चाणक्य नीति – पंचदशोऽध्यायः


यस्य चित्तं द्रवीभूतं कृपया सर्वजंतुषु ।
तस्य ज्ञानेन मोक्षेण किं जटाभस्मलेपनैः ॥ 01 ॥

एकमप्यक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् ।
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृणी भवेत् ॥ 02 ॥

खलानां कंटकानां च द्विविधैव प्रतिक्रिया ।
उपानन्मुखभंगो वा दूरतो वा विसर्जनम् ॥ 02 ॥

कुचैलिनं दंतमलोपधारिणं
बह्वाशिनं निष्ठुरभाषिणं च ।
सूर्योदये चास्तमिते शयानं
विमुंचति श्रीर्यदि चक्रपाणिः ॥ 04 ॥

त्यजंति मित्राणि धनैर्विहीनं
पुत्राश्च दाराश्च सुहृज्जनाश्च ।
तमर्थवंतं पुनराश्रयंति
अर्थो हि लोके मनुष्यस्य बंधुः ॥ 05 ॥

अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति ।
प्राप्ते चैकादशे वर्षे समूलं तद्विनश्यति ॥ 06 ॥

अयुक्तं स्वामिनो युक्तं युक्तं नीचस्य दूषणम् ।
अमृतं राहवे मृत्युर्विषं शंकरभूषणम् ॥ 07 ॥

तद्भोजनं यद्द्विजभुक्तशेषं
तत्सौहृदं यत्क्रियते परस्मिन् ।
सा प्राज्ञता या न करोति पापं
दंभं विना यः क्रियते स धर्मः ॥ 08 ॥

मणिर्लुंठति पादाग्रे काचः शिरसि धार्यते ।
क्रयविक्रयवेलायां काचः काचो मणिर्मणिः ॥ 09 ॥

अनंतशास्त्रं बहुलाश्च विद्याः
स्वल्पश्च कालो बहुविघ्नता च ।
यत्सारभूतं तदुपासनीयां
हंसो यथा क्षीरमिवांबुमध्यात् ॥ 10 ॥

दूरागतं पथि श्रांतं वृथा च गृहमागतम् ।
अनर्चयित्वा यो भुंक्ते स वै चांडाल उच्यते ॥ 11 ॥

पठंति चतुरो वेदांधर्मशास्त्राण्यनेकशः ।
आत्मानं नैव जानंति दर्वी पाकरसं यथा ॥ 12 ॥

धन्या द्विजमयी नौका विपरीता भवार्णवे ।
तरंत्यधोगताः सर्वे उपरिष्ठाः पतंत्यधः ॥ 13 ॥

अयममृतनिधानं नायकोऽप्योषधीनाम्
अमृतमयशरीरः कांतियुक्तोऽपि चंद्रः ।
भवतिविगतरश्मिर्मंडलं प्राप्य भानोः
परसदननिविष्टः को लघुत्वं न याति ॥ 14 ॥

अलिरयं नलिनीदलमध्यगः
कमलिनीमकरंदमदालसः ।
विधिवशात्परदेशमुपागतः
कुटजपुष्परसं बहु मन्यते ॥ 15 ॥

पीतः क्रुद्धेन तातश्चरणतलहतो वल्लभो येन रोषा
दाबाल्याद्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे ।
गेहं मे छेदयंति प्रतिदिवसमुमाकांतपूजानिमित्तं
तस्मात्खिन्ना सदाहं द्विजकुलनिलयं नाथ युक्तं त्यजामि ॥ 16 ॥

बंधनानि खलु संति बहूनि
प्रेमरज्जुकृतबंधनमन्यत् ।
दारुभेदनिपुणोऽपि षडंघ्रि-
र्निष्क्रियो भवति पंकजकोशेः ॥ 17 ॥

छिन्नोऽपि चंदन तरुर्न जहाति गंधं
वृद्धोऽपि वारणपति-र्नजहाति लीलाम् ।
हंत्रार्पितो मधुरतां न जहाति चेक्षुः
क्षीणोऽपि न त्यजति शिलगुणान् कुलीनः ॥ 18 ॥

सारके विचारिल्ले प्रस्न

What is चाणक्य नीति - पंचदशोऽध्यायः?

चाणक्य नीति - पंचदशोऽध्यायः is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Konkani. Use the language selector to view another available edition.

Can I read चाणक्य नीति - पंचदशोऽध्यायः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download चाणक्य नीति - पंचदशोऽध्यायः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook