श्री मध्वाचार्य कृत द्वादश स्तोत्र – चतुर्थस्तोत्रम्
अथ चतुर्थस्तोत्रम्
निजपूर्णसुखामितबोधतनुः परशक्तिरनन्तगुणः परमः ।
अजरामरणः सकलार्तिहरः कमलापतिरीड्यतमोऽवतु नः ॥ 1॥
यदसुप्तिगतोऽपि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः ।
स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥ 2॥ (सुमतिप्रभवम्)
बहुचित्रजगत् बहुधाकरणात्परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्यपदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥ 3॥
स्मरणे हि परेशितुरस्य विभोर्मलिनानि मनांसि कुतः करणम् ।
विमलं हि पदं परमं स्वरतं तरुणार्कसवर्णमजस्य हरेः ॥ 4॥
विमलैः श्रुतिशाणनिशाततमैः सुमनोऽसिभिराशु निहत्य दृढम् ।
बलिनं निजवैरिणमात्मतमोभिदमीशमनन्तमुपास्व हरिम् ॥ 5॥
न हि विश्वसृजो विभुशम्भुपुरन्दर सूर्यमुखानपरानपरान् ।
सृजतीड्यतमोऽवति हन्ति निजं पदमापयति प्रणतां स्वधिया ॥ 6॥
परमोऽपि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च ।
क्वचिदद्यतनोऽपि न पूर्णसदागणितेड्यगुणानुभवैकतनोः ॥ 7॥
इति देववरस्य हरेः स्तवनं कृतवान् मुनिरुत्तममादरतः ।
सुखतीर्थपदाभिहितः पठतस्तदिदं भवति ध्रुवमुच्चसुखम् ॥ 8॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु चतुर्थस्तोत्रं सम्पूर्णम्
अक्सर पूछे जाने वाले प्रश्न
What is श्री मध्वाचार्य कृत द्वादश स्तोत्र - चतुर्थस्तोत्रम्?
श्री मध्वाचार्य कृत द्वादश स्तोत्र - चतुर्थस्तोत्रम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Hindi. Use the language selector to view another available edition.
Can I read श्री मध्वाचार्य कृत द्वादश स्तोत्र - चतुर्थस्तोत्रम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री मध्वाचार्य कृत द्वादश स्तोत्र - चतुर्थस्तोत्रम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.