ॥ 29 ॥

कस्तोत्रमेतदनुवासरमीश्वरायाः
श्रेयस्करं पठति वा यदि वा शृणोति ।
तस्येप्सितं फलति राजभिरीड्यतेऽसौ
जायेत स प्रियतमो मदिरेक्षणानाम् ॥ 30 ॥

इति श्रीकालिदास विरचित पंचस्तव्यां द्वितीयः चर्चास्तवः ।

सारके विचारिल्ले प्रस्न

What is चर्चा स्तवः?

चर्चा स्तवः is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Konkani. Use the language selector to view another available edition.

Can I read चर्चा स्तवः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download चर्चा स्तवः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook