उद्धवगीता – अस्श्टमोऽध्यायः


अथास्श्टमोऽध्यायः ।

सुखं ऐन्द्रियकं राजन् स्वर्गे नरकः एव च ।
देहिनः यत् यथा दुःखं तस्मात् न इच्छेत तत् बुधाः ॥ 1॥

ग्रासं सुमृष्टं विरसं महान्तं स्तोकं एव वा ।
यदृच्छया एव अपतितं ग्रसेत् आजगरः अक्रियः ॥ 2॥

शयीत अहानि भूरीणि निराहारः अनुपक्रमः ।
यदि न उपनमेत् ग्रासः महाहिः इव दिष्टभुक् ॥ 3॥

ओजः सहोबलयुतं बिभ्रत् देहं अकर्मकम् ।
शयानः वीतनिद्रः च नेहेत इन्द्रियवान् अपि ॥ 4॥

मुनिः प्रसन्नगम्भीरः दुर्विगाह्यः दुरत्ययः ।
अनन्तपारः हि अक्षोभ्यः स्तिमित उदः इव अर्णवः ॥ 5॥

समृद्धकामः हीनः वा नारायणपरः मुनिः ।
न उत्सर्पेत न शुष्येत सरिद्भिः इव सागरः ॥ 6॥

दृष्ट्वा स्त्रियं देवमायां तत् भावैः अजितेन्द्रियः ।
प्रलोभितः पतति अन्धे तमसि अग्नौ पतङ्गवत् ॥ 7॥

योषित् हिरण्य आभरण अम्बरादि
द्रव्येषु मायारचितेषु मूढः ।
प्रलोभितात्मा हि उपभोगबुद्ध्या
पतङ्गवत् नश्यति नष्टदृष्टिः ॥ 8॥

स्तोकं स्तोकं ग्रसेत् ग्रासं देहः वर्तेत यावता ।
गृहान् अहिंसत् न आतिष्ठेत् वृत्तिं माधुकरीं मुनिः ॥ 9॥

अणुभ्यः च महद्भ्यः च शास्त्रेभ्यः कुशलः नरः ।
सर्वतः सारं आदद्यात् पुष्पेभ्यः इव षट्पदः ॥ 10॥

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् ।
पाणिपात्र उदरामत्रः मक्षिका इव न सङ्ग्रही ॥ 11॥

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः ।
मक्षिकाः इव सङ्गृह्णन् सह तेन विनश्यति ॥ 12॥

पद अपि युवतीं भिक्षुः न स्पृशेत् दारवीं अपि ।
स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः ॥ 13॥

न अधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचित् मृत्युं आत्मनः ।
बल अधिकैः स हन्येत गजैः अन्यैः गजः यथा ॥ 14॥

न देयं न उपभोग्यं च लुब्धैः यत् दुःख सञ्चितम् ।
भुङ्क्ते तत् अपि तत् च अन्यः मधुहेव अर्थवित् मधु ॥ 15॥

सुख दुःख उपार्जितैः वित्तैः आशासानां गृह आशिषः ।
मधुहेव अग्रतः भुङ्क्ते यतिः वै गृहमेधिनाम् ॥ 16॥

ग्राम्यगीतं न श्रुणुयात् यतिः वनचरः क्वचित् ।
शिखेत हरिणात् वद्धात् मृगयोः गीतमोहितात् ॥ 17॥

नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् ।
आसां क्रीडनकः वश्यः ऋष्यश‍ऋङ्गः मृगीसुतः ॥ 18॥

जिह्वया अतिप्रमाथिन्या जनः रसविमोहितः ।
मृत्युं ऋच्छति असत् बुद्धिः मीनः तु बडिशैः यथा ॥ 19॥

इन्द्रियाणि जयन्ति आशुः निराहाराः मनीषिणः ।
वर्जयित्वा तु रसनं तत् निरन्नस्य वर्धते ॥ 20॥

तावत् जितेन्द्रियः न स्यात् विजितानि इन्द्रियः पुमान् ।
न जयेत् रसनं यावत् जितं सर्वं जिते रसे ॥ 21॥

पिङ्गला नाम वेश्या आसीत् विदेहनगरे पुरा ।
तस्या मे शिक्षितं किञ्चित् निबोध नृपनन्दन ॥ 22॥

सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती ।
अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम् ॥ 23॥

मार्ग आगच्छतो वीक्ष्य पुरुषान्पुरुषर्षभ ।
तान् शुल्कदान्वित्तवतः कान्तान्मेनेऽर्थकामुका ॥ 24॥

आगतेष्वपयातेषु सा सङ्केतोपजीवनी ।
अप्यन्यो वित्तवान्कोऽपि मामुपैष्यति भूरिदः ॥ 25॥

एअवं दुराशया ध्वस्तनिद्रा द्वार्यवलम्बती ।
निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ 26॥

तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः ।
निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः ॥ 27॥

तस्या निर्विण्णचित्ताया गीतं श्रुणु यथा मम ।
निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ॥ 28॥

न हि अङ्गाजातनिर्वेदः देहबन्धं जिहासति ।
यथा विज्ञानरहितः मनुजः ममतां नृप ॥ 29॥

पिङ्गला उवाच ।
अहो मे मोहविततिं पश्यत अविजित आत्मनः ।
या कान्तात् असतः कामं कामये येन बालिशा ॥ 30॥

सन्तं समीपे रमणं रतिप्रदं
वित्तप्रदं नित्यं इमं विहाय ।
अकामदं दुःखभय आदि शोक
मोहप्रदं तुच्छं अहं भजे अज्ञा ॥ 31॥

अहो मयात्मा परितापितो वृथा
साङ्केत्यवृत्त्याऽतिविगर्ह्यवार्तया ।
स्त्रैणान्नराद्याऽर्थतृषोऽनुशोच्या
त्क्रीतेन वित्तं रतिमात्मनेच्छती ॥ 32॥

यदस्थिभिर्निर्मितवंशवंश्य
स्थूणं त्वचा रोमनखैः पिनद्धम् ।
क्षरन्नवद्वारमगारमेतद्
विण्मूत्रपूर्णं मदुपैति कान्या ॥ 33॥

विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः ।
याऽन्यस्मिच्छन्त्यसत्यस्मादात्मदात्काममच्युतात् ॥ 34॥

सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।
तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ 35॥

कियत्प्रियं ते व्यभजन्कामा ये कामदा नराः ।
आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः ॥ 36॥

नूनं मे भगवान् प्रीतः विष्णुः केन अपि कर्मणा ।
निर्वेदः अयं दुराशाया यत् मे जातः सुखावहः ॥ 37॥

मैवं स्युर्मन्दभग्यायाः क्लेशा निर्वेदहेतवः ।
येनानुबन्धं निहृत्य पुरुषः शममृच्छति ॥ 38॥

तेन उपकृतं आदाय शिरसा ग्राम्यसङ्गताः ।
त्यक्त्वा दुराशाः शरणं व्रजामि तं अधीश्वरम् ॥ 39॥

सन्तुष्टा श्रद्दधत्येतद्यथालाभेन जीवती ।
विहराम्यमुनैवाहमात्मना रमणेन वै ॥ 40॥

संसारकूपे पतितं विषयैर्मुषितेक्षणम् ।
ग्रस्तं कालाहिनाऽऽत्मानं कोऽन्यस्त्रातुमधीश्वरः ॥ 41॥

आत्मा एव हि आत्मनः गोप्ता निर्विद्येत यदाखिलात् ।
अप्रमत्तः इदं पश्यत् ग्रस्तं कालाहिना जगत् ॥ 42॥

ब्राह्मण उवाच ।
एअवं व्यवसितमतिर्दुराशां कान्ततर्षजाम् ।
छित्वोपशममास्थाय शय्यामुपविवेश सा ॥ 43॥

आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।
यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ 44॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे पिङ्गलोपाख्याऽनेष्टमोऽध्यायः ॥

अक्सर पूछे जाने वाले प्रश्न

What is उद्धवगीता - अस्श्टमोऽध्यायः?

उद्धवगीता - अस्श्टमोऽध्यायः is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Hindi. Use the language selector to view another available edition.

Can I read उद्धवगीता - अस्श्टमोऽध्यायः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download उद्धवगीता - अस्श्टमोऽध्यायः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook