वेदान्त डिण्डिमः


वेदान्तडिण्डिमास्तत्वमेकमुद्धोषयन्ति यत् ।
आस्तां पुरस्तान्तत्तेजो दक्षिणामूर्तिसञ्ज्ञितम् ॥ 1

आत्माऽनात्मा पदार्थौ द्वौ भोक्तृभोग्यत्वलक्षणौ ।
ब्रह्मेवाऽऽत्मान देहादिरिति वेदान्तडिण्डिमः ॥ 2

ज्ञानाऽज्ञाने पदार्थों द्वावात्मनो बन्धमुक्तिदौ ।
ज्ञानान्मुक्ति निर्बन्धोऽन्यदिति वेदान्तडिण्डिमः ॥ 3

ज्ञातृ ज्ञेयं पदार्थौ द्वौ भास्य भासकलक्षणौ ।
ज्ञाता ब्रह्म जगत् ज्ञेय मिति वेदान्तडिण्डिमः ॥ 4

सुखदुःखे पदार्थौ द्वौ प्रियविप्रियकारकौ ।
सुखं ब्रह्म जगहुःख मिति वेदान्तडिण्डिमः॥ 5

समष्टिव्यष्टिरूपौ द्वौ पदार्थौ सर्वसम्मतौ ।
समष्टिरीश्वरो व्यष्टिर्जीवो वेदान्तडिण्डिमः ॥ 6

ज्ञानं कर्म पदार्थौ द्वौ वस्तुकत्रात्म तन्त्रकौ ।
ज्ञानान्मोक्षो न कर्मभ्य इति वेदान्तडिण्डिमः ॥ 7

श्रोतव्याऽश्रव्यरूपी द्वौ पदार्थों सुखदुःखदौ ।
श्रोतव्यं ब्रह्म नैवाऽन्य दिति वेदान्तडिण्डिमः॥ 8

चिन्त्याऽचिन्त्ये पदाथौ द्वौ विश्रान्ति श्रान्तिदायकौ ।
चिन्त्यं ब्रह्म परं नाऽन्य दिति वेदान्तडिण्डिमः॥ 9

ध्येयाऽध्वेये पदार्थौ द्वौ द्वौ धीसमाध्यसमाधिदौ ।
ध्यातव्यं ब्रह्म नैवाऽन्य दिति वेदान्तडिण्डिमः॥ 10

योगिनो भोगिनो वाऽपि त्यागिनो रागिणोऽपि च ।
ज्ञानान्मोक्षो न सन्देह इति वेदान्तडिण्डिमः ॥ 11

न वर्णाश्रम सङ्केतैः न कोपासनादिभिः।
ब्रह्मज्ञानं विना मोक्षः इति वेदान्तडिण्डिमः ॥ 12

असत्यस्सर्वसंसारो रसामासादिदूषितः ।
उपेक्ष्यो ब्रह्म विज्ञेय मिति वेदान्तडिण्डिमः ॥ 13

वृथा क्रियां वृथाऽलापान् वृथावादान् मनोरथान् ।
त्यत्वैकं ब्रह्म विज्ञेय मिति वेदान्तडिण्डिमः ॥ 14

स्थितो ब्रह्मात्मना जीवो ब्रह्म जीवात्मना स्थितम् ।
इति सम्पश्यतां मुक्ति रिति वेदान्तडिण्डिमः॥ 15

जीवो ब्रह्मात्मना ज्ञेयो ज्ञेयं जीवात्मना परम् ।
मुक्तिस्त दैक्यविज्ञान मिति वेदान्तडिण्डिमः ॥ 16

सर्वात्मना परं ब्रह्म श्रोतुरात्मतया स्थितम् ।
नाऽऽयास स्तव विज्ञप्तौ इति वेदान्तडिण्डिमः ॥ 17

ऐहिकं चाऽऽमुध्मिकं च तापान्तं कर्मसञ्चयम् ।
त्यत्वा ब्रह्मैव विज्ञेय मिति वेदान्तडिण्डिमः ॥ 18

अद्वैतद्वैतवादौ द्वौ सूक्ष्मस्थूलदशां गतौ ।
अद्वैतवादान्मोक्षस्स्या दिति वेदान्तडिण्डिमः ॥19

कर्मिणो विनिवर्तन्ते निवर्तन्त उपासकाः।
ज्ञानिनो न निवर्तन्ते इति वेदान्तडिण्डिमः ॥ 20

परोक्षाऽसत्फलं कर्मज्ञानं प्रत्यक्षसत्फलम् ।
ज्ञानमेवाऽभ्यसेत्तस्मात् इति वेदान्तडिण्डिमः ॥21

वृथा श्रमोऽयं विदुषा वृथाऽयं-कर्मिणां श्रमः ।
यदि न ब्रह्मविज्ञानं इति ॥ वेदान्तडिण्डिमः ॥ 22

अलं यागैरलं योगैरलं भोगै रलं धनैः ।
परस्मिन्ब्रह्मणि ज्ञात इति वेदान्तडिण्डिमः ॥23

अलं वेदैरलं शास्त्रैरलमं स्मृतिपुराणकैः ।
परमात्मनि विज्ञाते इति वेदान्तडिण्डिमः ॥ 24

नर्चा न यजुषोऽर्थोऽस्ति न सान्नर्थोऽति कश्चन ।
जाते ब्रह्मात्मविज्ञाने इति वेदान्तडिण्डिमः ॥ 25

कर्माणि चित्तशुद्ध्यर्थं मैकाग्र्यार्थ मुपासनम् ।
मोक्षार्थं ब्रह्मविज्ञान मिति वेदान्तडिण्डिमः ॥ 26

सञ्चितागामिकर्माणि दह्यन्ते ज्ञानकर्मणा ।
प्रारब्धानुभवान्मोक्ष इति वेदान्तडिण्डिमः॥ 27

न पुण्यकर्मणा वृद्धिः न हानिः पापकर्मणा ।
नित्यासङ्गात्मनिष्ठानामिति वेदान्तडिण्डिमः॥ 28

दृग्दृश्यौ द्वौ पदार्थौ तौ परस्परविलक्षणौ ।
दृग्ब्रह्म दृश्यं माया स्यादिति वेदान्तडिण्डिमः ॥ 29

अविद्योपाधिको जीवो मायोपाधिक ईश्वरः ।
मायाऽविद्यागुणातीतः इति वेदान्तडिण्डिमः ॥ 30

बुद्धिपूर्वाऽबुद्धिपूर्वकृतानां पापकर्मणाम् ।
प्रायश्चित्तमहोज्ञान मिति वेदान्तडिण्डिमः ॥ 31

साकारं च निराकारं निर्गुणं च गुणात्मकम् ।
तत्त्वं तत्परमं ब्रह्म इति वेदान्तडिण्डिमः ॥ 32

द्विजत्वं विध्यनुष्ठानात् विप्रत्वं वेदपाठतः ।
ब्राह्मण्यं ब्रह्मविज्ञानात् इति वेदान्तडिण्डिमः ॥ 33

सर्वात्मना स्थितं ब्रह्म सर्वं ब्रह्मात्मना स्थितम् ।
न कार्यं कारणाद्भिन्न मिति वेदान्तडिण्डिमः ॥ 34

सत्तास्फुरणसौख्यानि भासन्ते सर्ववस्तुषु ।
तस्माद्ब्रह्ममयं सर्व मिति वेदान्तडिण्डिमः ॥ 35

अवस्थात्रितयं यस्य क्रीडाभूमितया स्थितम् ।
तदेव ब्रह्म जानीयात् इति वेदान्तडिण्डिमः॥ 36

यन्नाऽऽदौ यश्च नाऽस्त्यन्ते तन्मध्ये भातमप्यसत् ।
अतो मिथ्या जगत्सर्वमिति वेदान्तडिण्डिमः ॥ 37

यदस्त्यादौ यदस्त्यन्ते यन्मध्ये भाति तत्स्वयम् ।
प्रौकमिदं सत्य मिति वेदान्तडिण्डिमः ॥ 38

पुरुषार्थत्रयाविष्टाः पुरुषाः पशवो धृवम् ।
मोक्षार्थी पुरुषः श्रेष्ठः इति वेदान्तडिण्डिमः ॥ 39

घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च ।
तथा ब्रह्म जगत्सर्व मिति वेदान्तडिण्डिमः ॥ 40

षण्णिहत्य त्रयं हित्वा द्वयं भिस्वाऽखिलागतिम् ।
एकं बुद्धाऽऽश्रुते मोक्ष मिति वेदान्तडिण्डिमः ॥ 41

भित्वा षट् पञ्च भित्त्वाऽथ भिश्वाऽथ चतुरखिकम् ।
द्वयं हित्वा श्रयेदेक मिति वेदान्तडिण्डिमः ॥ 42

देहो नाह महं देही देहसाक्षीति निश्चयात् ।
जन्ममृत्युपहीणोऽसौ इति वेदान्तडिण्डिमः ॥ 43

प्राणोनाहमहं देवः प्राणस्साक्षीति निश्चयात् ।
क्षुत्पिपासोपशान्ति स्स्यात् इति वेदान्तडिण्डिमः ॥ 44

मनो नाऽह महं देवो मनस्साक्षीति निश्चयात् ।
शोकमोहापहानिरस्यात् वेदान्तडिण्डिमः ॥ 45

बुद्धिर्नाऽहमहं देवो बुद्धिसाक्षीति निश्चयात् ।
कर्तृभावनिर्वृत्तिस्स्यात् इति वेदान्तडिण्डिमः ॥ 46

नाज्ञानं स्यामहं देवोऽज्ञानसाक्षीति निश्चयात् ।
सर्वानर्थनिवृत्तिस्यात् इति वेदान्तडिण्डिमः ॥ 47

अहं साक्षीति यो विद्यात् विविच्यैवं पुन: पुनः ।
स एव मुक्तोऽसौ विद्वान् इति वेदान्तडिण्डिमः ॥ 48

नाहं माया न तत्कार्यं न साक्षी परमोऽस्म्यहम् ।
इति निस्संशयज्ञानात् मुक्तिर्वे वेदान्तडिण्डिमः ॥ 49

नाऽहं सर्व महं सर्वं मयि सर्वमिति स्फुटम् ।
ज्ञाते तत्वे कुतो दुःख मिति वेदान्तडिण्डिमः ॥ 50

देहादिपञ्चकोशस्था या सत्ता प्रतिभासते ।
सा सत्तास्स्त्मा न सन्देह इति वेदान्तडिण्डिमः ॥ 51

देहादिपञ्चकोशस्था या स्फूर्ति रनुभूयते ।
सा स्फूर्तिरात्मा नैवाऽन्य दिति वेदान्तडिण्डिमः ॥ 52

देहादिपञ्चकोशस्था या प्रीतिरनुभूयते ।
सा प्रीतिरात्मा कूटस्थः इति वेदान्तडिण्डिमः ॥ 53

व्योमादिपञ्चभूतस्था यासत्ता भासते नृणाम् ।
सा सत्ता परमं ब्रह्म इति वेदान्तडिण्डिमः ॥ 54

व्योमादिपञ्चभूतस्था या चिदेकाऽनुभूयते ।
सा चिदेव परं ब्रह्म इति वेदान्तडिण्डिमः ॥ 55

व्योमादिपञ्चभूतस्था या प्रीतिरनुभूयते ।
साप्रीतिरेव ब्रह्म स्यात् इति वेदान्तडिण्डिमः ॥ 56

देहादिकोशगा सत्ता या सा व्योमादिभूतगा ।
मानोऽभावान्न तद्भेदः इति वेदान्तडिण्डिमः ॥ 57

देहाविकोशगा स्फूर्तिर्या सा व्योमादिभूतगा ।
मानोऽभावा न तद्भेद इति वेदान्तडिण्डिमः ॥ 58

देहादिकोशगा प्रीतिर्या सा व्योमादिभूतगा ।
मानाऽभावा न्न तद्भेद इति वेदान्तडिण्डिमः॥ 59

सच्चिदानन्दरूपत्वात् ब्रह्मैवाऽत्मा न संशयः।
प्रमाणकोटिसङ्घानात् इति वेदान्तडिण्डिमः॥60

न जीवब्रह्मणोर्भेदः सत्तारूपेण विद्यते।
सत्ताभेदे न मानं स्यात् इति वेदान्तडिण्डिमः॥61

न जीवब्रह्मणोर्भेदः स्फूर्तिरूपेण विद्यते ।
स्फूर्तिभेदे न मानं स्यात् इति वेदान्तडिण्डिमः ॥62

न जीवब्रह्मणोर्भेदः प्रियरूपेण विद्यते ।
प्रियभेदे न मानं स्यात् इति वेदान्तडिण्डिमः ॥ 63

न जीवब्रह्मणोर्भेदो नाना रूपेण विद्यते ।
नाम्नो रूपस्य मिथ्यात्वात् इति वेदान्तडिण्डिमः ॥ 64

न जीवब्रह्मणोर्भेदः पिण्डब्रह्माण्डभेदतः ।
व्यष्टेस्समष्टेरेकत्वात् इति वेदान्तडिण्डिमः ॥ 65

ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव ना¶ः ।
जीवन्मुक्तस्तु तद्विद्वान् इति वेदान्तडिण्डिमः ॥ 66

न नामरूपे नियते सर्वत्र व्यभिचारतः ।
अनामरूपं सर्वं स्यात् इति वेदान्तडिण्डिमः ॥ 67

अनामरूपं सकलं सन्मयं चिन्मयं परम् ।
कुतो भेदः कुतो बन्धः इति वेदान्तडिण्डिमः ॥ 68

न तत्त्वात्कथ्यते लोको नामाद्यैर्व्यभिचारतः।
वटुर्जरठ इत्याद्यै रिति वेदान्तडिण्डिमः ॥ 69

नामरूपात्मकं विश्वमिन्द्रजालं विदुर्बुधाः ।
अनामत्वादयुक्तत्वात् इति वेदान्तडिण्डिमः ॥ 70

अभेददर्शनं मोक्षः संसाये भेददर्शनम् ।
सर्ववेदान्तसिद्धान्तः इति वेदान्तडिण्डिमः ॥ 71

न मताभिनिवेशित्वात् न भाषावेशमात्रतः ।
मुक्ति र्विनाऽऽत्मविज्ञानात् इति वेदान्तडिण्डिमः ॥ 72

न कास्यप्रतिषिद्धाभिः क्रियाभि मोक्षवासना ।
ईश्वरानुग्रहात्सा स्यात् इति वेदान्तडिण्डिमः ॥ 73

अविज्ञाते जन्म नष्टं विज्ञाते जन्म सार्थकम् ।
ज्ञातुरात्मा न दूरे स्यात् इति वेदान्तडिण्डिमः ॥ 74

दशमस्य परिज्ञानेनाऽऽयासोऽस्ति यथाः तथा ।
स्वस्थ ब्रह्मात्मविज्ञाने इति वेदान्तडिण्डिमः ॥ 75

उपेक्ष्योपाधिकान् दोषान् गृह्यन्ते विषमा यथा ।
उपेक्ष्य दृश्यं य द्ब्रह्म इति वेदान्तडिण्डिमः ॥ 76

सुखमल्पं बहुः क्लेशोविषयमाहिणां नृणाम् ।
अनन्तं ब्रह्मनिष्ठानां इति वेदान्तडिण्डिमः ॥ 77

