तृचा कल्प सूर्य नमस्कार क्रमः


आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति पूजा-ङ्कृत्वा ।

सङ्कल्पः
पूर्वोक्त एव-ङ्गुणविशेषण विशिष्टायां शुभतिथौ श्रुति स्मृति पुराणोक्त फलप्राप्त्यर्थं श्रीसवितृसूर्यनारायण प्रीत्यर्थ-म्भविष्योत्तरपुराणोक्त तृचकल्पविधिना एकावृत्त्या नमस्काराख्य-ङ्कर्म करिष्ये ॥

ध्यानम्
ध्येय-स्सदा सवितृमण्डलमध्यवर्ती
नारायण-स्सरसिजासनसन्निविष्टः ।
केयूरवा-न्मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥

उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्या-ङ्कराभ्या-ङ्कर्णाभ्य-म्प्रणामो-ऽष्टाङ्ग उच्यते ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां उ॒द्यन्न॒द्य मि॑त्रमहः ह्रां ओम् । मित्राय नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 1 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रीं आ॒रोह॒न्नुत्त॑रा॒-न्दिवं᳚ ह्रीं ओम् । रवये नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 2 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रूं हृ॒द्रो॒ग-म्मम॑ सूर्य ह्रूं ओम् । सूर्याय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 3 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रैं हरि॒माण᳚-ञ्च नाशय ह्रैं ओम् । भानवे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 4 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रौं शुके᳚षु मे हरि॒माणं᳚ ह्रौं ओम् । खगाय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 5 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रः रोप॒णाका᳚सु दध्मसि ह्रः ओम् । पूष्णे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 6 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां अथो᳚ हारिद्र॒वेषु॑ मे ह्रां ओम् । हिरण्यगर्भाय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 7 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रीं हरि॒माण॒-न्निद॑ध्मसि ह्रीं ओम् । मरीचये नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 8 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रूं उद॑गाद॒यमा᳚दि॒त्यः ह्रूं ओम् । आदित्याय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 9 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रैं-विँश्वे᳚न॒ सह॑सा स॒ह ह्रैं ओम् । सवित्रे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 10 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रौ-न्द्वि॒षन्त॒-म्मह्यं᳚ र॒न्धय॒न्न्॑ ह्रौं ओम् । अर्काय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 11 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रः मो अ॒ह-न्द्वि॑ष॒ते र॑धं ह्रः ओम् । भास्कराय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 12 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां ह्रीं उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रा॒-न्दिवं᳚ ह्रां ह्रीं ओम् । मित्ररविभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 13 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रूं हैं हृ॒द्रो॒ग-म्मम॑ सूर्य हरि॒माण᳚-ञ्च नाशय ह्रूं ह्रैं ओम् । सूर्यभानुभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 14 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रौं ह्र-श्शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ह्रौं ह्रः ओम् । खगपूषभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 15 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां ह्रीं अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माण॒-न्नि द॑ध्मसि ह्रां ह्रीं ओम् । हिरण्यगर्भमरीचिभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 16 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रूं ह्रैं उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह ह्रूं ह्रैं ओम् । आदित्यसवितृभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 17 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रौं ह्रः द्वि॒षन्त॒-म्मह्यं᳚ र॒न्धय॒न्मो अ॒ह-न्द्वि॑ष॒ते र॑धं ह्रौं ह्रः ओम् । अर्कभास्कराभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 18 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां ह्रीं ह्रूं ह्रैं उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रा॒-न्दिव᳚म् । हृ॒द्रो॒ग-म्मम॑ सूर्य हरि॒माण᳚-ञ्च नाशय । ह्रां ह्रीं ह्रूं ह्रैं ओम् । मित्ररविसूर्यभानुभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 19 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रौं ह्रः ह्रां ह्रीं शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि । अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माण॒-न्नि द॑ध्मसि । ह्रौं ह्रः ह्रां ह्रीं ओम् । खगपूषहिरण्यगर्भमरीचिभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 20 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रूं ह्रैं ह्रौं ह्रः उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह । द्वि॒षन्त॒-म्मह्यं᳚ र॒न्धय॒न्मो अ॒ह-न्द्वि॑ष॒ते र॑धम् । ह्रूं ह्रैं ह्रौं ह्रः ओम् । आदित्यसवित्रर्कभास्करेभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 21 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रा॒-न्दिव᳚म् ।
हृ॒द्रो॒ग-म्मम॑ सूर्य हरि॒माण᳚-ञ्च नाशय ।
शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ।
अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माण॒-न्नि द॑ध्मसि ।
उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह ।
द्वि॒षन्त॒-म्मह्यं᳚ र॒न्धय॒न्मो अ॒ह-न्द्वि॑ष॒ते र॑धम् ।
ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ओम् । मित्र रवि सूर्य भानु खग पूष हिरण्यगर्भ मरीच्यादित्यसवित्रर्क भास्करेभ्यो नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 22, 23, 24 ॥ (इति त्रिः)

अनेन मया कृत तृचाकल्पनमस्कारेण भगवान् सर्वात्मक-श्श्रीपद्मिनी उषा छाया समेत श्रीसवितृसूर्यनारायण सुप्रीतो सुप्रसन्नो भवन्तु ॥

अक्सर पूछे जाने वाले प्रश्न

What is तृचा कल्प सूर्य नमस्कार क्रमः?

तृचा कल्प सूर्य नमस्कार क्रमः is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Hindi. Use the language selector to view another available edition.

Can I read तृचा कल्प सूर्य नमस्कार क्रमः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download तृचा कल्प सूर्य नमस्कार क्रमः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook