भर्तृहरेः शतक त्रिशति – वैराग्य शतकम्


चूडोत्तंसितचंद्रचारुकलिकाचंचच्छिखाभास्वरो
लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।
अंतःस्फूर्जद्​अपारमोहतिमिरप्राग्भारं उच्चाटयन्
चेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ 3.1 ॥

भ्रांतं देशं अनेकदुर्गविषमं प्राप्तं न किंचित्फलं
त्यक्त्वा जातिकुलाभिमानं उचितं सेवा कृता निष्फला ।
भुक्तं मानविवर्जितं परगृहेष्वाशंकया काकवत्
तृष्णे जृंभसि पापकर्मपिशुने नाद्यापि संतुष्यसि ॥ 3.2 ॥

उत्खातं निधिशंकया क्षितितलं ध्माता गिरेर्धातवो
निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन संतोषिताः ।
मंत्राराधनतत्परेण मनसा नीताः श्मशाने निशाः
प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव ॥ 3.3 ॥

खलालापाः सोढाः कथं अपि तद्​आराधनपरैर्निगृह्यांतर्
बाष्पं हसितं अपि शून्येन मनसा ।
कृतो वित्तस्तंभप्रतिहतधियां अंजलिरपि
त्वं आशे मोघाशे किम अपरं अतो नर्तयसि माम् ॥ 3.4 ॥

अमीषां प्राणानां तुलितविसिनीपत्रपयसां
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।
यद्​आढ्यानां अग्रे द्रविणमदनिःसंज्ञमनसां
कृतं वीतव्रीडैर्निजगुणकथापातकं अपि ॥ 3.5 ॥

क्षांतं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः
सोढो दुःसहशीततापपवनक्लेशो न तप्तं तपः ।
ध्यातं वित्तं अहर्निशं नित्यमितप्राणैर्न शंभोः पदं
तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वंचिताः ॥ 3.6 ॥

भोगा न भुक्ता वयं एव भुक्तास्
तपो न तप्तं वयं एव तप्ताः ।
कालो न यातो वयं एव यातास्तृष्णा
न जीर्णा वयं एव जीर्णाः ॥ 3.7 ॥

बलिभिर्मुखं आक्रांतं पलितेनांकितं शिरः ।
गात्राणि शिथिलायंते तृष्णैका तरुणायते ॥ 3.8 ॥

विवेकव्याकोशे विदधति समे शाम्यति तृषा
परिष्वंगे तुंगे प्रसरतितरां सा परिणता ।
जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपणस्तृषापात्रं
यस्यां भवति मरुतां अप्यधिपतिः ॥ 3.8.1 ॥

निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलितः
समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः ।
शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने
अहो मूढः कायस्तदपि मरणापायचकितः ॥ 3.9 ॥

आशा नाम नदी मनोरथजला तृष्णातरंगाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुंगचिंतातटी
तस्याः पारगता विशुद्धमनसो नंदंति योगीश्वराः ॥ 3.10 ॥

न संसारोत्पन्नं चरितं अनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः ।
महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया
महांतो जायंते व्यसनं इव दातुं विषयिणाम् ॥ 3.11 ॥

अवश्यं यातारश्चिरतरं उषित्वापि विषया
वियोगे को भेदस्त्यजति न जनो यत्स्वयं अमून् ।
व्रजंतः स्वातंत्र्यादतुलपरितापाय मनसः
स्वयं त्यक्ता ह्येते शमसुखं अनंतं विदधति ॥ 3.12 ॥

ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वंत्यहो दुष्करं
यन्मुंचंत्युपभोगभांज्यपि धनान्येकांततो निःस्पृहाः ।
संप्राप्तान्न पुरा न संप्रति न च प्राप्तौ दृढप्रत्ययान्
वांछामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥ 3.13 ॥

धन्यानां गिरिकंदरेषु वसतां ज्योतिः परं ध्यायतामानंदाश्रु
जलं पिबंति शकुना निःशंकं अंकेशयाः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडा
काननकेलिकौतुकजुषां आयुः परं क्षीयते ॥ 3.14 ॥

भिक्षाशनं तदपि नीरसं एकवारं
शय्या च भूः परिजनो निजदेहमात्रम् ।
वस्त्रं विशीर्णशतखंडमयी च कंथा
हा हा तथापि विषया न परित्यजंति ॥ 3.15 ॥

स्तनौ मांसग्रंथी कनककलशावित्युपमितौ
मुखं श्लेष्मागारं तदपि च शशांकेन तुलितम् ।
स्रवन्मूत्रक्लिन्नं करिवरशिरस्पर्धि जघनं
मुहुर्निंद्यं रूपं कविजनविशेषैर्गुरुकृतम् ॥ 3.16 ॥

एको रागिषु राजते प्रियतमादेहार्धहारी हरो
नीरागेषु जनो विमुक्तललनासंगो न यस्मात्परः ।
दुर्वारस्मरबाणपन्नगविषव्याविद्धमुग्धो जनः
शेषः कामविडंबितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ॥ 3.17 ॥

अजानंदाहात्म्यं पततु शलभस्तीव्रदहने
स मीनोऽप्यज्ञानाद्बडिशयुतं अश्नातु पिशितम् ।
विजानंतोऽप्येते वयं इह विपज्जालजटिलान्
न मुंचामः कामान् अहह गहनो मोहमहिमा ॥ 3.18 ॥

तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं
क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितम् ।
प्रदीप्ते कामाग्नौ सुदृढतरं आलिंगति वधूं
प्रतीकारं व्याधेः सुखं इति विपर्यस्यति जनः ॥ 3.19 ॥

तुंगं वेश्म सुताः सतां अभिमताः संख्यातिगाः संपदः
कल्याणी दयिता वयश्च नवं इत्यज्ञानमूढो जनः ।
मत्वा विश्वं अनश्वरं निविशते संसारकारागृहे
संदृश्य क्षणभंगुरं तदखिलं धन्यस्तु सन्न्यस्यति ॥ 3.20 ॥

दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णांबरा
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।
याच्ञाभंगभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ 3.21 ॥

अभिमतमहामानग्रंथिप्रभेदपटीयसी
गुरुतरगुणग्रामांभोजस्फुटोज्ज्वलचंद्रिका ।
विपुलविलसल्लज्जावल्लीवितानकुठारिका
जठरपिठरी दुष्पूरेयं करोति विडंबनम् ॥ 3.22 ॥

पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपालिं
ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकंठे ।
द्वारं द्वारं प्रविष्टो वरं उदरदरीपूरणाय क्षुधार्तो
मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥ 3.23 ॥

गंगातरंगकणशीकरशीतलानि
विद्याधराध्युषितचारुशिलातलानि ।
स्थानानि किं हिमवतः प्रलयं गतानि
यत्सावमानपरपिंडरता मनुष्याः ॥ 3.24 ॥

किं कंदाः कंदरेभ्यः प्रलयं उपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः ।
वीक्ष्यंते यन्मुखानि प्रसभं अपगतप्रश्रयाणां खलानां
दुःखाप्तस्वल्पवित्तस्मयपवनवशान्नर्तितभ्रूलतानि ॥ 3.25 ॥

पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना
भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनम् ।
क्षुद्राणां अविवेकमूढमनसां यत्रेश्वराणां सदा
वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ 3.26 ॥

फलं स्वेच्छालभ्यं प्रतिवनं अखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
सहंते संतापं तदपि धनिनां द्वारि कृपणाः ॥ 3.27 ॥

ये वर्तंते धनपतिपुरः प्रार्थनादुःखभाजो
ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः ।
तेषां अंतःस्फुरितहसितं वासराणि स्मरेयं
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ 3.28 ॥

ये संतोषनिरंतरप्रमुदितास्तेषां न भिन्ना मुदो
ये त्वन्ये धनलुब्धसंकुलधियस्तेषां न तृष्णाहता ।
इत्थं कस्य कृते कुतः स विधिना कीदृक्पदं संपदां [कृतः]
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ 3.29 ॥

भिक्षाहारं अदैन्यं अप्रतिसुखं भीतिच्छिदं सर्वतो
दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् ।
सर्वत्रान्वहं अप्रयत्नसुलभं साधुप्रियं पावनं
शंभोः सत्रं अवार्यं अक्षयनिधिं शंसंति योगीश्वराः ॥ 3.30 ॥

भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं
माने दैन्यभयं बले रिपुभयं रूपे जराया भयम् ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतांताद्भयं
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥ 3.31 ॥

आक्रांतं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं
संतोषो धनलिप्सया शमसुखं प्रौढांगनाविभ्रमैः ।
लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैर्
अस्थैर्येण विभूतयोऽप्यपहता ग्रस्तं न किं केन वा ॥ 3.32 ॥

आधिव्याधिशतैर्जनस्य विविधैरारोग्यं उन्मूल्यते
लक्ष्मीर्यत्र पतंति तत्र विवृतद्वारा इव व्यापदः ।
जातं जातं अवश्यं आशु विवशं मृत्युः करोत्यात्मसात्
तत्किं तेन निरंकुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ 3.33 ॥

भोगास्तुंगतरंगभंगतरलाः प्राणाः क्षणध्वंसिनः
स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः प्रियासु स्थिता ।
तत्संसारं असारं एव निखिलं बुद्ध्वा बुधा बोधका
लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ 3.34 ॥

भोगा मेघवितानमध्यविलसत्सौदामिनीचंचला
आयुर्वायुविघट्टिताब्जपटलीलीनांबुवद्भंगुरम् ।
लीला यौवनलालसास्तनुभृतां इत्याकलय्य द्रुतं
योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः ॥ 3.35 ॥

आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीः
अर्थाः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः ।
कंठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवभयांभोधिपारं तरीतुम् ॥ 3.36 ॥

कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे
कांताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः ।
वामाक्षीणां अवज्ञाविहसितवसतिर्वृद्धभावोऽप्यसाधुः
संसारे रे मनुष्या वदत यदि सुखं स्वल्पं अप्यस्ति किंचित् ॥ 3.37 ॥

व्याघ्रीव तिष्ठति जरा परितर्जयंती
रोगाश्च शत्रव इव प्रहरंति देहम् ।
आयुः परिस्रवति भिन्नघटादिवांभो
लोकस्तथाप्यहितं आचरतीति चित्रम् ॥ 3.38 ॥

भोगा भंगुरवृत्तयो बहुविधास्तैरेव चायं भवस्तत्
कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः ।
आशापाशशतोपशांतिविशदं चेतःसमाधीयतां
कामोत्पत्तिवशात्स्वधामनि यदि श्रद्धेयं अस्मद्वचः ॥ 3.39 ॥

सखे धन्याः केचित्त्रुटितभवबंधव्यतिकरा
वनांते चित्तांतर्विषमविषयाशीविषगताः ।
शरच्चंद्रज्योत्स्नाधवलगगनाभोगसुभगां
नयंते ये रात्रिं सुकृतचयचिंतैकशरणाः ॥ 3.39.1 ॥

ब्रह्मेंद्रादिमरुद्गणांस्तृणकणान्यत्र स्थितो मन्यते
यत्स्वादाद्विरसा भवंति विभवास्त्रैलोक्यराज्यादयः ।
भोगः कोऽपि स एव एकः परमो नित्योदितो जृंभते
भोः साधो क्षणभंगुरे तदितरे भोगे रतिं मा कृथाः ॥ 3.40 ॥

सा रम्या नगरी महान्स नृपतिः सामंतचक्रं च तत्
पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चंद्रबिंबाननाः ।
उद्वृत्तः स राजपुत्रनिवहस्ते वंदिनस्ताः कथाः
सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ 3.41 ॥

यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको
यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चांते ।
इत्थं नेयौ रजनिदिवसौ लोलयंद्वाविवाक्षौ
कालः कल्यो भुवनफलके क्रीडति प्राणिशारैः ॥ 3.42 ॥

आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं
व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते ।
दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयीं प्रमादमदिरां उन्मत्तभूतं जगत् ॥ 3.43 ॥

रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जंतवो
धावंत्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः ।
व्यापारैः पुनर्​उक्तभूतविषयैरित्थं विधेनामुना
संसारेण कदर्थिता वयं अहो मोहान्न लज्जामहे ॥ 3.44 ॥

न ध्यातं पदं ईश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिंगितं
मातुः केवलं एव यौवनवनच्छेदे कुठारा वयम् ॥ 3.45 ॥

नाभ्यस्ता प्रतिवादिवृंददमनी विद्या विनीतोचिता
खड्गाग्रैः करिकुंभपीठदलनैर्नाकं न नीतं यशः ।
कांताकोमलपल्लवाधररसः पीतो न चंद्रोदये
तारुण्यं गतं एव निष्फलं अहो शून्यालये दीपवत् ॥ 3.46 ॥

विद्या नाधिगता कलंकरहिता वित्तं च नोपार्जितं
शुश्रूषापि समाहितेन मनसा पित्रोर्न संपादिता ।
आलोलायतलोचनाः प्रियतमाः स्वप्नेऽपि नालिंगिताः
कालोऽयं परपिंडलोलुपतया काकैरिव प्रेर्यते ॥ 3.47 ॥

वयं येभ्यो जाताश्चिरपरिगता एव खलु ते
समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः ।
इदानीं एते स्मः प्रतिदिवसं आसन्नपतना
गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥ 3.48 ॥

आयुर्वर्षशतं नृणां परिमितं रात्रौ तद्​अर्धं गतं
तस्यार्धस्य परस्य चार्धं अपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरंगचंचलतरे सौख्यं कुतः प्राणिनाम् ॥ 3.49 ॥

क्षणं बालो भूत्वा क्षणं अपि युवा कामरसिकः
क्षणं वित्तैर्हीनः क्षणं अपि च संपूर्णविभवः ।
जराजीर्णैरंगैर्नट इव वलीमंडिततनूर्
नरः संसारांते विशति यमधानीयवनिकाम् ॥ 3.50 ॥

त्वं राजा वयं अप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वंति नः ।
इत्थं मानधनातिदूरं उभयोरप्यावयोरंतरं
यद्यस्मासु पराङ्मुखोऽसि वयं अप्येकांततो निःस्पृहाः ॥ 3.51 ॥

अर्थानां ईशिषे त्वं वयं अपि च गिरां ईश्महे यावदर्थं
शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः ।
सेवंते त्वां धनाढ्या मतिमलहतये मां अपि श्रोतुकामाः ।
मय्यप्यास्था न ते चेत्त्वयि मम नितरां एव राजन्ननास्था ॥ 3.52 ॥

वयं इह परितुष्टा वल्कलैस्त्वं दुकूलैः
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥ 3.53 ॥

फलं अलं अशनाय स्वादु पानाय तोयं
क्षितिरपि शयनार्थं वाससे वल्कलं च ।
नवधनमधुपानभ्रांतसर्वेंद्रियाणां
अविनयं अनुमंतुं नोत्सहे दुर्जनानाम् ॥ 3.54 ॥

अश्नीमहि वयं भिक्षां आशावासो वसीमहि ।
शयीमहि महीपृष्ठे कुर्वीमहि किं ईश्वरैः ॥ 3.55 ॥

न नटा ना विटा न गायका न च सभ्येतरवादचुंचवः ।
नृपं ईक्षितुं अत्र के वयं स्तनभारानमिता न योषितः ॥ 3.56 ॥

विपुलहृदयैरीशैरेतज्जगज्जनितं पुरा
विधृतं अपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।
इह हि भुवनान्यन्यैर्धीराश्चतुर्दश भुंजते
कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ 3.57 ॥

अभुक्तायां यस्यां क्षणं अपि न यातं नृपशतैर्
भुवस्तस्या लाभे क इव बहुमानः क्षितिभृताम् ।
तद्​अंशस्याप्यंशे तद्​अवयवलेशेऽपि पतयो
विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ 3.58 ॥

मृत्पिंडो जलरेखया वलयितः सर्वोऽप्ययं नन्वणुः
स्वांशीकृत्य स एव संगरशतै राज्ञां गणा भुंजते । [तमेव]
ये दद्युर्ददतोऽथवा किं अपरं क्षुद्रा दरिद्रा भृशं
धिग्धिक्तान्पुरुषाधमांधनकणान्वांछंति तेभ्योऽपि ये ॥ 3.59 ॥

स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं
कपालं यस्योच्चैर्विनिहितं अलंकारविधये ।
नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना
नमद्भिः कः पुंसां अयं अतुलदर्पज्वरभरः ॥ 3.60 ॥

परेषां चेतांसि प्रतिदिवसं आराध्य बहुधा
प्रसादं किं नेतुं विशसि हृदय क्लेशकलितम् ।
प्रसन्ने त्वय्यंतःस्वयमुदितचिंतामणिगणो
विविक्तः संकल्पः किं अभिलषितं पुष्यति न ते ॥ 3.61 ॥

सत्यां एव त्रिलोकीसरिति हरशिरश्चुंबिनीवच्छटायां
सद्वृत्तिं कल्पयंत्यां वटविटपभवैर्वल्कलैः सत्फलैश्च ।
कोऽयं विद्वान्विपत्तिज्वरजनितरुजातीवदुःखासिकानां
वक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात्स्वे कुटुंबेऽनुकंपाम् ॥ 3.61.1 ॥

परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां
स्वयं भवति यद्यथा भवति तत्तथा नान्यथा ।
अतीतं अननुस्मरन्नपि च भाव्यसंकल्पयन्नतर्कित
समागमाननुभवामि भोगानहम् ॥ 3.62 ॥

एतस्माद्विरमेंद्रियार्थगहनादायासकादाश्रयश्रेयो
मार्गं अशेषदुःखशमनव्यापारदक्षं क्षणात् ।
स्वात्मीभावं उपैहि संत्यज निजां कल्लोललोलां गतिं
मा भूयो भज भंगुरां भवरतिं चेतः प्रसीदाधुना ॥ 3.63 ॥

मोहं मार्जय तां उपार्जय रतिं चंद्रार्धचूडामणौ
चेतः स्वर्गतरंगिणीतटभुवां आसंगं अंगीकुरु ।
को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च
ज्वालाग्रेषु च पन्नगेषु सरिद्वेगेषु च प्रत्ययः ॥ 3.64 ॥

चेतश्चिंतय मा रमां सकृदिमां अस्थायिनीं आस्थया
भूपालभ्रुकुटीकुटीविहरणव्यापारपण्यांगनाम् ।
कंथाकंचुकिनः प्रविश्य भवनद्वाराणि वाराणसीरथ्या
पंक्तिषु पाणिपात्रपतितां भिक्षां अपेक्षामहे ॥ 3.65 ॥

अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः
पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम् ।
यद्यस्त्येवं कुरु भवरसास्वादने लंपटत्वं
नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ 3.66 ॥

प्राप्ताः श्रियः सकलकामदुघास्ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
संपादिताः प्रणयिनो विभवैस्ततः किं
कल्पं स्थितास्तनुभृतां तनवस्ततः किम् ॥ 3.67 ॥

भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बंधुषु न मन्मथजा विकाराः ।
संसर्ग दोषरहिता विजना वनांता
वैराग्यं अस्ति किं इतः परमर्थनीयम् ॥ 3.68 ॥

तस्मादनंतं अजरं परमं विकासि
तद्ब्रह्म चिंतय किं एभिरसद्विकल्पैः ।
यस्यानुषंगिण इमे भुवनाधिपत्यभोगादयः
कृपणलोकमता भवंति ॥ 3.69 ॥

पातालं आविशसि यासि नभो विलंघ्य
दिङ्मंडलं भ्रमसि मानस चापलेन ।
भ्रांत्यापि जातु विमलं कथं आत्मनीनं
न ब्रह्म संस्मरसि निर्वृतिं एषि येन ॥ 3.70 ॥

किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः
स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।
मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं
स्वात्मानंदपदप्रवेशकलनं शेशैर्वणिग्वृत्तिभिः ॥ 3.71 ॥

नायं ते समयो रहस्यं अधुना निद्राति नाथो यदि
स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः ।
चेतस्तानपहाय याहि भवनं देवस्य विश्वेशितुर्
निर्दौवारिकनिर्दयोक्त्य्​अपरुषं निःसीमशर्मप्रदम् ॥ 3.71.1 ॥

यतो मेरुः श्रीमान्निपतति युगांताग्निवलितः
समुद्राः शुष्यंति प्रचुरमकरग्राहनिलयाः ।
धरा गच्छत्यंतं धरणिधरपादैरपि धृता
शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ 3.72 ॥

गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दंतावलिर्
दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते ।
वाक्यं नाद्रियते च बांधवजनो भार्या न शुश्रूषते
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ 3.73 ॥

वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां
स्थानं जरापरिभवस्य तदा पुमांसम् ।
आरोपितास्थिशतकं परिहृत्य यांति
चंडालकूपं इव दूरतरं तरुण्यः ॥ 3.74 ॥

यावत्स्वस्थं इदं शरीरं अरुजं यावच्च दूरे जरा
यावच्चेंद्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ 3.75 ॥

तपस्यंतः संतः किं अधिनिवसामः सुरनदीं
गुणोदारांदारानुत परिचरामः सविनयम् ।
पिबामः शास्त्रौघानुतविविधकाव्यामृतरसान्
न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ 3.76 ॥

दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजो
वयं तु स्थूलेच्छाः सुमहति फले बद्धमनसः ।
जरा देहं मृत्युर्हरति दयितं जीवितं इदं
सखे नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः ॥ 3.77 ॥

माने म्लायिनि खंडिते च वसुनि व्यर्थे प्रयातेऽर्थिनि
क्षीणे बंधुजने गते परिजने नष्टे शनैर्यौवने ।
युक्तं केवलं एतदेव सुधियां यज्जह्नुकन्यापयःपूतग्राव
गिरींद्रकंदरतटीकुंजे निवासः क्वचित् ॥ 3.78 ॥

रम्याश्चंद्रमरीचयस्तृणवती रम्या वनांतस्थली
रम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः ।
कोपोपाहितबाष्पबिंदुतरलं रम्यं प्रियाया मुखं
सर्वं रम्यं अनित्यतां उपगते चित्ते न किंचित्पुनः ॥ 3.79 ॥

रम्यं हर्म्यतलं न किं वसतये श्राव्यं न गेयादिकं
किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।
किंतु भ्रांतपतंगपक्षपवनव्यालोलदीपांकुरच्छाया
चंचलं आकलय्य सकलं संतो वनांतं गताः ॥ 3.80 ॥

आ संसारात्त्रिभुवनं इदं चिन्वतां तात तादृङ्नैवास्माकं
नयनपदवीं श्रोत्रमार्गं गतो वा ।
योऽयं धत्ते विषयकरिणो गाढगूढाभिमानक्षीवस्यांतः [विषयकरिणीगाढगूढाभिमानक्षीवस्यांतः]
करणकरिणः संयमालानलीलाम् ॥ 3.81 ॥

यदेतत्स्वच्छंदं विहरणं अकार्पण्यं अशनं
सहार्यैः संवासः श्रुतं उपशमैकव्रतफलम् ।
मनो मंदस्पंदं बहिरपि चिरस्यापि विमृशन्न
जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ 3.82 ॥

जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं
हंतांगेषु गुणाश्च वंध्यफलतां याता गुणज्ञैर्विना ।
किं युक्तं सहसाभ्युपैति बलवान्कालः कृतांतोऽक्षमी
हा ज्ञातं मदनांतकांघ्रियुगलं मुक्त्वास्ति नान्या गतिः ॥ 3.83 ॥

महेश्वरे वा जगतां अधीश्वरे
जनार्दने वा जगद्​अंतरात्मनि ।
न वस्तुभेदप्रतिपत्तिरस्ति मे
तथापि भक्तिस्तरुणेंदुशेखरे ॥ 3.84 ॥

स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने
सुखासीनाः शांतध्वनिषु रजनीषु द्युसरितः ।
भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः
कदा यास्यामोऽंतर्गतबहुलबाष्पाकुलदशाम् ॥ 3.85 ॥

महादेवो देवः सरिदपि च सैषा सुरसरिद्गुहा
एवागारं वसनं अपि ता एव हरितः ।
सुहृदा कालोऽयं व्रतं इदं अदैन्यव्रतं इदं
कियद्वा वक्ष्यामो वटविटप एवास्तु दयिता ॥ 3.85.1 ॥

वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः
स्मरंतः संसारे विगुणपरिणामां विधिगतिम् ।
वयं पुण्यारण्ये परिणतशरच्चंद्रकिरणास्
त्रियामा नेष्यामो हरचरणचिंतैकशरणाः ॥ 3.86 ॥

कदा वाराणस्यां अमरतटिनीरोधसि वसन्
वसानः कौपीनं शिरसि निदधानोऽंजलिपुटम् ।
अये गौरीनाथ त्रिपुरहर शंभो त्रिनयन
प्रसीदेत्याक्रोशन्निमिषं इव नेष्यामि दिवसान् ॥ 3.87 ॥

उद्यानेषु विचित्रभोजनविधिस्तीव्रातितीव्रं तपः
कौपीनावरणं सुवस्त्रं अमितं भिक्षाटनं मंडनम् ।
आसन्नं मरणं च मंगलसमं यस्यां समुत्पद्यते
तां काशीं परिहृत्य हंत विबुधैरन्यत्र किं स्थीयते ॥ 3.87.1 ॥

स्नात्वा गांगैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वां
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यंकमूले ।
आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ॥ 3.88 ॥

एकाकी निःस्पृहः शांतः पाणिपात्रो दिगंबरः ।
कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥ 3.89 ॥

पाणिं पात्रयतां निसर्गशुचिना भैक्षेण संतुष्यतां
यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ।
अत्यागेऽपि तनोरखंडपरमानंदावबोधस्पृशा
मध्वा कोऽपि शिवप्रसादसुलभः संपत्स्यते योगिनाम् ॥ 3.90 ॥

कौपीनं शतखंडजर्जरतरं कंथा पुनस्तादृशी
नैश्चिंत्यं निरपेक्षभैक्ष्यं अशनं निद्रा श्मशाने वने ।
स्वातंत्र्येण निरंकुशं विहरणं स्वांतं प्रशांतं सदा
स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम् ॥ 3.91 ॥

ब्रह्मांडं मंडलीमात्रं किं लोभाय मनस्विनः ।
शफरीस्फुरितेनाब्धिः क्षुब्धो न खलु जायते ॥ 3.92 ॥

मातर्लक्ष्मि भजस्व कंचिदपरं मत्कांक्षिणी मा स्म भूर्
भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणां असि ।
सद्यः स्यूतपलाशपत्रपुटिकापात्रैः पवित्रीकृतैर्
भिक्षावस्तुभिरेव संप्रति वयं वृत्तिं समीहामहे ॥ 3.93 ॥

महाशय्या पृथ्वी विपुलं उपधानं भुजलता
वितानं चाकाशं व्यजनं अनुकूलोऽयं अनिलः ।
शरच्चंद्रो दीपो विरतिवनितासंगमुदितः
सुखी शांतः शेते मुनिरतनुभूतिर्नृप इव ॥ 3.94 ॥

भिक्षाशी जनमध्यसंगरहितः स्वायत्तचेष्टः सदा
हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ।
रथ्याकीर्णविशीर्णजीर्णवसनः संप्राप्तकंथासनो
निर्मानो निरहंकृतिः शमसुखाभोगैकबद्धस्पृहः ॥ 3.95 ॥

चंडालः किं अयं द्विजातिरथवा शूद्रोऽथ किं तापसः
किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किम् ।
इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनैर्
न क्रुद्धाः पथि नैव तुष्टमनसो यांति स्वयं योगिनः ॥ 3.96 ॥

हिंसाशून्यं अयत्नलभ्यं अशनं धात्रा मरुत्कल्पितं
व्यालानां पशवस्तृणांकुरभुजस्तुष्टाः स्थलीशायिनः ।
संसारार्णवलंघनक्षमधियां वृत्तिः कृता सा नृणां
तां अन्वेषयतां प्रयांति सततं सर्वं समाप्तिं गुणाः ॥ 3.97 ॥

गंगातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशंकाः
कंडूयंते जरठहरिणाः स्वांगं अंगे मदीये ॥ 3.98 ॥

जीर्णा कंथा ततः किं सितं अमलपटं पट्टसूत्रं ततः किं
एका भार्या ततः किं हयकरिसुगणैरावृतो वा ततः किम् ।
भक्तं भुक्तं ततः किं कदशनं अथवा वासरांते ततः किं
व्यक्तज्योतिर्न वांतर्मथितभवभयं वैभवं वा ततः किम् ॥ 3.98.1 ॥

पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यं अक्षय्यं अन्नं
विस्तीर्णं वस्त्रं आशादशकं अचपलं तल्पं अस्वल्पं उर्वी ।
येषां निःसंगतांगीकरणपरिणतस्वांतसंतोषिणस्ते
धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयंति ॥ 3.99 ॥

त्रैलोक्याधिपतित्वं एव विरसं यस्मिन्महाशासने
तल्लब्ध्वासनवस्त्रमानघटने भोगे रतिं मा कृथाः ।
भोगः कोऽपि स एक एव परमो नित्योदितो जृंभते
यत्स्वादाद्विरसा भवंति विषयास्त्रैलोक्यराज्यादयः ॥ 3.99.1 ॥

मातर्मेदिनि तात मारुत सखे तेजः सुबंधो जल
भ्रातर्व्योम निबद्ध एष भवतां अंत्यः प्रणामांजलिः ।
युष्मत्संगवशोपजातसुकृतस्फारस्फुरन्निर्मलज्ञानापास्त
समस्तमोहमहिमा लीये परब्रह्मणि ॥ 3.100 ॥

शय्या शैलशिला गृहं गिरिगुहा वस्त्रं तरूणां त्वचः
सारंगाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः कोमलैः ।
येषां निर्झरं अंबुपानं उचितं रत्यै तु विद्यांगना
मन्ये ते परमेश्वराः शिरसि यैर् बद्धो न सेवांजलिः ॥ 3.101 ॥

धैर्यं यस्य पिता क्षमा च जननी शांतिश्चिरं गेहिनी
सत्यं मित्रं इदं दया च भगिनी भ्राता मनःसंयमः ।
शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनं
ह्येते यस्य कुटुंबिनो वद सखे कस्माद्भयं योगिनः ॥ 3.102 ॥

अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा
मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यांति दिवसाः
क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ 3.103 ॥

सारके विचारिल्ले प्रस्न

What is भर्तृहरेः शतक त्रिशति - वैराग्य शतकम्?

भर्तृहरेः शतक त्रिशति - वैराग्य शतकम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Konkani. Use the language selector to view another available edition.

Can I read भर्तृहरेः शतक त्रिशति - वैराग्य शतकम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download भर्तृहरेः शतक त्रिशति - वैराग्य शतकम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook