श्री मध्वाचार्य कृत द्वादश स्तोत्र – प्रथमस्तोत्रम्
॥ द्वादश स्तोत्राणि॥
अथ प्रथमस्तोत्रम्
वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम् ।
इन्दिरापतिमाद्यादि वरदेश वरप्रदम् ॥ 1॥
नमामि निखिलाधीश किरीटाघृष्टपीठवत् ।
हृत्तमः शमनेऽर्काभं श्रीपतेः पादपङ्कजम् ॥ 2॥
जाम्बूनदाम्बराधारं नितम्बं चिन्त्यमीशितुः ।
स्वर्णमञ्जीरसंवीतं आरूढं जगदम्बया ॥ 3॥
उदरं चिन्त्यं ईशस्य तनुत्वेऽपि अखिलम्भरम् ।
वलित्रयाङ्कितं नित्यं आरूढं श्रियैकया ॥ 4॥
स्मरणीयमुरो विष्णोः इन्दिरावासमुत्तमैः । वर्
इन्दिरावासमीशितुः इन्दिरावासमुत्तमम्
अनन्तं अन्तवदिव भुजयोरन्तरङ्गतम् ॥ 5॥
शङ्खचक्रगदापद्मधराश्चिन्त्या हरेर्भुजाः ।
पीनवृत्ता जगद्रक्षा केवलोद्योगिनोऽनिशम् ॥ 6॥
सन्ततं चिन्तयेत्कण्ठं भास्वत्कौस्तुभभासकम् ।
वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेऽनिशं यतः ॥ 7॥
स्मरेत यामिनीनाथ सहस्रामितकान्तिमत् ।
भवतापापनोदीड्यं श्रीपतेः मुखपङ्कजम् ॥ 8॥
पूर्णानन्यसुखोद्भासिं अन्दस्मितमधीशितुः ।
गोविन्दस्य सदा चिन्त्यं नित्यानन्दपदप्रदम् ॥ 9॥
स्मरामि भवसन्ताप हानिदामृतसागरम् ।
पूर्णानन्दस्य रामस्य सानुरागावलोकनम् ॥ 10॥
ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् ।
भ्रूभङ्गं पारमेष्ठ्यादि पददायि विमुक्तिदम् ॥ 11॥
सन्ततं चिन्तयेऽनन्तं अन्तकाले । (अन्त्यकाले विशेषतः)
नैवोदापुः गृणन्तोऽन्तं यद्गुणानां अजादयः ॥ 12॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु प्रथमस्तोत्रं सम्पूर्णम्
अक्सर पूछे जाने वाले प्रश्न
What is श्री मध्वाचार्य कृत द्वादश स्तोत्र - प्रथमस्तोत्रम्?
श्री मध्वाचार्य कृत द्वादश स्तोत्र - प्रथमस्तोत्रम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Hindi. Use the language selector to view another available edition.
Can I read श्री मध्वाचार्य कृत द्वादश स्तोत्र - प्रथमस्तोत्रम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री मध्वाचार्य कृत द्वादश स्तोत्र - प्रथमस्तोत्रम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.