श्रि दत्त स्तवम्


श्री गणेशाय नमः श्री सरस्वत्यै नमः
श्रीपादवल्लभ नरसिंहसरस्वति
श्रीगुरु दत्तात्रेयाय नमः

दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् ।
प्रपन्नार्तिहरं वन्दे स्मर्तृगामि सनोवतु ॥ 1 ॥

दीनबन्धुं कृपासिन्धुं सर्वकारणकारणम् ।
सर्वरक्षाकरं वन्दे स्मर्तृगामि सनोवतु ॥ 2 ॥

शरणागतदीनार्त परित्राणपरायणम् ।
नारायणं विभुं वन्दे स्मर्तृगामि सनोवतु ॥ 3 ॥

सर्वानर्थहरं देवं सर्वमङ्गल मङ्गलम् ।
सर्वक्लेशहरं वन्दे स्मर्तृगामि सनोवतु ॥ 4 ॥

ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् ।
भक्ताऽभीष्टप्रदं वन्दे स्मर्तृगामि सनोवतु ॥ 5 ॥

शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ।
तापप्रशमनं वन्दे स्मर्तृगामि सनोवतु ॥ 6 ॥

सर्वरोगप्रशमनं सर्वपीडानिवारणम् ।
विपदुद्धरणं वन्दे स्मर्तृगामि सनोवतु ॥ 7 ॥

जन्मसंसारबन्धघ्नं स्वरूपानन्ददायकम् ।
निश्श्रेयसपदं वन्दे स्मर्तृगामि सनोवतु ॥ 8 ॥

जय लाभ यशः काम दातुर्दत्तस्य यः स्तवम् ।
भोगमोक्षप्रदस्येमं प्रपठेत् सुकृती भवेत् ॥9 ॥

श्री गणेशाय नमः श्री सरस्वत्यै नमः
श्रीपादवल्लभ नरसिंहसरस्वति
श्रीगुरु दत्तात्रेयाय नमः

अक्सर पूछे जाने वाले प्रश्न

What is श्रि दत्त स्तवम्?

श्रि दत्त स्तवम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Hindi. Use the language selector to view another available edition.

Can I read श्रि दत्त स्तवम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download श्रि दत्त स्तवम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook