उद्धवगीता – षष्ठोऽध्यायः


अथ षष्ठोऽध्यायः ।

श्रीशुकः उवाच ।
अथ ब्रह्मा आत्मजैः देवैः प्रजेशैः आवृतः अभ्यगात् ।
भवः च भूतभव्यीशः ययौ भूतगणैः वृतः ॥ 1॥

इन्द्रः मरुद्भिः भगवान् आदित्याः वसवः अश्विनौ ।
ऋभवः अङ्गिरसः रुद्राः विश्वे साध्याः च देवताः ॥ 2॥

गन्धर्वाप्सरसः नागाः सिद्धचारणगुह्यकाः ।
ऋषयः पितरः च एव सविद्याधरकिन्नराः ॥ 3॥

द्वारकां उपसञ्जग्मुः सर्वे कृष्णादिदृक्षवः ।
वपुषा येन भगवान् नरलोकमनोरमः ।
यशः वितेने लोकेषु सर्वलोकमलापहम् ॥ 4॥

तस्यां विभ्राजमानायां समृद्धायां महर्धिभिः ।
व्यचक्षत अवितृप्ताक्षाः कृष्णं अद्भुतदर्शनम् ॥

5॥

स्वर्गौद्यानौअपगैः माल्यैः छादयन्तः यदु उत्तमम् ।
गीर्भिः चित्रपदार्थाभिः तुष्टुवुः जगत् ईश्वरम् ॥6॥

देवाः ऊचुः ।
नताः स्म ते नाथ पदारविन्दं
बुद्धीन्द्रियप्राणमनोवचोभिः ।
यत् चिन्त्यते अन्तर्हृदि भावयुक्तैः
मुमुक्षुभिः कर्ममय ऊरुपाशात् ॥ 7॥

त्वं मायया त्रिगुणया आत्मनि दुर्विभाव्यं
व्यक्तं सृजसि अवसि लुम्पसि तत् गुणस्थः ।
न एतैः भवान् अजित कर्मभिः अज्यते वै
यत् स्वे सुखे अव्यवहिते अभिरतः अनवद्यः ॥ 8॥

शुद्धिः नृणां न तु तथा ईड्य दुराशयानां
विद्याश्रुताध्ययनदानतपक्रियाभिः ।
सत्त्वात्मनां ऋषभ ते यशसि प्रवृद्ध
सत् श्रद्धया श्रवणसम्भृतया यथा स्यात् ॥ 9॥

स्यात् नः तव अङ्घ्रिः अशुभाशयधूमकेतुः
क्षेमाय यः मुनिभिः आर्द्रहृदौह्यमानः ।
यः सात्वतैः समविभूतयः आत्मवद्भिः
व्यूहे अर्चितः सवनशः स्वः अतिक्रमाय ॥ 10॥

यः चिन्त्यते प्रयतपाणिभिः अध्वराग्नौ
त्रय्या निरुक्तविधिना ईश हविः गृहीत्वा ।
अध्यात्मयोगः उत योगिभिः आत्ममायां
जिज्ञासुभिः परमभागवतैः परीष्टः ॥ 11॥

पर्युष्टया तव विभो वनमालया इयं
संस्पर्धिनी भगवती प्रतिपत्निवत् श्रीः ।
यः सुप्रणीतं अमुयार्हणं आदत् अन्नः
भूयात् सदा अङ्घ्रिः अशुभाशयधूमकेतुः ॥ 12॥

केतुः त्रिविक्रमयुतः त्रिपत् पताकः
यः ते भयाभयकरः असुरदेवचम्वोः ।
स्वर्गाय साधुषु खलु एषु इतराय भूमन्
पादः पुनातु भगवन् भजतां अधं नः ॥ 13॥

नस्योतगावः इव यस्य वशे भवन्ति
ब्रह्मादयः अनुभृतः मिथुरर्द्यमानाः ।
कालस्य ते प्रकृतिपूरुषयोः परस्य
शं नः तनोतु चरणः पुरुषोत्तमस्य ॥ 14॥

अस्य असि हेतुः उदयस्थितिसंयमानां
अव्यक्तजीवमहतां अपि कालं आहुः ।
सः अयं त्रिणाभिः अखिल अपचये प्रवृत्तः
कालः गभीररयः उत्तमपूरुषः त्वम् ॥ 15॥

त्वत्तः पुमान् समधिगम्य यया स्ववीर्य
धत्ते महान्तं इव गर्भं अमोघवीर्यः ।
सः अयं तया अनुगतः आत्मनः आण्डकोशं
हैमं ससर्ज बहिः आवरणैः उपेतम् ॥ 16॥

तत्तस्थुषः च जगतः च भवान् अधीशः
यत् मायया उत्थगुणविक्रियया उपनीतान् ।
अर्थान् जुषन् अपि हृषीकपते न लिप्तः
ये अन्ये स्वतः परिहृतात् अपि बिभ्यति स्म ॥ 17॥

स्माया अवलोकलवदर्शितभावहारि
भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः ।
पत्न्यः तु षोडशसहस्रं अनङ्गबाणैः
यस्य इन्द्रियं विमथितुं करणैः विभ्व्यः ॥ 18॥

विभ्व्यः तव अमृतकथा उदवहाः त्रिलोक्याः
पादौ अनेजसरितः शमलानि हन्तुम् ।
आनुश्रवं श्रुतिभिः अङ्घ्रिजं अङ्गसङ्गैः
तीर्थद्वयं शुचिषदस्तः उपस्पृशन्ति ॥ 19॥

बादरायणिः उवाच ।
इति अभिष्टूय विबुधैः सेशः शतधृतिः हरिम् ।
अभ्यभाषत गोविन्दं प्रणम्य अम्बरं आश्रितः ॥ 20॥

ब्रह्म उवाच ।
भूमेः भार अवताराय पुरा विज्ञापितः प्रभो ।
त्वं अस्माभिः अशेषात्मन् तत् तथा एव उपपादितम् ॥ 21॥

धर्मः च स्थापितः सत्सु सत्यसन्धेषु वै त्वया ।
कीर्तिः च दिक्षु विक्षिप्ता सर्वलोकमलापहा ॥ 22॥

अवतीर्य यदोः वंशे बिभ्रत् रूपं अनुत्तमम् ।
कर्माणि उद्दामवृत्तानि हिताय जगतः अकृथाः ॥ 23॥

यानि ते चरितानि ईश मनुष्याः साधवः कलौ ।
श‍ऋण्वन्तः कीर्तयन्तः च तरिष्यन्ति अञ्जसा तमः ॥ 24॥

यदुवंशे अवतीर्णस्य भवतः पुरुषोत्तम ।
शरत् शतं व्यतीयाय पञ्चविंश अधिकं प्रभोः ॥ 25॥

न अधुना ते अखिल आधार देवकार्य अवशेषितम् ।
कुलं च विप्रशापेन नष्टप्रायं अभूत् इदम् ॥ 26॥

ततः स्वधाम परमं विशस्व यदि मन्यसे ।
सलोकान् लोकपालान् नः पाहि वैकुण्ठकिङ्करान् ॥ 27॥

श्री भगवान् उवाच ।
अवधारितं एतत् मे यदात्थ विबुधेश्वर ।
कृतं वः कार्यं अखिलं भूमेः भारः अवतारितः ॥ 28॥

तत् इदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् ।
लोकं जिघृक्षत् रुद्धं मे वेलया इव महार्णवः ॥ 29॥

यदि असंहृत्य दृप्तानां यदुनां विपुलं कुलम् ।
गन्तास्मि अनेन लोकः अयं उद्वेलेन विनङ्क्ष्यति ॥ 30॥

इदानीं नाशः आरब्धः कुलस्य द्विजशापतः ।
यास्यामि भवनं ब्रह्मन् न एतत् अन्ते तव आनघ ॥ 31॥

श्री शुकः उवाच ।
इति उक्तः लोकनाथेन स्वयम्भूः प्रणिपत्य तम् ।
सह देवगणैः देवः स्वधाम समपद्यत ॥ 32॥

अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् ।
विलोक्य भगवान् आह यदुवृद्धान् समागतान् ॥ 33॥

श्री भगवान् उवाच ।
एते वै सुमहोत्पाताः व्युत्तिष्ठन्ति इह सर्वतः ।
शापः च नः कुलस्य आसीत् ब्राह्मणेभ्यः दुरत्ययः ॥ 34॥

न वस्तव्यं इह अस्माभिः जिजीविषुभिः आर्यकाः ।
प्रभासं सुमहत् पुण्यं यास्यामः अद्य एव मा चिरम् ॥ 35॥

यत्र स्नात्वा दक्षशापात् गृहीतः यक्ष्मणौडुराट् ।
विमुक्तः किल्बिषात् सद्यः भेजे भूयः कलोदयम् ॥ 36॥

वयं च तस्मिन् आप्लुत्य तर्पयित्वा पितॄन्सुरान् ।
भोजयित्वा उशिजः विप्रान् नानागुणवता अन्धसा ॥ 37॥

तेषु दानानि पात्रेषु श्रद्धया उप्त्वा महान्ति वै ।
वृजिनानि तरिष्यामः दानैः नौभिः इव अर्णवम् ॥ 38॥

श्री शुकः उवाच ।
एवं भगवता आदिष्टाः यादवाः कुलनन्दन ।
गन्तुं कृतधियः तीर्थं स्यन्दनान् समयूयुजन् ॥ 39॥

तत् निरीक्ष्य उद्धवः राजन् श्रुत्वा भगवता उदितम् ।
दृष्ट्वा अरिष्टानि घोराणि नित्यं कृष्णं अनुव्रतः ॥ 40॥

विविक्तः उपसङ्गम्य जगतां ईश्वरेश्वरम् ।
प्रणम्य शिरसा पादौ प्राञ्जलिः तं अभाषत ॥ 41॥

उद्धवः उवाच ।
देवदेवेश योगेश पुण्यश्रवणकीर्तन ।
संहृत्य एतत् कुलं नूनं लोकं सन्त्यक्ष्यते भवान् ।
विप्रशापं समर्थः अपि प्रत्यहन् न यदि ईश्वरः ॥ 42॥

न अहं तव अङ्घ्रिकमलं क्षणार्धं अपि केशव ।
त्यक्तुं समुत्सहे नाथ स्वधाम नय मां अपि ॥ 43॥

तव विक्रीडितं कृष्ण नृणां परममङ्गलम् ।
कर्णपीयूषं आस्वाद्य त्यजति अन्यस्पृहां जनः ॥ 44॥

शय्यासनाटनस्थानस्नानक्रीडाशनादिषु ।
कथं त्वां प्रियं आत्मानं वयं भक्ताः त्यजेमहि ॥ 45॥

त्वया उपभुक्तस्रक्गन्धवासः अलङ्कारचर्चिताः ।
उच्छिष्टभोजिनः दासाः तव मायां जयेमहि ॥ 46॥

वाताशनाः यः ऋषयः श्रमणा ऊर्ध्वमन्थिनः ।
ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनः अमलाः ॥

47॥

वयं तु इह महायोगिन् भ्रमन्तः कर्मवर्त्मसु ।
त्वत् वार्तया तरिष्यामः तावकैः दुस्तरं तमः ॥ 48॥

स्मरन्तः कीर्तयन्तः ते कृतानि गदितानि च ।
गतिउत्स्मितीक्षणक्ष्वेलि यत् नृलोकविडम्बनम् ॥ 49॥

श्री शुकः उवाच ।
एवं विज्ञापितः राजन् भगवान् देवकीसुतः ।
एकान्तिनं प्रियं भृत्यं उद्धवं समभाषत ॥ 50॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे देवस्तुत्युद्ध्वविज्ञापनं नाम
षष्ठोऽध्यायः ॥

अक्सर पूछे जाने वाले प्रश्न

What is उद्धवगीता - षष्ठोऽध्यायः?

उद्धवगीता - षष्ठोऽध्यायः is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Hindi. Use the language selector to view another available edition.

Can I read उद्धवगीता - षष्ठोऽध्यायः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download उद्धवगीता - षष्ठोऽध्यायः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook