उद्धवगीता – पञ्चमोऽध्यायः
अथ पञ्चमोऽध्यायः ।
राजा उवाच ।
भगवन्तं हरिं प्रायः न भजन्ति आत्मवित्तमाः ।
तेषां अशान्तकामानां का निष्ठा अविजितात्मनाम् ॥ 1॥
चमसः उवाच ।
मुखबाहूरूपादेभ्यः पुरुषस्य आश्रमैः सह ।
चत्वारः जज्ञिरे वर्णाः गुणैः विप्रादयः पृथक् ॥ 2॥
यः एषां पुरुषं साक्षात् आत्मप्रभवं ईश्वरम् ।
न भजन्ति अवजानन्ति स्थानात् भ्रष्टाः पतन्ति अधः ॥ 3॥
दूरे हरिकथाः केचित् दूरे च अच्युतकीर्र्तनाः ।
स्त्रियः शूद्रादयः च एव ते अनुकम्प्या भवादृशाम् ॥ 4॥
विप्रः राजन्यवैश्यौ च हरेः प्राप्ताः पदान्तिकम् ।
श्रौतेन जन्मना अथ अपि मुह्यन्ति आम्नायवादिनः ॥ 5॥
कर्मणि अकोविदाः स्तब्धाः मूर्खाः पण्डितमानिनः ।
वदन्ति चाटुकात् मूढाः यया माध्व्या गिर उत्सुकाः ॥ 6॥
रजसा घोरसङ्कल्पाः कामुकाः अहिमन्यवः ।
दाम्भिकाः मानिनः पापाः विहसन्ति अच्युतप्रियान् ॥ 7॥
वदन्ति ते अन्योन्यं उपासितस्त्रियः
गृहेषु मैथुन्यसुखेषु च आशिषः ।
यजन्ति असृष्टान् अविधान् अदक्षिणम्
वृत्त्यै परं घ्नन्ति पशून् अतद्विदः ॥ 8॥
श्रिया विभूत्या अभिजनेन विद्यया
त्यागेन रूपेण बलेन कर्मणा
सतः अवमन्यन्ति हरिप्रियान् खलाः ॥ 9॥
सर्वेषु शश्वत् तनुभृत् स्ववस्थितम्
यथा स्वं आत्मानं अभीष्टं ईश्वरम् ।
वेदोपगीतं च न श्रुण्वते अबुधाः
मनोरथानां प्रवदन्ति वार्तया ॥ 10॥
लोके व्यवाय आमिषं अद्यसेवा
नित्याः तु जन्तोः न हि तत्र चोदना ।
व्यवस्थितिः तेषु विवाहयज्ञ
सुराग्रहैः आसु निवृत्तिः इष्टा ॥ 11॥
धनं च धर्मेकफलं यतः वै
ज्ञानं सविज्ञानं अनुप्रशान्ति ।
गृहेषु युञ्जन्ति कलेवरस्य
मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ 12॥
यत् घ्राणभक्षः विहितः सुरायाः
तथा पशोः आलभनं न हिंसा ।
एवं व्यवायः प्रजया न रत्या
इअमं विशुद्धं न विदुः स्वधर्मम् ॥ 13॥
ये तु अनेवंविदः असन्तः स्तब्धाः सत् अभिमानिनः ।
पशून् द्रुह्यन्ति विस्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ 14॥
द्विषन्तः परकायेषु स्वात्मानं हरिं ईश्वरम् ।
मृतके सानुबन्धे अस्मिन् बद्धस्नेहाः पतन्ति अधः ॥ 15॥
ये कैवल्यं असम्प्राप्ताः ये च अतीताः च मूढताम् ।
त्रैवर्गिकाः हि अक्षणिकाः आत्मानं घातयन्ति ते ॥ 16॥
एतः आत्महनः अशान्ताः अज्ञाने ज्ञानमानिनः ।
सीदन्ति अकृतकृत्याः वै कालध्वस्तमनोरथाः ॥ 17॥
हित्वा आत्याय असरचिताः गृह अपत्यसुहृत् श्रियः ।
तमः विशन्ति अनिच्छन्तः वासुदेवपराङ्मुखाः ॥ 18॥
राजा उवाच ।
कस्मिन् काले सः भगवान् किं वर्णः कीदृशः नृभिः ।
नाम्ना वा केन विधिना पूज्यते तत् इह उच्यताम् ॥ 19॥
करभाजनः उवाच ।
कृतं त्रेता द्वापरं च कलिः इत्येषु केशवः ।
नानावर्ण अभिधाकारः नाना एव विधिना इज्यते ॥ 20॥
कृते शुक्लः चतुर्बाहुः जटिलः वल्कलाम्बरः ।
कृष्णाजिनौपवीताक्षान् बिभ्रत् दण्डकमण्डलून् ॥ 21॥
मनुष्याः तु तदा शान्ताः निर्वैराः सुहृदः समाः ।
यजन्ति तपसा देवं शमेन च दमेन च ॥ 22॥
हंसः सुपर्णः वैकुण्ठः धर्मः योगेश्वरः अमलः ।
ईश्वरः पुरुषः अव्यक्तः परमात्मा इति गीयते ॥ 23॥
त्रेतायां रक्तवर्णः असौ चतुर्बाहुः त्रिमेखलः ।
हिरण्यकेशः त्रयी आत्मा स्रुक्स्रुवादि उपलक्षणः ॥ 24॥
तं तदा मनुजा देवं सर्वदेवमयं हरिम् ।
यजन्ति विद्यया त्रय्या धर्मिष्ठाः ब्रह्मवादिनः ॥ 25॥
विष्णुः यज्ञः पृष्णिगर्भः सर्वदेवः उरुक्रमः ।
वृषाकपिः जयन्तः च उरुगाय इति ईर्यते ॥ 26॥
द्वापरे भगवान् श्यामः पीतवासा निजायुधः ।
श्रीवत्सादिभिः अङ्कैः च लक्षणैः उपलक्षितः ॥ 27॥
तं तदा पुरुषं मर्त्या महाराजौपलक्षणम् ।
यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवः नृप ॥ 28॥
नमः ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नाय अनिरुद्धाय तुभ्यं भगवते नमः ॥ 29॥
नारायणाय ऋषये पुरुषाय महात्मने ।
विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥ 30॥
इति द्वापरः उर्वीश स्तुवन्ति जगदीश्वरम् ।
नानातन्त्रविधानेन कलौ अपि यथा श्रुणु ॥ 31॥
कृष्णवर्णं त्विषाकृष्णं साङ्गौपाङ्गास्त्र
पार्षदम् ।
यज्ञैः सङ्कीर्तनप्रायैः यजन्ति हि सुमेधसः ॥ 32॥
ध्येयं सदा परिभवघ्नं अभीष्टदोहम्
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
भृत्यार्तिहन् प्रणतपाल भवाब्धिपोतम्
वन्दे महापुरुष ते चरणारविन्दम् ॥ 33॥
त्यक्त्वा सुदुस्त्यजसुरैप्सितराज्यलक्ष्मीम्
धर्मिष्ठः आर्यवचसा यत् अगात् अरण्यम् ।
मायामृगं दयितया इप्सितं अन्वधावत्
वन्दे महापुरुष ते चरणारविन्दम् ॥ 34॥
एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः ।
मनुजैः इज्यते राजन् श्रेयसां ईश्वरः हरिः ॥ 35॥
कलिं सभाजयन्ति आर्या गुणज्ञाः सारभागिनः ।
यत्र सङ्कीर्तनेन एव सर्वः स्वार्थः अभिलभ्यते ॥ 36॥
न हि अतः परमः लाभः देहिनां भ्राम्यतां इह ।
यतः विन्देत परमां शान्तिं नश्यति संसृतिः ॥ 37॥
कृतादिषु प्रजा राजन् कलौ इच्छन्ति सम्भवम् ।
कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ 38॥
क्वचित् क्वचित् महाराज द्रविडेषु च भूरिशः ।
ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ 39॥
कावेरी च महापुण्या प्रतीची च महानदी ।
ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ।
प्रायः भक्ताः भगवति वासुदेवः अमल आशयाः ॥ 40॥
देवर्षिभूताप्तनृणा पितॄणां
न किङ्करः न अयं ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यम्
गतः मुकुन्दं परिहृत्य कर्तुम् ॥ 41॥
स्वपादमूलं भजतः प्रियस्य
त्यक्तान्यभावस्य हरिः परेशः ।
विकर्म यत् च उत्पतितं कथञ्चित्
धुनोति सर्वं हृदि सन्निविष्टः ॥ 42॥
नारदः उवाच ।
धर्मान् भागवतान् इत्थं श्रुत्वा अथ मिथिलेश्वरः ।
जायन्त इयान् मुनीन् प्रीतः सोपाध्यायः हि अपूजयत् ॥ 43॥
ततः अन्तः दधिरे सिद्धाः सर्वलोकस्य पश्यतः ।
राजा धर्मान् उपातिष्ठन् अवाप परमां गतिम् ॥ 44॥
त्वं अपि एतान् महाभाग धर्मान् भागवतान् श्रुतान् ।
आस्थितः श्रद्धया युक्तः निःसङ्गः यास्यसे परम् ॥ 45॥
युवयोः खलु दम्पत्योः यशसा पूरितं जगत् ।
पुत्रतां अगमत् यत् वां भगवान् ईश्वरः हरिः ॥ 46॥
दर्शनालिङ्गनालापैः शयनासनभोजनैः ।
आत्मा वां पावितः कृष्णे पुत्रस्नेह प्रकुर्वतोः ॥ 47॥
वैरेण यं नृपतयः शिशुपालपौण्ड्र
शाल्वादयः गतिविलासविलोकनादयैः ।
ध्यायन्तः आकृतधियः शयनासनादौ
तत् साम्यं आपुः अनुरक्तधियां पुनः किम् ॥ 48॥
मा अपत्यबुद्धिं अकृथाः कृष्णे सर्वात्मनीश्वरे ।
मायामनुष्यभावेन गूढ ऐश्वर्ये परे अव्यये ॥ 49॥
भूभारराजन्यहन्तवे गुप्तये सताम् ।
अवतीर्णस्य निर्वृत्यै यशः लोके वितन्यते ॥ 50॥
श्रीशुकः उवाच ।
एतत् श्रुत्वा महाभागः वसुदेवः अतिविस्मितः ।
देवकी च महाभागाः जहतुः मोहं आत्मनः ॥ 51॥
इतिहासं इमं पुण्यं धारयेत् यः समाहितः ।
सः विधूय इह शमलं ब्रह्मभूयाय कल्पते ॥ 52॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कन्धे वसुदेवनारदसंवादे
पञ्चमोऽध्यायः ॥
अक्सर पूछे जाने वाले प्रश्न
What is उद्धवगीता - पञ्चमोऽध्यायः?
उद्धवगीता - पञ्चमोऽध्यायः is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Hindi. Use the language selector to view another available edition.
Can I read उद्धवगीता - पञ्चमोऽध्यायः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download उद्धवगीता - पञ्चमोऽध्यायः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.