नवग्रह स्तोत्रम्


नवग्रह ध्यान श्लोकम्
आदित्याय च सोमाय मङ्गलाय बुधाय च ।
गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ॥

रविः
जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम् ।
तमोऽरिं सर्व पापघ्नं प्रणतोस्मि दिवाकरम् ॥

चन्द्रः
दधिशङ्ख तुषाराभं क्षीरार्णव समुद्भवम् (क्षीरोदार्णव सम्भवम्) ।
नमामि शशिनं सोमं शम्भो-र्मकुट भूषणम् ॥

कुजः
धरणी गर्भ सम्भूतं विद्युत्कान्ति समप्रभम् ।
कुमारं शक्तिहस्तं तं कुजं [मङ्गलं] प्रणमाम्यहम् ॥

बुधः
प्रियङ्गु कलिकाश्यामं रूपेणा प्रतिमं बुधम् ।
सौम्यं सौम्य (सत्व) गुणोपेतं तं बुधं प्रणमाम्यहम् ॥

गुरुः
देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम् ।
बुद्धिमन्तं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥

शुक्रः
हिमकुन्द मृणालाभं दैत्यानं परमं गुरुम् ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ॥

शनिः
नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् ।
छाया मार्ताण्ड सम्भूतं तं नमामि शनैश्चरम् ॥

राहुः
अर्धकायं महावीरं चन्द्रादित्य विमर्धनम् ।
सिंहिका गर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ॥

केतुः
पलाश पुष्प सङ्काशं तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥

फलश्रुतिः
इति व्यास मुखोद्गीतं यः पठेत्सु समाहितः ।
दिवा वा यदि वा रात्रौ विघ्नशान्ति-र्भविष्यति ॥

नरनारी-नृपाणां च भवे-द्दुःस्वप्न-नाशनम् ।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टि वर्धनम् ॥

ग्रहनक्षत्रजाः पीडास्तस्कराग्नि समुद्भवाः ।
तास्सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ॥

इति व्यास विरचितं नवग्रह स्तोत्रं सम्पूर्णम् ।

अक्सर पूछे जाने वाले प्रश्न

What is नवग्रह स्तोत्रम्?

नवग्रह स्तोत्रम् is a devotional text available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Hindi. Use the language selector to view another available edition.

Can I read नवग्रह स्तोत्रम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नवग्रह स्तोत्रम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook