गीतगोविन्दं तृतीयः सर्गः – मुग्ध मधुसूदनः


॥ तृतीयः सर्गः ॥
॥ मुग्धमधुसूदनः ॥

कंसारिरपि संसारवासनाबन्धशृङ्खलाम् ।
राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥ 18 ॥

इतस्ततस्तामनुसृत्य राधिका-मनङ्गबाणव्रणखिन्नमानसः ।
कृतानुतापः स कलिन्दनन्दिनी-तटान्तकुञ्जे विषसाद माधवः ॥ 19 ॥

॥ गीतं 7 ॥

मामियं चलिता विलोक्य वृतं वधूनिचयेन ।
सापराधतया मयापि न वारितातिभयेन ॥
हरि हरि हतादरतया गता सा कुपितेव ॥ 1 ॥

किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।
किं धनेन जनेन किं मम जीवनेन गृहेण ॥ 2 ॥

चिन्तयामि तदाननं कुटिलभ्रु कोपभरेण ।
शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण ॥ 3 ॥

तामहं हृदि सङ्गतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ 4 ॥

तन्वि खिन्नमसूयया हृदयं तवाकलयामि ।
तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥ 5 ॥

दृश्यते पुरतो गतागतमेव मे विदधासि ।
किं पुरेव ससम्भ्रमं परिरम्भणं न ददासि ॥ 6 ॥

क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥ 7 ॥

वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।
किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥ 8 ॥

हृदि बिसलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।
मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ 20 ॥

पाणौ मा कुरु चूतसायकममुं मा चापमारोपय क्रीडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषम् ।
तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षाशुग-श्रेणीजर्जरितं मनागपि मनो नाद्यापि सन्धुक्षते ॥ 21 ॥

भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् ।
मोहं तावदयं च तन्वि तनुतां बिम्बादरो रागवान् सद्वृत्तस्तनमण्दलस्तव कथं प्राणैर्मम क्रीडति ॥ 22 ॥

तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमा-स्तद्वक्त्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा ।
सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते ॥ 23 ॥

भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि बाणाः गुणः श्रवणपालिरिति स्मरेण ।
तस्यामनङ्गजयजङ्गमदेवतायां अस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ 24 ॥

[एषः श्लोकः केषुचन संस्करणेषु विद्यते]

तिर्यक्कण्ठ विलोल मौलि तरलोत्तं सस्य वंशोच्चरद्-
दीप्तिस्थान कृतावधान ललना लक्षैर्न संलक्षिताः ।
सम्मुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ सुधा-
सारे कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्म्मय ॥ (25) ॥

॥ इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥

अक्सर पूछे जाने वाले प्रश्न

What is गीतगोविन्दं तृतीयः सर्गः - मुग्ध मधुसूदनः?

गीतगोविन्दं तृतीयः सर्गः - मुग्ध मधुसूदनः is a Bhagavad Gita available on Bhakti Granth in the selected language or script.

Which language or script is this version in?

This edition is published in Hindi. Use the language selector to view another available edition.

Can I read गीतगोविन्दं तृतीयः सर्गः - मुग्ध मधुसूदनः online?

Yes. The imported text is available directly on this page for online reading and recitation.

Can I download गीतगोविन्दं तृतीयः सर्गः - मुग्ध मधुसूदनः as a PDF?

If a verified PDF resource was found on the source page, a PDF download button is automatically connected to this page.

How can I share this page?

Use Copy Link, WhatsApp or Facebook in the sticky sharing bar provided by the Bhakti Granth theme.

Are there related devotional texts on Bhakti Granth?

Yes. The Bhakti Granth theme automatically connects texts through language and topic relationships to strengthen navigation and topical coverage.

WhatsApp Facebook