पतञ्जलि योग सूत्राणि – 4 (कैवल्य पादः)
अथ कैवल्यपादः ।
जन्मौषधिमन्त्रतपस्समाधिजाः सिद्धयः ॥1॥
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥2॥
निमित्तमप्रयोजकं प्रकृतीनांवरणभेदस्तु ततः क्षेत्रिकवत् ॥3॥
निर्माणचित्तान्यस्मितामात्रात् ॥4॥
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥5॥
तत्र ध्यानजमनाशयम् ॥6॥
कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम् ॥7॥
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥8॥
जाति देश काल व्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोः एकरूपत्वात् ॥9॥
तासामनादित्वं चाशिषो नित्यत्वात् ॥10॥
हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वातेषामभावेतदभावः ॥11॥
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥12॥
ते व्यक्तसूक्ष्माः गुणात्मानः ॥13॥
परिणामैकत्वात् वस्तुतत्त्वम् ॥14॥
वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥15॥
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥16॥
तदुपरागापेक्षित्वात् चित्तस्य वस्तुज्ञाताज्ञातम् ॥17॥
सदाज्ञाताः चित्तवृत्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥18॥
न तत्स्वाभासं दृश्यत्वात् ॥19॥
एक समये चोभयानवधारणम् ॥20॥
चित्तान्तर दृश्ये बुद्धिबुद्धेः अतिप्रसङ्गः स्मृतिसङ्करश्च ॥21॥
चितेरप्रतिसङ्क्रमायाः तदाकारापत्तौ स्वबुद्धि संवेदनम् ॥22॥
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥23॥
तदसङ्ख्येय वासनाभिः चित्रमपि परार्थं संहत्यकारित्वात् ॥24॥
विशेषदर्शिनः आत्मभावभावनानिवृत्तिः ॥25॥
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥26॥
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥27॥
हानमेषां क्लेशवदुक्तम् ॥28॥
प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेः धर्ममेघस्समाधिः ॥29॥
ततः क्लेशकर्मनिवृत्तिः ॥30॥
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यात् ज्ञेयमल्पम् ॥31॥
ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥32॥
क्षणप्रतियोगी परिणामापरान्त निर्ग्राह्यः क्रमः ॥33॥
पुरुषार्थशून्यानां गुणानाम्प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥34॥
इति पातञ्जलयोगदर्शने कैवल्यपादो नाम चतुर्थः पादः ।
अक्सर पूछे जाने वाले प्रश्न
What is पतञ्जलि योग सूत्राणि - 4 (कैवल्य पादः)?
पतञ्जलि योग सूत्राणि - 4 (कैवल्य पादः) is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Hindi. Use the language selector to view another available edition.
Can I read पतञ्जलि योग सूत्राणि - 4 (कैवल्य पादः) online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download पतञ्जलि योग सूत्राणि - 4 (कैवल्य पादः) as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.