नारायणीयं दशक 4 – योगाभ्यासः तथा योगसिद्धिः
कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया ।
स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयाम् ॥1॥
ब्रह्मचर्यदृढतादिभिर्यमैराप्लवादिनियमैश्च पाविताः ।
कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥2॥
तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः ।
इन्द्रियाणि विषयादथापहृत्यास्महे भवदुपासनोन्मुखाः ॥3॥
अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः ।
तेन भक्तिरसमन्तरार्द्रतामुद्वहेम भवदङ्घ्रिचिन्तका ॥4॥
विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशात् ।
अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥5॥
ध्यायतां सकलमूर्तिमीदृशीमुन्मिषन्मधुरताहृतात्मनाम् ।
सान्द्रमोदरसरूपमान्तरं ब्रह्म रूपमयि तेऽवभासते ॥6॥
तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक ।
आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकम् ॥7॥
इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवाः ।
मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ॥8॥
त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा ।
योगवश्यमनिलं षडाश्रयैरुन्नयत्यज सुषुम्नया शनैः ॥9॥
लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः ।
ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ॥10॥
अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः ।
प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥11॥
आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणार्द्यते ।
ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥12॥
तत्र वा तव पदेऽथवा वसन् प्राकृतप्रलय एति मुक्तताम् ।
स्वेच्छया खलु पुरा विमुच्यते संविभिद्य जगदण्डमोजसा ॥13॥
तस्य च क्षितिपयोमहोऽनिलद्योमहत्प्रकृतिसप्तकावृतीः ।
तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतं विभो ॥14॥
अर्चिरादिगतिमीदृशीं व्रजन् विच्युतिं न भजते जगत्पते ।
सच्चिदात्मक भवत् गुणोदयानुच्चरन्तमनिलेश पाहि माम् ॥15॥
अक्सर पूछे जाने वाले प्रश्न
What is नारायणीयं दशक 4 - योगाभ्यासः तथा योगसिद्धिः?
नारायणीयं दशक 4 - योगाभ्यासः तथा योगसिद्धिः is a devotional text available on Bhakti Granth in the selected language or script.
Which language or script is this version in?
This edition is published in Hindi. Use the language selector to view another available edition.
Can I read नारायणीयं दशक 4 - योगाभ्यासः तथा योगसिद्धिः online?
Yes. The imported text is available directly on this page for online reading and recitation.
Can I download नारायणीयं दशक 4 - योगाभ्यासः तथा योगसिद्धिः as a PDF?
If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.
How can I share this page?
Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.
Are there related devotional texts on Bhakti Granth?
Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.