गीतगोविन्दं षष्टः सर्गः – कुण्ठ वैकुण्ठः


॥ षष्ठः सर्गः ॥
॥ कुण्ठवैकुण्ठः ॥

अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा ।
तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ 37 ॥

॥ गीतं 12 ॥

पश्यति दिशि दिशि रहसि भवन्तम् ।
तदधरमधुरमधूनि पिबन्तम् ॥
नाथ हरे जगन्नाथ हरे सीदति राधा वासगृहे – ध्रुवम् ॥ 1 ॥

त्वदभिसरणरभसेन वलन्ती ।
पतति पदानि कियन्ति चलन्ती ॥ 2 ॥

विहितविशदबिसकिसलयवलया ।
जीवति परमिह तव रतिकलया ॥ 3 ॥

मुहुरवलोकितमण्डनलीला ।
मधुरिपुरहमिति भावनशीला ॥ 4 ॥

त्वरितमुपैति न कथमभिसारम् ।
हरिरिति वदति सखीमनुवारम् ॥ 5 ॥

श्लिष्यति चुम्बति जलधरकल्पम् ।
हरिरुपगत इति तिमिरमनल्पम् ॥ 6 ॥

भवति विलम्बिनि विगलितलज्जा ।
विलपति रोदिति वासकसज्जा ॥ 7 ॥

श्रीजयदेवकवेरिदमुदितम् ।
रसिकजनं तनुतामतिमुदितम् ॥ 8 ॥

विपुलपुलकपालिः स्फीतसीत्कारमन्त-र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ।
तव कितव विधत्तेऽमन्दकन्दर्पचिन्तां रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ 38 ॥

अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि सञ्चारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत-व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ 39 ॥

किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि भ्रात र्याहि नदृष्टिगोचरमितस्सानन्दनन्दास्पदम्।
रधायावचनं तदध्वगमुखान्नन्दान्तिकेगोपतो गोविन्दस्यजयन्ति सायमतिथिप्राशस्त्यगर्भागिरः॥ 40 ॥

॥ इति गीतगोविन्दे वासकसज्जावर्णने कुण्ठवैकुण्ठो नाम षष्ठः सर्गः ॥

अक्सर पूछे जाने वाले प्रश्न

What is गीतगोविन्दं षष्टः सर्गः - कुण्ठ वैकुण्ठः?

गीतगोविन्दं षष्टः सर्गः - कुण्ठ वैकुण्ठः is a Bhagavad Gita available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Hindi. Use the language selector to view another available edition.

Can I read गीतगोविन्दं षष्टः सर्गः - कुण्ठ वैकुण्ठः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download गीतगोविन्दं षष्टः सर्गः - कुण्ठ वैकुण्ठः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook