नारायणीयं दशक 45 – श्रीकृष्णस्य बाललीलाः
अयि सबल मुरारे पाणिजानुप्रचारैः
किमपि भवनभागान् भूषयन्तौ भवन्तौ ।
चलितचरणकञ्जौ मञ्जुमञ्जीरशिञ्जा-
श्रवणकुतुकभाजौ चेरतुश्चारुवेगात् ॥1॥
मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ
वदनपतितकेशौ दृश्यपादाब्जदेशौ ।
भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौ
मतिमहरतमुच्चैः पश्यतां विश्वनृणाम् ॥2॥
अनुसरति जनौघे कौतुकव्याकुलाक्षे
किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ ।
वलितवदनपद्मं पृष्ठतो दत्तदृष्टी
किमिव न विदधाथे कौतुकं वासुदेव ॥3॥
द्रुतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौ
दिवि मुनिभिरपङ्कैः सस्मितं वन्द्यमानौ ।
द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ
मुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च ॥4॥
स्नुतकुचभरमङ्के धारयन्ती भवन्तं
तरलमति यशोदा स्तन्यदा धन्यधन्या ।
कपटपशुप मध्ये मुग्धहासाङ्कुरं ते
दशनमुकुलहृद्यं वीक्ष्य वक्त्रं जहर्ष ॥5॥
तदनुचरणचारी दारकैस्साकमारा-
न्निलयततिषु खेलन् बालचापल्यशाली ।
भवनशुकविडालान् वत्सकांश्चानुधावन्
कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥6॥
हलधरसहितस्त्वं यत्र यत्रोपयातो
विवशपतितनेत्रास्तत्र तत्रैव गोप्यः ।
विगलितगृहकृत्या विस्मृतापत्यभृत्या
मुरहर मुहुरत्यन्ताकुला नित्यमासन् ॥7॥
प्रतिनवनवनीतं गोपिकादत्तमिच्छन्
कलपदमुपगायन् कोमलं क्वापि नृत्यन् ।
सदययुवतिलोकैरर्पितं सर्पिरश्नन्
क्वचन नवविपक्वं दुग्धमप्यापिबस्त्वम् ॥8॥
मम खलु बलिगेहे याचनं जातमास्ता-
मिह पुनरबलानामग्रतो नैव कुर्वे ।
इति विहितमतिः किं देव सन्त्यज्य याच्ञां
दधिघृतमहरस्त्वं चारुणा चोरणेन ॥9॥
तव दधिघृतमोषे घोषयोषाजनाना-
मभजत हृदि रोषो नावकाशं न शोकः ।
हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं
स मम शमय रोगान् वातगेहाधिनाथ ॥10॥
शाखाग्रे विधुं विलोक्य फलमित्य्म्बां च तातं मुहुः
सम्प्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि।
चित्रं देव शशी स ते कर्मगात् किं ब्रूमहे सम्पतः
ज्योतिर्मण्डलपूरिताखिलवपुः प्रागा विराड्रूपताम् ॥ 11॥
किं किं बतेदमिति सम्भ्रम भाजमेनं
ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् ।
मायां पुनस्तनय-मोहमयीं वितन्वन्
आनन्दचिन्मय जगन्मय पाहि रोगात् ॥12॥
अक्सर पूछे जाने वाले प्रश्न
What is नारायणीयं दशक 45 - श्रीकृष्णस्य बाललीलाः?
नारायणीयं दशक 45 - श्रीकृष्णस्य बाललीलाः is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Hindi. Use the language selector to view another available edition.
Can I read नारायणीयं दशक 45 - श्रीकृष्णस्य बाललीलाः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नारायणीयं दशक 45 - श्रीकृष्णस्य बाललीलाः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.