धनैर्वा धनदैः पुत्रैः दारागारसहोदरैः ।
धृवं प्राणहरैर्दुःखं इति वेदान्तडिण्डिमः॥ 78

सुप्ते रुत्थाय सुप्त्यन्त्यं ब्रह्मैकं प्रविचिन्त्यताम् ।
नातिदूरे नृणां मृत्युः इति वेदान्तडिण्डिमः ॥ 79

पञ्चानामपिकोशानां मायाऽनर्थाव्ययोचिता ।
तत्साक्षि ब्रह्म विज्ञान मिति वेदान्तडिण्डिमः ॥ 80

दशमत्वपरिज्ञाने ननज्ञस्य यथा सुखम् ।
तथा जीवस्य सत्प्राप्तौ इति वेदान्तडिण्डिमः॥ 81

नवभ्योऽस्ति परं प्रत्यक्नस वेद परं परम् ।
तद्विज्ञानाद्भवेत्तुर्या मुक्ति र्वेदान्तडिण्डिमः ॥ 82

नवाऽऽभासानवज्ञत्वात् नवोपाधीन्नवात्मना ।
मिथ्या ज्ञात्वाऽवशिष्टे तु मौनं वेदान्तडिण्डिमः॥ 83

परमे ब्रह्मणि स्वस्मिन् प्रविलाप्याऽखिलं जगत् ।
गायनद्वतमानन्दं आस्ते वेदान्तडिण्डिमः ॥ 84

प्रतिलोमानुलोमाभ्यां विश्वारोपापवादयोः ।
चिन्तने शिष्यते तत्वं इति वेदान्तडिण्डिमः ॥ 85

नामरूपाभिमानस्थात् संसारसर्वदेहिनाम् ।
सच्चिदानन्ददृष्टिस्त्यात् मुक्तिर्वेदान्तडिण्डिमः ॥ 86

सचिदानन्दसत्यत्वे मिथ्यात्वे नामरूपयोः।
विज्ञाते किमिदं ज्ञेयं इति वेदान्तडिण्डिमः ॥ 86

सालम्बनं निरालम्बं सर्वालम्बावलम्बितम् ।
आलम्बेनाऽखिलालम्ब मिति वेदान्तडिण्डिमः॥ 88

न कुर्या न्न विजानीयात् सर्वं ब्रह्मेत्यनुस्मरन् ।
यथा सुखं तथा तिष्ठेत् इति वेदान्तडिण्डिमः॥ 89

स्वकर्मपाशवशगः प्राज्ञोऽन्यो वा जनो ध्रुवम् ।
प्राज्ञस्सुखं नयेत्काल मिति वेदान्तडिण्डिमः॥ 90

न विद्वान् सन्तपे चित्तं करणाकरणे ध्रुवम् ।
सर्वमात्मेति विज्ञानात् इति वेदान्तडिण्डिमः. ॥ 91

नैवास्स्भासं स्पृशेत्कर्ममिथ्योपाधिमपि स्वयम् ।
कुतोऽधिष्ठानमत्यच्छमिति वेदान्तडिण्डिमः॥ 92

अहोऽस्माक मलं मोहैरात्मा ब्रह्मेति निर्भयम् ।
श्रुतिभेरीरवोऽद्याऽपि श्रूयते श्रुतिरञ्जनः ॥ 93

वेदान्तभेरीझवारः प्रतिवादिभयङ्करः ।
श्रूयतां ब्राह्मणैः श्रीमद्दक्षिणामूर्त्यनुग्रहात् ॥ 94

इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छङ्कर-
भगवत्पूज्यपादकृतिषु वेदान्तडिण्डिमः॥

अक्सर पूछे जाने वाले प्रश्न

What is वेदान्त डिण्डिमः?

वेदान्त डिण्डिमः is a Vedic Chants available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Hindi. Use the language selector to view another available edition.

Can I read वेदान्त डिण्डिमः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download वेदान्त डिण्डिमः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook