श्रीमद्भगवद्गीता पारायण – ध्यानश्लोकाः


ॐ श्री परमात्मने नमः
अथ गीता ध्यान श्लोकाः

ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् ।
अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीं
अंब त्वां अनुसंदधामि भगवद्गीते भवद्वेषिणीम् ॥

नमोऽस्तुते व्यास विशालबुद्धे फुल्लारविंदायतपत्रनेत्र ।
येन त्वया भारत तैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः॥

प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानंदं कृष्णं वंदे जगद्गुरुम् ॥

भीष्मद्रोणतटा जयद्रथजला गांधारनीलोत्पला
शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पांडवै रणनदी कैवर्तकः केशवः ॥

पाराशर्यवचः सरोजममलं गीतार्थगंधोत्कटं
नानाख्यानककेसरं हरिकथा संबोधनाबोधितम् ।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा
भूयाद्भारतपंकजं कलिमलं प्रध्वंसिनः श्रेयसे ॥

मूकं करोति वाचालं पंगुं लंघयते गिरिम् ।
यत्कृपा तमहं वंदे परमानंदमाधवम् ॥

शांताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् ।
लक्ष्मीकांतं कमलनयनं योगिहृद्ध्यानगम्यं
वंदे विष्णुं भवभयहरं सर्व लोकैकनाथम् ॥

यं ब्रह्मावरुणेंद्ररुद्रमरुतः स्तुन्वंति दिव्यैः स्तवैः
वेदैः सांगपदक्रमोपनिषदैः गायंति यं सामगाः ।
ध्यानावस्थित तद्गतेन मनसा पश्यंति यं योगिनः
यस्यांतं न विदुस्सुरासुरगणाः देवाय तस्मै नमः ॥

नारायणं नमस्कृत्य नरंचैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

सच्चिदानंदरूपाय कृष्णायाक्लिष्टकारिणे ।
नमो वेदांतवेद्याय गुरवे बुद्धिसाक्षिणे॥

सर्वोपनिषदो गावः दोग्धा गोपालनंदनः ।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥

गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् ।
विष्णोः पदमवाप्नोति भयशोकादि वर्जितः ॥

एकं शास्त्रं देवकीपुत्रगीतं एको देवो देवकीपुत्र एव ।
एको मंत्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा ॥

॥ ॐ श्री कृष्णाय परमात्मने नमः ॥

सारके विचारिल्ले प्रस्न

What is श्रीमद्भगवद्गीता पारायण - ध्यानश्लोकाः?

श्रीमद्भगवद्गीता पारायण - ध्यानश्लोकाः is a Bhagavad Gita available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Konkani. Use the language selector to view another available edition.

Can I read श्रीमद्भगवद्गीता पारायण - ध्यानश्लोकाः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download श्रीमद्भगवद्गीता पारायण - ध्यानश्लोकाः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook