नारायणीयं दशक 64 – गोविन्दपट्टाभिषेकम्
आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः ।
विश्वेश्वरं त्वामभिमत्य विश्वे नन्दं भवज्जातकमन्वपृच्छन् ॥1॥
गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः ।
पूर्वाधिकस्त्वय्यनुराग एषामैधिष्ट तावत् बहुमानभारः ॥2॥
ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या।
उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ॥3॥
स्नेहस्नुतैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् ।
ऐरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ॥4॥
जगत्त्रयेशे त्वयि गोकुलेशे तथाऽभिषिक्ते सति गोपवाटः ।
नाकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥5॥
कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषेण ।
नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥6॥
ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् ।
उपागतस्तत्क्षणमात्मगेहं पिताऽवदत्तच्चरितं निजेभ्यः ॥7॥
हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् ॥
निरीक्ष्य विष्णो परमं पदं तद्दुरापमन्यैस्त्वमदीदृशस्तान् ॥8॥
स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ ।
चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन् पुनरुद्धृतास्ते ॥9॥
करबदरवदेवं देव कुत्रावतारे
निजपदमनवाप्यं दर्शितं भक्तिभाजाम् ।
तदिह पशुपरूपी त्वं हि साक्षात् परात्मा
पवनपुरनिवासिन् पाहि मामामयेभ्यः ॥10॥
अक्सर पूछे जाने वाले प्रश्न
What is नारायणीयं दशक 64 - गोविन्दपट्टाभिषेकम्?
नारायणीयं दशक 64 - गोविन्दपट्टाभिषेकम् is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Hindi. Use the language selector to view another available edition.
Can I read नारायणीयं दशक 64 - गोविन्दपट्टाभिषेकम् online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नारायणीयं दशक 64 - गोविन्दपट्टाभिषेकम् as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.