नवग्रह कवचम्


शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः ।
मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः ॥ 1 ॥

बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः ।
जठरं च शनिः पातु जिह्वां मे दितिनन्दनः ॥ 2 ॥

पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव च ।
तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा ॥ 3 ॥

अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव च ।
गुह्यं लिङ्गं सदा पान्तु सर्वे ग्रहाः शुभप्रदाः ॥ 4 ॥

अणिमादीनि सर्वाणि लभते यः पठेद् धृवम् ।
एतां रक्षां पठेद् यस्तु भक्त्या स प्रयतः सुधीः ॥ 5 ॥

स चिरायुः सुखी पुत्री रणे च विजयी भवेत् ।
अपुत्रो लभते पुत्रं धनार्थी धनमाप्नुयात् ॥ 6 ॥

दारार्थी लभते भार्यां सुरूपां सुमनोहराम् ।
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ 7 ॥

जले स्थले चान्तरिक्षे कारागारे विशेषतः ।
यः करे धारयेन्नित्यं भयं तस्य न विद्यते ॥ 8 ॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
सर्वपापैः प्रमुच्येत कवचस्य च धारणात् ॥ 9 ॥

नारी वामभुजे धृत्वा सुखैश्वर्यसमन्विता ।
काकवन्ध्या जन्मवन्ध्या मृतवत्सा च या भवेत् ।
बह्वपत्या जीववत्सा कवचस्य प्रसादतः ॥ 10 ॥

इति ग्रहयामले उत्तरखण्डे नवग्रह कवचं समाप्तम् ।

अक्सर पूछे जाने वाले प्रश्न

What is नवग्रह कवचम्?

नवग्रह कवचम् is a Kavachams available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Hindi. Use the language selector to view another available edition.

Can I read नवग्रह कवचम् online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download नवग्रह कवचम् as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook