भर्तृहरेः शतक त्रिशति – शृंगार शतकम्
शंभुस्वयंभुहरयो हरिणेक्षणानां
येनाक्रियंत सततं गृहकुंभदासाः ।
वाचां अगोचरचरित्रविचित्रिताय
तस्मै नमो भगवते मकरध्वजाय ॥ 2.1 ॥
स्मितेन भावेन च लज्जया भिया
पराण्मुखैरर्धकटाक्षवीक्षणैः ।
वचोभिरीर्ष्याकलहेन लीलया
समस्तभावैः खलु बंधनं स्त्रियः ॥ 2.2 ॥
भ्रूचातुर्यात्कुंचिताक्षाः कटाक्षाः
स्निग्धा वाचो लज्जितांताश्च हासाः ।
लीलामंदं प्रस्थितं च स्थितं च
स्त्रीणां एतद्भूषणं चायुधं च ॥ 2.3 ॥
क्वचित्सभ्रूभंगैः क्वचिदपि च लज्जापरिगतैः
क्वचिद्भूरित्रस्तैः क्वचिदपि च लीलाविललितैः ।
कुमारीणां एतैर्मदनसुभगैर्नेत्रवलितैः
स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः ॥ 2.4 ॥
वक्त्रं चंद्रविकासि पंकजपरीहासक्षमे लोचने
वर्णः स्वर्णं अपाकरिष्णुरलिनीजिष्णुः कचानां चयः ।
वक्षोजाविभकुंभविभ्रमहरौ गुर्वी नितंबस्थली
वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मंडनम् ॥ 2.5 ॥
स्मितकिंचिन्मुग्धं सरलतरलो दृष्टिविभवः
परिस्पंदो वाचां अभिनवविलासोक्तिसरसः ।
गतानां आरंभः किसलयितलीलापरिकरः
स्पृशंत्यास्तारुण्यं किं इव न हि रम्यं मृगदृशः ॥ 2.6 ॥
द्रष्टव्येषु किं उत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घ्रातव्येष्वपि किं तद्आस्यपवनः श्रव्येषु किं तद्वचः ।
किं स्वाद्येषु तद्ओष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्ध्येयं
किं नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः ॥ 2.7 ॥
एताश्चलद्वलयसंहतिमेखलोत्थझंकार
नूपुरपराजितराजहंस्यः ।
कुर्वंति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ 2.8 ॥
कुंकुमपंककलंकितदेहा
गौरपयोधरकंपितहारा ।
नूपुरहंसरणत्पद्मा
कं न वशीकुरुते भुवि रामा ॥ 2.9 ॥
नूनं हि ते कविवरा विपरीतवाचो
ये नित्यं आहुरबला इति कामिनीस्ताः ।
याभिर्विलोलितरतारकदृष्टिपातैः
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ॥ 2.10 ॥
नूनं आज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।
यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते ॥ 2.11 ॥
केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अंतर्वक्त्रं अपि स्वभावशुचिभीः कीर्णं द्विजानां गणैः ।
मुक्तानां सतताधिवासरुचिरौ वक्षोजकुंभाविमावित्थं
तन्वि वपुः प्रशांतं अपि तेरागं करोत्येव नः ॥ 2.12 ॥
मुग्धे धानुष्कता केयं अपूर्वा त्वयि दृश्यते ।
यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ 2.13 ॥
सति प्रदीपे सत्यग्नौ सत्सु तारारवींदुषु ।
विना मे मृगशावाक्ष्या तमोभूतं इदं जगत् ॥ 2.14 ॥
उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितं ओष्ठपल्लवं इदं कुर्वंतु नाम व्यथाम् ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापं अधिकं रोमावलिः केन सा ॥ 2.15 ॥
मुखेन चंद्रकांतेन महानीलैः शिरोरुहैः ।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ 2.16 ॥
गुरुणा स्तनभारेण मुखचंद्रेण भास्वता ।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ 2.17 ॥
तस्याः स्तनौ यदि घनौ जघनं च हारि
वक्त्रं च चारु तव चित्त किं आकुलत्वम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वांछा
पुण्यैर्विना न हि भवंति समीहितार्थाः ॥ 2.18 ॥
इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरतप्रताप
प्रारंभाः स्मरविजयदानप्रतिभुवः ।
चिरं चेतश्चोरा अभिनवविकारैकगुरवो
विलासव्यापाराः किं अपि विजयंते मृगदृशाम् ॥ 2.19 ॥
प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः
फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ।
प्रकृतिसुभगा विस्रंभार्द्राः स्मरोदयदायिनो
रहसि किं अपि स्वैरालापा हरंति मृगीदृशाम् ॥ 2.20 ॥
विश्रम्य विश्रम्य वनद्रुमाणां
छायासु तन्वी विचचार काचित् ।
स्तनोत्तरीयेण करोद्धृतेन
निवारयंती शशिनो मयूखान् ॥ 2.21 ॥
अदर्शने दर्शनमात्रकामा
दृष्ट्वा परिष्वंगसुखैकलोला ।
आलिंगितायां पुनरायताक्ष्यामाशास्महे
विग्रहयोरभेदम् ॥ 2.22 ॥
मालती शिरसि जृंभणं मुखे
चंदनं वपुषि कुंकुमाविलम् ।
वक्षसि प्रियतमा मदालसा
स्वर्ग एष परिशिष्ट आगमः ॥ 2.23 ॥
प्राङ्मां एति मनागनागतरसं जाताभिलाषं ततः
सव्रीडं तदनु श्लथोद्यमं अथ प्रध्वस्तधैर्यं पुनः ।
प्रेमार्द्रं स्पृहणीयनिर्भररहः क्रीडाप्रगल्भं ततो
निःसंगांगविकर्षणाधिकसुखरम्यं कुलस्त्रीरतम् ॥ 2.24 ॥
उरसि निपतितानां स्रस्तधम्मिल्लकानां
मुकुलितनयनानां किंचिद्उन्मीलितानाम् ।
उपरि सुरतखेदस्विन्नगंडस्थलानामधर
मधु वधूनां भाग्यवंतः पिबंति ॥ 2.25 ॥
आमीलितनयनानां यः
सुरतरसोऽनु संविदं भाति ।
मिथुरैर्मिथोऽवधारितमवितथम्
इदं एव कामनिर्बर्हणम् ॥ 2.26 ॥
इदं अनुचितं अक्रमश्च पुंसां
यदिह जरास्वपि मन्मथा विकाराः ।
तदपि च न कृतं नितंबिनीनां
स्तनपतनावधि जीवितं रतं वा ॥ 2.27 ॥
राजस्तृष्णांबुराशेर्न हि जगति गतः कश्चिदेवावसानं
को वार्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।
गच्छामः सद्म यावद्विकसितनयनेंदीवरालोकिनीनामाक्रम्याक्रम्य
रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ 2.28 ॥
रागस्यागारं एकं नरकशतमहादुःखसंप्राप्तिहेतुर्मोहस्योत्पत्ति
बीजं जलधरपटलं ज्ञानताराधिपस्य ।
कंदर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबंधं
लोकेऽस्मिन्न ह्यर्थव्रजकुलभवनयौवनादन्यदस्ति ॥ 2.29 ॥
शृंगारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि
प्रद्युम्नप्रियबांधवे चतुरवाङ्मुक्ताफलोदन्वति ।
तन्वीनेत्रचकोरपावनविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ 2.30 ॥
संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलंकव्यासंग
व्यस्तधैर्यं कथं अमलधियो मानसं संविदध्युः ।
यद्येताः प्रोद्यद्इंदुद्युतिनिचयभृतो न स्युरंभोजनेत्राः
प्रेंखत्कांचीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ॥ 2.31 ॥
सिद्धाध्यासितकंदरे हरवृषस्कंधावरुग्णद्रुमे
गंगाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो
यद्वित्रस्तकुरंगशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ 2.32 ॥
संसार तव पर्यंतपदवी न दवीयसी ।
अंतरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाम् ॥ 2.33 ॥
दिश वनहरिणीभ्यो वंशकांडच्छवीनां
कवलं उपलकोटिच्छिन्नमूलं कुशानाम् ।
शकयुवतिकपोलापांडुतांबूलवल्लीदलम्
अरुणनखाग्रैः पाटितं वा वधूभ्यः ॥ 2.34 ॥
असाराः सर्वे ते विरतिविरसाः पापविषया
जुगुप्स्यंतां यद्वा ननु सकलदोषास्पदं इति ।
तथाप्येतद्भूमौ नहि परहितात्पुण्यं अधिकं
न चास्मिन्संसारे कुवलयदृशो रम्यं अपरम् ॥ 2.35 ॥
एतत्कामफलो लोके यद्द्वयोरेकचित्तता ।
अन्यचित्तकृते कामे शवयोरिव संगमः ॥ 2.35.1 ॥
मात्सर्यं उत्सार्य विचार्य कार्यमार्याः
समर्यादं इदं वदंतु ।
सेव्या नितंबाः किं उ भूधराणामुत
स्मरस्मेरविलासिनीनाम् ॥ 2.36 ॥
संसारे स्वप्नसारे परिणतितरले द्वे गती पंडितानां
तत्त्वज्ञानामृतांभःप्लवललितधियां यातु कालः कथंचित् ।
नो चेन्मुग्धांगनानां स्तनजघनघनाभोगसंभोगिनीनां
स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानाम् ॥ 2.37 ॥
आवासः क्रियतां गांगे पापहारिणि वारिणि ।
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ 2.38 ॥
किं इह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर्द्वयम्
इह पुरुषाणां सर्वदा सेवनीयम् ।
अभिनवमदलीलालालसं सुंदरीणां
स्तनभरपरिखिन्नं यौवनं वा वनं वा ॥ 2.39 ॥
सत्यं जना वच्मि न पक्षपाताल्
लोकेषु सप्तस्वपि तथ्यं एतत् ।
नान्यन्मनोहारि नितंबिनीभ्यो
दुःखैकहेतुर्न च कश्चिदन्यः ॥ 2.40 ॥
कांतेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्पीनोत्तुंग
पयोधरेति सुमुखांभोजेति सुभ्रूरिति ।
दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रियं अहो मोहस्य दुश्चेष्टितम् ॥ 2.41 ॥
स्मृता भवति तापाय दृष्टा चोन्मादकारिणी ।
स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ 2.42 ॥
तावदेवामृतमयी यावल्लोचनगोचरा ।
चक्षुष्पथादतीता तु विषादप्यतिरिच्यते ॥ 2.43 ॥
नामृतं न विषं किंचिदेतां मुक्त्वा नितंबिनीम् ।
सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥ 2.44 ॥
आवर्तः संशयानां अविनयभुवनं पट्टणं साहसानां
दोषाणां सन्निधानं कपटशतमयं क्षेत्रं अप्रत्ययानाम् ।
स्वर्गद्वारस्य विघ्नो नरकपुरमुखं सर्वमायाकरंडं
स्त्रीयंत्रं केन सृष्टं विषं अमृतमयं प्राणिलोकस्य पाशः ॥ 2.45 ॥
नो सत्येन मृगांक एष वदनीभूतो न चेंदीवरद्वंद्वं
लोचनतां गत न कनकैरप्यंगयष्टिः कृता ।
किंत्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मंदो जनः सेवते ॥ 2.46 ॥
लीलावतीनां सहजा विलासास्त
एव मूढस्य हृदि स्फुरंति ।
रागो नलिन्या हि निसर्गसिद्धस्तत्र
भ्रमत्येव वृथा षड्अंघ्रिः ॥ 2.47 ॥
संमोहयंति मदयंति विडंबयंति
निर्भर्त्सयंति रमयंति विषादयंति ।
एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वामनयना न समाचरंति ॥ 2.47.1 ॥
यदेतत्पूर्णेंदुद्युतिहरं उदाराकृति परं
मुखाब्जं तन्वंग्याः किल वसति यत्राधरमधु ।
इदं तत्किं पाकद्रुमफलं इदानीं अतिरसं
व्यतीतेऽस्मिन् काले विषं इव भविष्यत्यसुखदम् ॥ 2.48 ॥
उन्मीलत्त्रिवलीतरंगनिलया प्रोत्तुंगपीनस्तनद्वंद्वेनोद्गत
चक्रवाकयुगला वक्त्रांबुजोद्भासिनी ।
कांताकारधरा नदीयं अभितः क्रूरात्र नापेक्षते
संसारार्णवमज्जनं यदि तदा दूरेण संत्यज्यताम् ॥ 2.49 ॥
जल्पंति सार्धं अन्येन पश्यंत्यन्यं सविभ्रमाः ।
हृद्गतं चिंतयंत्यन्यं प्रियः को नाम योषिताम् ॥ 2.50 ॥
मधु तिष्ठति वाचि योषितां हृदि हालाहलं एव केवलम् ।
अतएव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥ 2.51 ॥
अपसर सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ।
इतरफणिना दष्टः शक्यश्चिकित्सितुं औषधैश्चतुर्
वनिताभोगिग्रस्तं हि मंत्रिणः ॥ 2.52 ॥
विस्तारितं मकरकेतनधीवरेण
स्त्रीसंज्ञितं बडिशं अत्र भवांबुराशौ ।
येनाचिरात्तद्अधरामिषलोलमर्त्य
मत्स्यान्विकृष्य विपचत्यनुरागवह्नौ ॥ 2.53 ॥
कामिनीकायकांतारे कुचपर्वतदुर्गमे ।
मा संचर मनः पांथ तत्रास्ते स्मरतस्करः ॥ 2.54 ॥
व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिनाऽहिना वरं अहं दष्टो न तच्चक्षुषा ।
दष्टे संति चिकित्सका दिशि दिशि प्रायेण धनार्थिनो [धर्मार्थिनो]
मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥ 2.55 ॥
इह हि मधुरगीतं नृत्यं एतद्रसोऽयं
स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् ।
इति हतपरमार्थैरिंद्रियैर्भ्राम्यमाणः
स्वहितकरणधूर्तैः पंचभिर्वंचितोऽस्मि ॥ 2.56 ॥
न गम्यो मंत्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शांतिकशतैः ।
भ्रमावेशादंगे कं अपि विदधद्भंगं असकृत्
स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ 2.57 ॥
जात्य्अंधाय च दुर्मुखाय च जराजीर्णाखिलांगाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।
यच्छंतीषु मनोहरं निजवपुलक्ष्मीलवश्रद्धया
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ॥ 2.58 ॥
वेश्यासौ मदनज्वाला
रूपेंधनविवर्धिता ।
कामिभिर्यत्र हूयंते
यौवनानि धनानि च ॥ 2.59 ॥
कश्चुंबति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञं अपि ।
चारभटचोरचेटकनटविटनिष्ठीवनशरावम् ॥ 2.60 ॥
धन्यास्त एव धवलायतलोचनानां
तारुण्यदर्पघनपीनपयोधराणाम् ।
क्षामोदरोपरि लसत्त्रिवलीलतानां
दृष्ट्वाकृतिं विकृतिं एति मनो न येषाम् ॥ 2.61 ॥
बाले लीलामुकुलितं अमी मंथरा दृष्टिपाताः
किं क्षिप्यंते विरमविरम व्यर्थ एष श्रमस्ते ।
संप्रत्यन्ये वयं उपरतं बाल्यं आस्था वनांते
क्षीणो मोहस्तृणं इव जगज्जालं आलोकयामः ॥ 2.62 ॥
इयं बाला मां प्रत्यनवरतं इंदीवरदल
प्रभाचोरं चक्षुः क्षिपति किं अभिप्रेतं अनया ।
गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकरज्वर
ज्वाला शांता तदपि न वराकी विरमति ॥ 2.63 ॥
किं कंदर्प करं कदर्थयसि रे कोदंडटंकारितं
रे रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि ।
मुग्धे स्निग्धविदग्धचारुमधुरैर्लोलैः कटाक्षैरलं
चेतश्चुंबितचंद्रचूडचरणध्यानामृतं वर्तते ॥ 2.64 ॥
विरहेऽपि संगमः खलु
परस्परं संगतं मनो येषाम् ।
हृदयं अपि विघट्टितं चेत्
संगी विरहं विशेषयति ॥ 2.65 ॥
किं गतेन यदि सा न जीवति
प्राणिति प्रियतमा तथापि किम् ।
इत्युदीक्ष्य नवमेघमालिकां
न प्रयाति पथिकः स्वमंदिरम् ॥ 2.66 ॥
विरमत बुधा योषित्संगात्सुखात्क्षणभंगुरात्
कुरुत करुणामैत्रीप्रज्ञावधूजनसंगमम् ।
न खलु नरके हाराक्रांतं घनस्तनमंडलं
शरणं अथवा श्रोणीबिंबं रणन्मणिमेखलम् ॥ 2.67 ॥
यदा योगाभ्यासव्यसनकृशयोरात्ममनसोरविच्छिन्ना
मैत्री स्फुरति कृतिनस्तस्य किं उ तैः ।
प्रियाणां आलापैरधरमधुभिर्वक्त्रविधुभिः
सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ 2.68 ॥
यदासीदज्ञानं स्मरतिमिरसंचारजनितं
तदा दृष्टनारीमयं इदं अशेषं जगदिति ।
इदानीं अस्माकं पटुतरविवेकांजनजुषां
समीभूता दृष्टिस्त्रिभुवनं अपि ब्रह्म मनुते ॥ 2.69 ॥
तावदेव कृतिनां अपि स्फुरत्येष
निर्मलविवेकदीपकः ।
यावदेव न कुरंगचक्षुषां
ताड्यते चटुललोचनांचलैः ॥ 2.70 ॥
वचसि भवति संगत्यागं उद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पंडितानाम् ।
जघनं अरुणरत्नग्रंथिकांचीकलापं
कुवलयनयनानां को विहातुं समर्थः ॥ 2.71 ॥
स्वपरप्रतारकोऽसौ
निंदति योऽलीकपंडितो युवतीः ।
यस्मात्तपसोऽपि फलं
स्वर्गः स्वर्गेऽपि चाप्सरसः ॥ 2.72 ॥
मत्तेभकुंभदलने भुवि संति धीराः
केचित्प्रचंडमृगराजवधेऽपि दक्षाः ।
किंतु ब्रवीमि बलिनां पुरतः प्रसह्य
कंदर्पदर्पदलने विरला मनुष्याः ॥ 2.73 ॥
सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेंद्रियाणां
लज्जां तावद्विधत्ते विनयं अपि समालंबते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतंति ॥ 2.74 ॥
उन्मत्तप्रेमसंरंभाद्
आरभंते यद्अंगनाः ।
तत्र प्रत्यूहं आधातुं
ब्रह्मापि खलु कातरः ॥ 2.75 ॥
तावन्महत्त्वं पांडित्यं
कुलीनत्वं विवेकिता ।
यावज्ज्वलति नांगेषु
हतः पंचेषुपावकः ॥ 2.76 ॥
शास्त्रज्ञोऽपि प्रथितविनयोऽप्यात्मबोधोऽपि बाढं
संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनाम् ।
येनैतस्मिन्निरयनगरद्वारं उद्घाटयंती
वामाक्षीणां भवति कुटिला भ्रूलता कुंचिकेव ॥ 2.77 ॥
कृशः काणः खंजः श्रवणरहितः पुच्छविकलो
व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ।
क्षुधा क्षामो जीर्णः पिठरककपालार्पितगलः
शुनीं अन्वेति श्वा हतं अपि च हंत्येव मदनः ॥ 2.78 ॥
स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसंपत्करीं
ये मूढाः प्रविहाय यांति कुधियो मिथ्याफलान्वेषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुंडिताः
केचित्पंचशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ 2.79 ॥
विश्वामित्रपराशरप्रभृतयो वातांबुपर्णाशनास्तेऽपि
स्त्रीमुखपंकजं सुललितं दृष्ट्वैव मोहं गताः ।
शाल्यन्नं सघृतं पयोदधियुतं ये भुंजते मानवास्तेषाम्
इंद्रियनिग्रहो यदि भवेद्विंध्यः प्लवेत्सागरे ॥ 2.80 ॥
परिमलभृतो वाताः शाखा नवांकुरकोटयो
मधुरविरुतोत्कंठा वाचः प्रियाः पिकपक्षिणाम् ।
विरलसुरतस्वेदोद्गारा वधूवदनेंदवः
प्रसरति मधौ रात्र्यां जातो न कस्य गुणोदयः ॥ 2.81 ॥
मधुरयं मधुरैरपि कोकिला
कलरवैर्मलयस्य च वायुभिः ।
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हंत सुधापि विषायते ॥ 2.82 ॥
आवासः किलकिंचितस्य दयितापार्श्वे विलासालसाः [दयिताः पार्श्वे]
कर्णे कोकिलकामिनीकलरवः स्मेरो लतामंडपः ।
गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः
केषांचित्सुखयंति चात्र हृदयं चैत्रे विचित्राः क्षपाः ॥ 2.83 ॥
पांथ स्त्रीविरहानलाहुतिकलां आतन्वती मंजरीमाकंदेषु
पिकांगनाभिरधुना सोत्कंठं आलोक्यते ।
अप्येते नवपाटलापरिमलप्राग्भारपाटच्चरा
वांतिक्लांतिवितानतानवकृतः श्रीखंडशैलानिलाः ॥ 2.84 ॥
प्रथितः प्रणयवतीनां
तावत्पदं आतनोतु हृदि मानः ।
भवति न यावच्चंदनतरु
सुरभिर्मलयपवमानः ॥ 2.85 ॥
सहकारकुसुमकेसरनिकर
भरामोदमूर्च्छितदिग्अंते ।
मधुरमधुरविधुरमधुपे
मधौ भवेत्कस्य नोत्कंठा ॥ 2.86 ॥
अच्छाच्छचंदनरसार्द्रतरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च कौमुदी च ।
मंदो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं च विवर्धयंति ॥ 2.87 ॥
स्रजो हृद्यामोदा व्यजनपवनश्चंद्रकिरणाः
परागः कासारो मलयजरजः शीधु विशदम् ।
शुचिः सौधोत्संगः प्रतनु वसनं पंकजदृशो
निदाघऋतावेतद्विलसति लभंते सुकृतिनः ॥ 2.88 ॥
सुधाशुभ्रं धाम स्फुरद्अमलरश्मिः शशधरः
प्रियावक्त्रांभोजं मलयजरजश्चातिसुरभिः ।
स्रजो हृद्यामोदास्तदिदं अखिलं रागिणि जने
करोत्यंतः क्षोभं न तु विषयसंसर्गविमुखे ॥ 2.89 ॥
तरुणीवेषोद्दीपितकामा
विकसज्जातीपुष्पसुगंधिः ।
उन्नतपीनपयोधरभारा
प्रावृट्तनुते कस्य न हर्षम् ॥ 2.90 ॥
वियद्उपचितमेघं भूमयः कंदलिन्यो
नवकुटजकदंबामोदिनो गंधवाहाः ।
शिखिकुलकलकेकारावरम्या वनांताः
सुखिनं असुखिनं वा सर्वं उत्कंठयंति ॥ 2.91 ॥
उपरि घनं घनपटलं
तिर्यग्गिरयोऽपि नर्तितमयूराः ।
क्षितिरपि कंदलधवला
दृष्टिं पथिकः क्व पातयति ॥ 2.92 ॥
इतो विद्युद्वल्लीविलसितं इतः केतकितरोः
स्फुरन्गंधः प्रोद्यज्जलदनिनदस्फूर्जितं इतः ।
इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां
कथं यास्यंत्येते विरहदिवसाः संभृतरसाः ॥ 2.93 ॥
असूचीसंचारे तमसि नभसि प्रौढजलदध्वनिप्रये
तस्मिन् पतति दृशदां नीरनिचये ।
इदं सौदामिन्याः कनककमनीयं विलसितं
मुदं च ग्लानिं च प्रथयति पथिष्वेव सुदृशाम् ॥ 2.94 ॥
आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कंपनिमित्तं आयतदृशा गाढं समालिंग्यते ।
जाताः शीकरशीतलाश्च मरुतोरत्यंतखेदच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासंगमे ॥ 2.95 ॥
अर्धं सुप्त्वा निशायाः सरभससुरतायाससन्नश्लथांगप्रोद्भूतासह्य
तृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।
संभोगक्लांतकांताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मंदपुण्यः ॥ 2.96 ॥
हेमंते दधिदुग्धसर्पिरशना मांजिष्ठवासोभृतः
काश्मीरद्रवसांद्रदिग्धवपुषश्छिन्ना विचित्रै रतैः । [वपुषः खिन्ना]
वृत्तोरुस्तनकामिनीजनकृताश्लेषा गृहाभ्यंतरे
तांबूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ 2.97 ॥
प्रोद्यत्प्रौढप्रियंगुद्युतिभृति विकसत्कुंदमाद्यद्द्विरेफे
काले प्रालेयवातप्रचलविलसितोदारमंदारधाम्नि ।
येषां नो कंठलग्ना क्षणं अपि तुहिनक्षोददक्षा मृगाक्षी
तेषां आयामयामा यमसदनसमा यामिनी याति यूनाम् ॥ 2.98 ॥
चुंबंतो गंडभित्तीरलकवति मुखे सीत्कृतान्यादधाना
वक्षःसूत्कंचुकेषु स्तनभरपुलकोद्भेदं आपादयंतः ।
ऊरूनाकंपयंतः पृथुजघनतटात्स्रंसयंतोऽंशुकानि
व्यक्तं कांताजनानां विटचरितभृतः शैशिरा वांति वाताः ॥ 2.99 ॥
केशानाकुलयंदृशो मुकुलयन्वासो बलादाक्षिपन्नातन्वन्
पुलकोद्गमं प्रकटयन्नावेगकंपं शनैः ।
वारं वारं उदारसीत्कृतकृतो दंतच्छदान्पीडयन्
प्रायः शैशिर एष संप्रति मरुत्कांतासु कांतायते ॥ 2.100 ॥
यद्यस्य नास्ति रुचिरं तस्मिंस्तस्य स्पृहा मनोज्ञेऽपि ।
रमणीयेऽपि सुधांशौ न मनःकामः सरोजिन्याः ॥ 2.101 ॥
वैराग्ये संचरत्येको नीतौ भ्रमति चापरः ।
शृंगारे रमते कश्चिद्भुवि भेदाः परस्परम् ॥ 2.102 ॥
सारके विचारिल्ले प्रस्न
What is भर्तृहरेः शतक त्रिशति - शृंगार शतकम्?
भर्तृहरेः शतक त्रिशति - शृंगार शतकम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Konkani. Use the language selector to view another available edition.
Can I read भर्तृहरेः शतक त्रिशति - शृंगार शतकम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download भर्तृहरेः शतक त्रिशति - शृंगार शतकम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.