श्री गुरुगीता द्वितीयोध्यायः
अथ द्वितीयोऽध्यायः ॥
ध्यानं श्रुणु महादेवि सर्वानन्दप्रदायकम् ।
सर्वसौख्यकरं चैव भुक्तिमुक्तिप्रदायकम् ॥ 109 ॥
श्रीमत्परं ब्रह्म गुरुं स्मरामि
श्रीमत्परं ब्रह्म गुरुं भजामि ।
श्रीमत्परं ब्रह्म गुरुं वदामि
श्रीमत्परं ब्रह्म गुरुं नमामि ॥ 110 ॥
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ 111 ॥
हृदम्बुजे कर्णिकमध्यसंस्थे
सिंहासने संस्थितदिव्यमूर्तिम् ।
ध्यायेद्गुरुं चन्द्रकलाप्रकाशं
सच्चित्सुखाभीष्टवरं दधानम् ॥ 112 ॥
श्वेताम्बरं श्वेतविलेपपुष्पं
मुक्ताविभूषं मुदितं द्विनेत्रम् ।
वामाङ्कपीठस्थितदिव्यशक्तिं
मन्दस्मितं पूर्णकृपानिधानम् ॥ 113 ॥
आनन्दमानन्दकरं प्रसन्नं
ज्ञानस्वरूपं निजभावयुक्तम् ।
योगीन्द्रमीड्यं भवरोगवैद्यं
श्रीमद्गुरुं नित्यमहं नमामि ॥ 114 ॥
वन्दे गुरूणां चरणारविन्दं
सन्दर्शितस्वात्मसुखावबोधे ।
जनस्य ये जाङ्गलिकायमाने
संसारहालाहलमोहशान्त्यै ॥ 115 ॥
यस्मिन् सृष्टिस्थितिध्वंसनिग्रहानुग्रहात्मकम् ।
कृत्यं पञ्चविधं शश्वत् भासते तं गुरुं भजेत् ॥ 116 ॥
पादाब्जे सर्वसंसारदावकालानलं स्वके ।
ब्रह्मरन्ध्रे स्थिताम्भोजमध्यस्थं चन्द्रमण्डलम् ॥ 117 ॥
अकथादित्रिरेखाब्जे सहस्रदलमण्डले ।
हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् ॥ 118 ॥
नित्यं शुद्धं निराभासं निराकारं निरञ्जनम् ।
नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् ॥ 119 ॥
सकलभुवनसृष्टिः कल्पिताशेषसृष्टिः
निखिलनिगमदृष्टिः सत्पदार्थैकसृष्टिः ।
अतद्गणपरमेष्टिः सत्पदार्थैकदृष्टिः
भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ॥ 120 ॥
सकलभुवनरङ्गस्थापनास्तम्भयष्टिः
सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः ।
सकलसमयसृष्टिस्सच्चिदानन्ददृष्टिः
निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ॥ 121 ॥
न गुरोरधिकं न गुरोरधिकं
न गुरोरधिकं न गुरोरधिकम् ।
शिवशासनतः शिवशासनतः
शिवशासनतः शिवशासनतः ॥ 122 ॥
इदमेव शिवं इदमेव शिवं
इदमेव शिवं इदमेव शिवम् ।
हरिशासनतो हरिशासनतो
हरिशासनतो हरिशासनतः ॥ 123 ॥
विदितं विदितं विदितं विदितं
विजनं विजनं विजनं विजनम् ।
विधिशासनतो विधिशासनतो
विधिशासनतो विधिशासनतः ॥ 124 ॥
एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् ।
तदा गुरूपदेशेन मुक्तोऽहमिति भावयेत् ॥ 125 ॥
गुरूपदिष्टमार्गेण मनश्शुद्धिं तु कारयेत् ।
अनित्यं खण्डयेत्सर्वं यत्किञ्चिदात्मगोचरम् ॥ 126 ॥
ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते ।
ज्ञानं ज्ञेयं समं कुर्यान्नान्यः पन्था द्वितीयकः ॥ 127 ॥
किमत्र बहुनोक्तेन शास्त्रकोटिशतैरपि ।
दुर्लभा चित्तविश्रान्तिः विना गुरुकृपां पराम् ॥ 128 ॥
करुणाखड्गपातेन छित्वा पाशाष्टकं शिशोः ।
सम्यगानन्दजनकः सद्गुरुः सोऽभिधीयते ॥ 129 ॥
एवं श्रुत्वा महादेवि गुरुनिन्दां करोति यः ।
स याति नरकान् घोरान् यावच्चन्द्रदिवाकरौ ॥ 130 ॥
यावत्कल्पान्तको देहस्तावद्देवि गुरुं स्मरेत् ।
गुरुलोपो न कर्तव्यः स्वच्छन्दो यदि वा भवेत् ॥ 131 ॥
हुङ्कारेण न वक्तव्यं प्राज्ञशिष्यैः कदाचन ।
गुरोरग्र न वक्तव्यमसत्यं तु कदाचन ॥ 132 ॥
गुरुं त्वङ्कृत्य हुङ्कृत्य गुरुसान्निध्यभाषणः ।
अरण्ये निर्जले देशे सम्भवेद् ब्रह्मराक्षसः ॥ 133 ॥
अद्वैतं भावयेन्नित्यं सर्वावस्थासु सर्वदा ।
कदाचिदपि नो कुर्यादद्वैतं गुरुसन्निधौ ॥ 134 ॥
दृश्यविस्मृतिपर्यन्तं कुर्याद् गुरुपदार्चनम् ।
तादृशस्यैव कैवल्यं न च तद्व्यतिरेकिणः ॥ 135 ॥
अपि सम्पूर्णतत्त्वज्ञो गुरुत्यागी भवेद्यदा ।
भवत्येव हि तस्यान्तकाले विक्षेपमुत्कटम् ॥ 136 ॥
गुरुकार्यं न लङ्घेत नापृष्ट्वा कार्यमाचरेत् ।
न ह्युत्तिष्ठेद्दिशेऽनत्वा गुरुसद्भावशोभितः ॥ 137 ॥
गुरौ सति स्वयं देवि परेषां तु कदाचन ।
उपदेशं न वै कुर्यात् तथा चेद्राक्षसो भवेत् ॥ 138 ॥
न गुरोराश्रमे कुर्यात् दुष्पानं परिसर्पणम् ।
दीक्षा व्याख्या प्रभुत्वादि गुरोराज्ञां न कारयेत् ॥ 139 ॥
नोपाश्रयं च पर्यकं न च पादप्रसारणम् ।
नाङ्गभोगादिकं कुर्यान्न लीलामपरामपि ॥ 140 ॥
गुरूणां सदसद्वाऽपि यदुक्तं तन्न लङ्घयेत् ।
कुर्वन्नाज्ञां दिवा रात्रौ दासवन्निवसेद्गुरो ॥ 141 ॥
अदत्तं न गुरोर्द्रव्यमुपभुञ्जीत कर्हिचित् ।
दत्ते च रङ्कवद्ग्राह्यं प्राणोऽप्येतेन लभ्यते ॥ 142 ॥
पादुकासनशय्यादि गुरुणा यदभीष्टितम् ।
नमस्कुर्वीत तत्सर्वं पादाभ्यां न स्पृशेत् क्वचित् ॥ 143 ॥
गच्छतः पृष्ठतो गच्छेत् गुरुच्छायां न लङ्घयेत् ।
नोल्बणं धारयेद्वेषं नालङ्कारांस्ततोल्बणान् ॥ 144 ॥
गुरुनिन्दाकरं दृष्ट्वा धावयेदथ वासयेत् ।
स्थानं वा तत्परित्याज्यं जिह्वाच्छेदाक्षमो यदि ॥ 145 ॥
नोच्छिष्टं कस्यचिद्देयं गुरोराज्ञां न च त्यजेत् ।
कृत्स्नमुच्छिष्टमादाय हविरिव भक्षयेत्स्वयम् ॥ 146 ॥
नाऽनृतं नाऽप्रियं चैव न गर्वं नाऽपि वा बहु ।
न नियोगपरं ब्रूयात् गुरोराज्ञां विभावयेत् ॥ 147 ॥
प्रभो देवकुलेशानां स्वामिन् राजन् कुलेश्वर ।
इति सम्बोधनैर्भीतो गुरुभावेन सर्वदा ॥ 148 ॥
मुनिभिः पन्नगैर्वापि सुरैर्वा शापितो यदि ।
कालमृत्युभयाद्वापि गुरुः सन्त्राति पार्वति ॥ 149 ॥
अशक्ता हि सुराद्याश्च ह्यशक्ताः मुनयस्तथा ।
गुरुशापोपपन्नस्य रक्षणाय च कुत्रचित् ॥ 150 ॥
मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम् ।
स्मृतिवेदपुराणानां सारमेव न संशयः ॥ 151 ॥
सत्कारमानपूजार्थं दण्डकाषयधारणः ।
स सन्न्यासी न वक्तव्यः सन्न्यासी ज्ञानतत्परः ॥ 152 ॥
विजानन्ति महावाक्यं गुरोश्चरण सेवया ।
ते वै सन्न्यासिनः प्रोक्ता इतरे वेषधारिणः ॥ 153 ॥
[पाठभेदः –
नित्यं ब्रह्म निराकारं निर्गुणं बोधयेत्परम् ।
भासयन् ब्रह्मभावं च दीपो दीपान्तरं यथा ॥
]
नित्यं ब्रह्म निराकारं निर्गुणं सत्यचिद्धनम् ।
यः साक्षात्कुरुते लोके गुरुत्वं तस्य शोभते ॥ 154 ॥
गुरुप्रसादतः स्वात्मन्यात्मारामनिरीक्षणात् ।
समता मुक्तिमार्गेण स्वात्मज्ञानं प्रवर्तते ॥ 155 ॥
आब्रह्मस्तम्बपर्यन्तं परमात्मस्वरूपकम् ।
स्थावरं जङ्गमं चैव प्रणमामि जगन्मयम् ॥ 156 ॥
वन्देऽहं सच्चिदानन्दं भावातीतं जगद्गुरुम् ।
नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम् ॥ 157 ॥
परात्परतरं ध्यायेन्नित्यमानन्दकारकम् ।
हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम् ॥ 158 ॥
स्फाटिके स्फाटिकं रूपं दर्पणे दर्पणो यथा ।
तथाऽऽत्मनि चिदाकारमानन्दं सोऽहमित्युत ॥ 159 ॥
अङ्गुष्ठमात्रं पुरुषं ध्यायेच्च चिन्मयं हृदि ।
तत्र स्फुरति यो भावः शृणु तत्कथयामि ते ॥ 160 ॥
अजोऽहममरोऽहं च अनादिनिधनो ह्यहम् ।
अविकारश्चिदानन्दो ह्यणीयान्महतो महान् ॥ 161 ॥
अपूर्वमपरं नित्यं स्वयञ्ज्योतिर्निरामयम् ।
विरजं परमाकाशं ध्रुवमानन्दमव्ययम् ॥ 162 ॥
अगोचरं तथाऽगम्यं नामरूपविवर्जितम् ।
निश्शब्दं तु विजानीयात्स्वभावाद्ब्रह्म पार्वति ॥ 163 ॥
यथा गन्धस्वभावत्वं कर्पूरकुसुमादिषु ।
शीतोष्णत्वस्वभावत्वं तथा ब्रह्मणि शाश्वतम् ॥ 164 ॥
यथा निजस्वभावेन कुण्डले कटकादयः ।
सुवर्णत्वेन तिष्ठन्ति तथाऽहं ब्रह्म शाश्वतम् ॥ 165 ॥
स्वयं तथाविधो भूत्वा स्थातव्यं यत्र कुत्र चित् ।
कीटो भृङ्ग इव ध्यानाद्यथा भवति तादृशः ॥ 166 ॥
गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत् ।
पिण्डे पदे तथा रूपे मुक्तास्ते नात्र संशयः ॥ 167 ॥
श्रीपार्वती उवाच ।
पिण्डं किं तु महादेव पदं किं समुदाहृतम् ।
रूपातीतं च रूपं किं एतदाख्याहि शङ्कर ॥ 168 ॥
श्रीमहादेव उवाच ।
पिण्डं कुण्डलिनी शक्तिः पदं हंसमुदाहृतम् ।
रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् ॥ 169 ॥
पिण्डे मुक्ताः पदे मुक्ता रूपे मुक्ता वरानने ।
रूपातीते तु ये मुक्तास्ते मुक्ता नाऽत्र संशयः ॥ 170 ॥
गुरुर्ध्यानेनैव नित्यं देही ब्रह्ममयो भवेत् ।
स्थितश्च यत्र कुत्राऽपि मुक्तोऽसौ नाऽत्र संशयः ॥ 171 ॥
ज्ञानं वैराग्यमैश्वर्यं यशश्रीः स्वमुदाहृतम् ।
षड्गुणैश्वर्ययुक्तो हि भगवान् श्रीगुरुः प्रिये ॥ 172 ॥
गुरुश्शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम् ।
गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते ॥ 173 ॥
एकाकी निस्स्पृहः शान्तश्चिन्ताऽसूयादिवर्जितः ।
बाल्यभावेन यो भाति ब्रह्मज्ञानी स उच्यते ॥ 174 ॥
न सुखं वेदशास्त्रेषु न सुखं मन्त्रयन्त्रके ।
गुरोः प्रसादादन्यत्र सुखं नास्ति महीतले ॥ 175 ॥
चार्वाकवैष्णवमते सुखं प्राभाकरे न हि ।
गुरोः पादान्तिके यद्वत्सुखं वेदान्तसम्मतम् ॥ 176 ॥
न तत्सुखं सुरेन्द्रस्य न सुखं चक्रवर्तिनाम् ।
यत्सुखं वीतरागस्य मुनेरेकान्तवासिनः ॥ 177 ॥
नित्यं ब्रह्मरसं पीत्वा तृप्तो यः परमात्मनि ।
इन्द्रं च मन्यते तुच्छं नृपाणां तत्र का कथा ॥ 178 ॥
यतः परमकैवल्यं गुरुमार्गेण वै भवेत् ।
गुरुभक्तिरतः कार्या सर्वदा मोक्षकाङ्क्षिभिः ॥ 179 ॥
एक एवाऽद्वितीयोऽहं गुरुवाक्येन निश्चितः ।
एवमभ्यस्यता नित्यं न सेव्यं वै वनान्तरम् ॥ 180 ॥
अभ्यासान्निमिषेणैव समाधिमधिगच्छति ।
आजन्मजनितं पापं तत्क्षणादेव नश्यति ॥ 181 ॥
किमावाहनमव्यक्ते व्यापके किं विसर्जनम् ।
अमूर्ते च कथं पूजा कथं ध्यानं निरामये ॥ 182 ॥
गुरुर्विष्णुः सत्त्वमयो राजसश्चतुराननः ।
तामसो रुद्ररूपेण सृजत्यवति हन्ति च ॥ 183 ॥
स्वयं ब्रह्ममयो भूत्वा तत्परं चावलोकयेत् ।
परात्परतरं नान्यत् सर्वगं तन्निरामयम् ॥ 184 ॥
तस्यावलोकनं प्राप्य सर्वसङ्गविवर्जितः ।
एकाकी निस्स्पृहः शान्तः स्थातव्यं तत्प्रसादतः ॥ 185 ॥
लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा ।
निष्कामेनैव भोक्तव्यं सदा सन्तुष्टमानसः ॥ 186 ॥
सर्वज्ञपदमित्याहुर्देही सर्वमयो भुवि ।
सदाऽऽनन्दः सदा शान्तो रमते यत्र कुत्र चित् ॥ 187 ॥
यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनः ।
मुक्तस्य लक्षणं देवि तवाऽग्रे कथितं मया ॥ 188 ॥
उपदेशस्त्वयं देवि गुरुमार्गेण मुक्तिदः ।
गुरुभक्तिः तथाऽत्यन्ता कर्तव्या वै मनीषिभिः ॥ 189 ॥
नित्ययुक्ताश्रयः सर्ववेदकृत्सर्ववेदकृत् ।
स्वपरज्ञानदाता च तं वन्दे गुरुमीश्वरम् ॥ 190 ॥
यद्यप्यधीता निगमाः षडङ्गा आगमाः प्रिये ।
अध्यात्मादीनि शास्त्राणि ज्ञानं नास्ति गुरुं विना ॥ 191 ॥
शिवपूजारतो वाऽपि विष्णुपूजारतोऽथवा ।
गुरुतत्त्वविहीनश्चेत्तत्सर्वं व्यर्थमेव हि ॥ 192 ॥
शिवस्वरूपमज्ञात्वा शिवपूजा कृता यदि ।
सा पूजा नाममात्रं स्याच्चित्रदीप इव प्रिये ॥ 193 ॥
सर्वं स्यात्सफलं कर्म गुरुदीक्षाप्रभावतः ।
गुरुलाभात्सर्वलाभो गुरुहीनस्तु बालिशः ॥ 194 ॥
गुरुहीनः पशुः कीटः पतङ्गो वक्तुमर्हति ।
शिवरूपं स्वरूपं च न जानाति यतस्स्वयम् ॥ 195 ॥
तस्मात्सर्वप्रयत्नेन सर्वसङ्गविवर्जितः ।
विहाय शास्त्रजालानि गुरुमेव समाश्रयेत् ॥ 196 ॥
निरस्तसर्वसन्देहो एकीकृत्य सुदर्शनम् ।
रहस्यं यो दर्शयति भजामि गुरुमीश्वरम् ॥ 197 ॥
ज्ञानहीनो गुरुस्त्याज्यो मिथ्यावादी विडम्बकः ।
स्वविश्रान्तिं न जानाति परशान्तिं करोति किम् ॥ 198 ॥
शिलायाः किं परं ज्ञानं शिलासङ्घप्रतारणे ।
स्वयं तर्तुं न जानाति परं निस्तारयेत् कथम् ॥ 199 ॥
न वन्दनीयास्ते कष्टं दर्शनाद्भ्रान्तिकारकाः ।
वर्जयेत्तान् गुरून् दूरे धीरस्य तु समाश्रयेत् ॥ 200 ॥
पाषण्डिनः पापरताः नास्तिका भेदबुद्धयः ।
स्त्रीलम्पटा दुराचाराः कृतघ्ना बकवृत्तयः ॥ 201 ॥
कर्मभ्रष्टाः क्षमानष्टा निन्द्यतर्कैश्च वादिनः ।
कामिनः क्रोधिनश्चैव हिंस्राश्चण्डाः शठास्तथा ॥ 202 ॥
ज्ञानलुप्ता न कर्तव्या महापापास्तथा प्रिये ।
एभ्यो भिन्नो गुरुः सेव्यः एकभक्त्या विचार्य च ॥ 203 ॥
शिष्यादन्यत्र देवेशि न वदेद्यस्य कस्यचित् ।
नराणां च फलप्राप्तौ भक्तिरेव हि कारणम् ॥ 204 ॥
गूढो दृढश्च प्रीतश्च मौनेन सुसमाहितः ।
सकृत्कामगतो वाऽपि पञ्चधा गुरुरीरितः ॥ 205 ॥
सर्वं गुरुमुखाल्लब्धं सफलं पापनाशनम् ।
यद्यदात्महितं वस्तु तत्तद्द्रव्यं न वञ्चयेत् ॥ 206 ॥
गुरुदेवार्पणं वस्तु तेन तुष्टोऽस्मि सुव्रते ।
श्रीगुरोः पादुकां मुद्रां मूलमन्त्रं च गोपयेत् ॥ 207 ॥
नताऽस्मि ते नाथ पदारविन्दं
बुद्धीन्द्रियप्राणमनोवचोभिः ।
यच्चिन्त्यते भावित आत्मयुक्तौ
मुमुक्षिभिः कर्ममयोपशान्तये ॥ 208 ॥
अनेन यद्भवेत्कार्यं तद्वदामि तव प्रिये ।
लोकोपकारकं देवि लौकिकं तु विवर्जयेत् ॥ 209 ॥
लौकिकाद्धर्मतो याति ज्ञानहीनो भवार्णवे ।
ज्ञानभावे च यत्सर्वं कर्म निष्कर्म शाम्यति ॥ 210 ॥
इमां तु भक्तिभावेन पठेद्वै शृणुयादपि ।
लिखित्वा यत्प्रदानेन तत्सर्वं फलमश्नुते ॥ 211 ॥
गुरुगीतामिमां देवि हृदि नित्यं विभावय ।
महाव्याधिगतैर्दुःखैः सर्वदा प्रजपेन्मुदा ॥ 212 ॥
गुरुगीताक्षरैकैकं मन्त्रराजमिदं प्रिये ।
अन्ये च विविधाः मन्त्राः कलां नार्हन्ति षोडशीम् ॥ 213 ॥
अनन्त फलमाप्नोति गुरुगीता जपेन तु ।
सर्वपापहरा देवि सर्वदारिद्र्यनाशिनी ॥ 214 ॥
अकालमृत्युहरा चैव सर्वसङ्कटनाशिनी ।
यक्षराक्षसभूतादिचोरव्याघ्रविघातिनी ॥ 215 ॥
सर्वोपद्रवकुष्ठादिदुष्टदोषनिवारिणी ।
यत्फलं गुरुसान्निध्यात्तत्फलं पठनाद्भवेत् ॥ 216 ॥
महाव्याधिहरा सर्वविभूतेः सिद्धिदा भवेत् ।
अथवा मोहने वश्ये स्वयमेव जपेत्सदा ॥ 217 ॥
कुशदूर्वासने देवि ह्यासने शुभ्रकम्बले ।
उपविश्य ततो देवि जपेदेकाग्रमानसः ॥ 218 ॥
शुक्लं सर्वत्र वै प्रोक्तं वश्ये रक्तासनं प्रिये ।
पद्मासने जपेन्नित्यं शान्तिवश्यकरं परम् ॥ 219 ॥
वस्त्रासने च दारिद्र्यं पाषाणे रोगसम्भवः ।
मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम् ॥ 220 ॥
कृष्णाजिने ज्ञानसिद्धिः मोक्षश्रीर्व्याघ्रचर्मणि ।
कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कम्बले ॥ 221 ॥
आग्नेय्यां कर्षणं चैव वायव्यां शत्रुनाशनम् ।
नैरृत्यां दर्शनं चैव ईशान्यां ज्ञानमेव च ॥ 222 ॥
उदङ्मुखः शान्तिजाप्ये वश्ये पूर्वमुखस्तथा ।
याम्ये तु मारणं प्रोक्तं पश्चिमे च धनागमः ॥ 223 ॥
मोहनं सर्वभूतानां बन्धमोक्षकरं परम् ।
देवराजप्रियकरं राजानं वशमानयेत् ॥ 224 ॥
मुखस्तम्भकरं चैव गुणानां च विवर्धनम् ।
दुष्कर्मनाशनं चैव तथा सत्कर्मसिद्धिदम् ॥ 225 ॥
असिद्धं साधयेत्कार्यं नवग्रहभयापहम् ।
दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम् ॥ 226 ॥
मोहशान्तिकरं चैव बन्धमोक्षकरं परम् ।
स्वरूपज्ञाननिलयं गीताशास्त्रमिदं शिवे ॥ 227 ॥
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चयम् ।
नित्यं सौभाग्यदं पुण्यं तापत्रयकुलापहम् ॥ 228 ॥
सर्वशान्तिकरं नित्यं तथा वन्ध्या सुपुत्रदम् ।
अवैधव्यकरं स्त्रीणां सौभाग्यस्य विवर्धनम् ॥ 229 ॥
आयुरारोग्यमैश्वर्यं पुत्रपौत्रविवर्धनम् ।
निष्कामजापी विधवा पठेन्मोक्षमवाप्नुयात् ॥ 230 ॥
अवैधव्यं सकामा तु लभते चान्यजन्मनि ।
सर्वदुःखमयं विघ्नं नाशयेत्तापहारकम् ॥ 231 ॥
सर्वपापप्रशमनं धर्मकामार्थमोक्षदम् ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ 232 ॥
काम्यानां कामधेनुर्वै कल्पते कल्पपादपः ।
चिन्तामणिश्चिन्तितस्य सर्वमङ्गलकारकम् ॥ 233 ॥
लिखित्वा पूजयेद्यस्तु मोक्षश्रियमवाप्नुयात् ।
गुरूभक्तिर्विशेषेण जायते हृदि सर्वदा ॥ 234 ॥
जपन्ति शाक्ताः सौराश्च गाणपत्याश्च वैष्णवाः ।
शैवाः पाशुपताः सर्वे सत्यं सत्यं न संशयः ॥ 235 ॥
इति श्रीस्कन्दपुराणे उत्तरखण्डे उमामहेश्वर संवादे
श्री गुरुगीतायां द्वितीयोऽध्यायः ॥
अक्सर पूछे जाने वाले प्रश्न
What is श्री गुरुगीता द्वितीयोध्यायः?
श्री गुरुगीता द्वितीयोध्यायः is a Bhagavad Gita available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Hindi. Use the language selector to view another available edition.
Can I read श्री गुरुगीता द्वितीयोध्यायः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download श्री गुरुगीता द्वितीयोध्यायः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.